42109: उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्¶
Padacheda: उदीच्य-ग्रामात् | S | 5 | 1 |
च | S | 0 | 0 |
बहु-अचः | S | 5 | 1 |
अन्त-उदात्तात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अञ् comes in the remaining senses after a word consisting of more than two syllables having उदात्त accent on the final, being the name of a village of the people of the North.
Vasu English Translation¶
The affix अञ् comes in the remaining senses after a word consisting of more than two syllables having उदात्त accent on the final, being the name of a village of the people of the North. The governing force of the word दिक् ceases here. The अञ् debars अण् ॥ Thus शैव꣡पुरम्, भा꣡ण्डपुरम् ॥
Why do we say “village of north-folk”? Observe माथुर꣡म् formed by अण्; difference in accent.
Why do we say “consisting of more than two syllables”? Observe ध्वजी꣡—ध्वज꣡म् ॥
Why do we say “being oxytone?” Observe शार्करीधा॑नम् ॥ Here धा is udatta by (6.1.194), taking लित् accent.
Kashika¶
दिग्ग्रहणं निवृत्तम्। उदीच्यग्रामवाचिनः प्रातिपदिकाद् बह्वचोऽन्तोदात्ताद् अञ् प्रत्ययो भवति शैषिकः। अणोऽपवादः। शैवपुरम्। माण्डवपुरम्। उदीच्यग्रामादिति किम्? माथुरम्। बह्वच इति किम्? ध्वजी — ध्वाजम्। अन्तोदात्तादिति किम् ? शार्करीधानम्। शर्करीधानशब्दे लित्स्वरेण धाशब्द उदात्तः॥
Siddhanta Kaumudi¶
अञ् स्यात् । शैवपुरम् ॥
Balamanorama¶
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् - उदीच्यग्रामाच्च । शैवपुरमिति । उत्तरदेशे शिवपुरं नाम ग्रामविशेषः । तत्र भवमित्यर्थः । समासस्येत्यन्तोदात्तः शिवपुरशब्दः । बह्वचः किम् । ङीषन्तो ध्वञ्जी नाम उत्तरदेशे ग्रामविशेषः । तत्र भवो ध्वाञ्जः । अन्तोदात्तात्किम् । शार्करीधनाम् । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यैवावस्थानान्मध्योदात्तोऽयम् ।
Tattvabodhini¶
उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात् - उदीच्य । दिग्ग्रहणं निवृत्तम् । उदीच्यग्रामात्किम् । माधुरः । बह्वचः किम् । ध्वाजः । पिप्पल्यादिङीषन्तो ध्वजीशब्दः । अन्तोदात्तत्किम् । शार्कराधानम्, शर्कराघानशब्दे धाशब्दाकार उदात्तः । कृदुत्तरपदप्रकृतिस्वरेण लित्स्वरस्यावस्थानात् । शैवपुरमिति ।प्रस्थपुरवहान्ताच्चे॑ति वुञ्न भवति,वृद्धा॑दिति तत्रावुवृत्तेः ।
Padamanjari¶
शैवपुरमिति ।’प्रस्थपुरवहान्तात्’ इति वुञ् न भवति;’वृद्धात्’ इति तत्र वर्तते ॥
Nyaas¶
शैवपुरम्, माहानगरम् इति। शिवपुरमहानगरशब्दौ समासस्वरेणान्तोदात्तौ।माथुरम् इति। मथुराशब्दः प्रातिपदिकस्वरेणान्तोदात्तः। मध्यदेशग्रामस्तु, तेनाणेव भवति। ध्वाजम् इति। ध्वजीशब्दः पिप्पल्यादित्वान्ङीषन्तः।गौरादिषु हि प्पिल्यादयः पठन्ते,तेनासौ प्रत्ययस्वरेणान्तोदात्तः। उदीच्यग्रामस्य बह्वजन्तो भवति। धानशब्द उदात्तः इति। गतिकारकोपपदात् कृत् (6.2.139) इति धानशब्दस्य ल्युडन्तस्य प्रकृतिभावात्॥
Prakriyasarvasvam¶
अञ् स्यात् । शैवपुरम् ॥