42101: द्युप्रागपागुदक्प्रतीचो यत्¶
Padacheda: द्यु-प्राक्-अपाक्-उदक्-प्रतीचः | S | 5 | 1 |
यत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
After the words 1. दिव् 2. प्राच् 3. अपाच् 4. उदच् and 5. प्रत्यच् , the affix यत् is added in the remaining senses.
Vasu English Translation¶
After the words 1. दिव् 2. प्राच् 3. अपाच् 4. उदच् and 5. प्रत्यच् , the affix यत् is added in the remaining senses. Thus दिव्य꣡म्, प्रा꣡च्यम्, अपाच्य॑म्, उदीच्य॑म्, (4.4.130) and प्रतीच्य॑म् ॥ For accent see (6.1.213). When these words are used as Indeclinables, and denote time, they take also the affixes ‘tyu’ and ‘tyul’, e.g, प्राक्तनम् (4.3.25). The word अपाच् means south.
Kashika¶
दिव् प्राच् अपाच् उदच् प्रत्यच् इत्येतेभ्यो यत् प्रत्ययो भवति शैषिकः। दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्। अव्ययात् तु कालवाचिनः परत्वात् ट्युट्युलौ भवतः। प्राक्तनम्॥
Siddhanta Kaumudi¶
दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥
Laghu Siddhanta Kaumudi¶
दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥
Balamanorama¶
द्युप्रागपागुदक्प्रतीचो यत् - द्युप्रागपाक् । दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः । सूत्रे ‘दिव उत्’ इत्युत्त्वेन निर्देशः । दिव्यमिति । दिवि जातादीत्यर्थः । प्राच्यमिति । प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थितेअनिदिता॑मिति नलोपे ‘अचः’ इत्यकारलोपे ‘चौ’ इति दीर्घे प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति । अत्रउद ईदि॑ति ईत्त्वं विशेषः । प्रतीच्यमिति । प्राच्यवद्रूपम् ।
Tattvabodhini¶
द्युप्रागपागुदक्प्रतीचो यत् - द्युप्रागपा । दिव्यमिति । सूत्रेदिव उ॑ दित्युत्वेन निर्देश इति भावः । अपाची दक्षिणा दिक् । द्वितीयो वर्णः पकारो, न तु दन्त्योष्ठ्यः,यदिन्द्र प्रागपागुद॑गित्यादौ तथा दर्शनादिति स्थितं मनोरमायाम् । केचुत्तुप्राच्यवाचीप्रतीच्यास्ताः॑इत्यमरकेशे अवाचीति दन्त्योष्ठपाठं क्वाचित्कं पुरस्कृत्य सूत्रेऽपिअवा॑गिति पठित्वाअवाच्य॑मित्युदाहरन्ति ।प्रागपाक्इति वेदे तु व्यत्ययेन वकारस्य पकार इति तेषामाशयः । प्रागादयोऽस्तात्यन्ता अव्ययाः, तद्भिन्नास्त्वनव्ययाः, उभयेषामपीह ग्रहणमविशेषात् । कथं तर्हिसंस्काराः प्राक्तना इव॑इति । अत्राहुः -कालवाचिनः प्राक्शब्दाद्यतं बाधित्वा परत्वात्टउटउलौ बोध्याविति ।
Padamanjari¶
‘द्यौ’ इति दिव उत्वेन निर्देशः । द्यौशब्दस्य तु ग्रहणं न भवति, व्याख्यानात् । अवाच्यमिति । अवाची उ दक्षिणा दिक् । अव्ययातुकालवाचिन इति । यथाव्ययात्कालवाचिनः’कालाट्ठञ्’ इति ठञ्न भवति; न्यायस्य तुल्यत्वात् ॥
Nyaas¶
अणि प्राप्ते यद् विधीयते। प्रागित्यादयः शब्दा अञ्चतेः ऋत्विक् (3.2.59) इत्यादिना क्विनि कृते सत्यात्मानं लभन्ते। ते च द्विविधाः - अव्ययसंज्ञका,अनव्ययसंज्ञकाश्च। यदा त्वस्तातिप्रत्ययान्ता भवन्ति तदा तद्धितश्चासर्वविभक्तिः (1.1.38) इत्यव्ययसंज्ञाविधानादव्ययसंज्ञकाः,अन्यदा त्वनव्ययसंज्ञकाः। तेषामिह विशेषस्यानुपादानादुभयेषामपि ग्रहणम्। प्राच्यम्, `{अवाच्यम् -इतिकाशिकापाठः,पदमञ्जरीपाठश्च। }अपाच्यम् इति। अचः (6.4.138) इत्यकारलोपः, चौ (6.3.137) इति दीर्घः। उदीच्यम् इति।उद ईत् (6.4.139) इतीकारः। प्राक्तनम् इति। प्राक्शब्दात् दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिक् (5.3.27) इत्यादिनाऽस्तातिः, तस्य अञ्चेर्लुक् (5.3.30) इति लुक्, ततोऽनेन यति प्राप्ते सायञ्चिरम् (4.3.23) इत्यादिना टउटउलौ भवतः। यतस्तु - यश्च कालवाची सोऽवकाशः॥
Sutra Prayogas¶
दिव्यं (किरातार्जुनीयम्): दिवादिभ्यो यत् (द्युप्रागपागुदक्प्रतीचो यत्) इति यत्प्रत्ययः।