42101: द्युप्रागपागुदक्प्रतीचो यत् ================================== **Padacheda:** द्यु-प्राक्-अपाक्-उदक्-प्रतीचः | S | 5 | 1 | यत् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the words 1. दिव् 2. प्राच् 3. अपाच् 4. उदच् and 5. प्रत्यच् , the affix यत् is added in the remaining senses. Vasu English Translation ------------------------ After the words 1. दिव् 2. प्राच् 3. अपाच् 4. उदच् and 5. प्रत्यच् , the affix यत् is added in the remaining senses. Thus दिव्य꣡म्, प्रा꣡च्यम्, अपाच्य॑म्, उदीच्य॑म्, (4.4.130) and प्रतीच्य॑म् ॥ For accent see (6.1.213). When these words are used as Indeclinables, and denote time, they take also the affixes '*tyu*' and '*tyul*', e.g, प्राक्तनम् (4.3.25). The word अपाच् means south. Kashika ------- दिव् प्राच् अपाच् उदच् प्रत्यच् इत्येतेभ्यो यत् प्रत्ययो भवति शैषिकः। दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्। अव्ययात् तु कालवाचिनः परत्वात् ट्युट्युलौ भवतः। प्राक्तनम्॥ Siddhanta Kaumudi ----------------- दिव्यम् । प्राच्यम् । अपाच्यम् । उदीच्यम् । प्रतीच्यम् ॥ Laghu Siddhanta Kaumudi ----------------------- दिव्यम्। प्राच्यम्। अपाच्यम्। उदीच्यम्। प्रतीच्यम्॥ Balamanorama ------------ **द्युप्रागपागुदक्प्रतीचो यत्** - द्युप्रागपाक् । दिव्, प्राञ्च्, अपाञ्च्, उदञ्च्, प्रत्यञ्च् एभ्यो यत्स्यादित्यर्थः । सूत्रे 'दिव उत्' इत्युत्त्वेन निर्देशः । दिव्यमिति । दिवि जातादीत्यर्थः । प्राच्यमिति । प्राचि प्रदेशे जातादीत्यर्थः । तद्धितोत्पत्तौ सुब्लुकि प्राञ्च् य इति स्थितेअनिदिता॑मिति नलोपे 'अचः' इत्यकारलोपे 'चौ' इति दीर्घे प्राच्यमिति रूपम् । अपाच्यमिति । इदमपि पूर्ववत् । उदीच्यमिति । अत्रउद ईदि॑ति ईत्त्वं विशेषः । प्रतीच्यमिति । प्राच्यवद्रूपम् । Tattvabodhini ------------- **द्युप्रागपागुदक्प्रतीचो यत्** - द्युप्रागपा । दिव्यमिति । सूत्रेदिव उ॑ दित्युत्वेन निर्देश इति भावः । अपाची दक्षिणा दिक् । द्वितीयो वर्णः पकारो, न तु दन्त्योष्ठ्यः,यदिन्द्र प्रागपागुद॑गित्यादौ तथा दर्शनादिति स्थितं मनोरमायाम् । केचुत्तुप्राच्यवाचीप्रतीच्यास्ताः॑इत्यमरकेशे अवाचीति दन्त्योष्ठपाठं क्वाचित्कं पुरस्कृत्य सूत्रेऽपिअवा॑गिति पठित्वाअवाच्य॑मित्युदाहरन्ति ।प्रागपाक्इति वेदे तु व्यत्ययेन वकारस्य पकार इति तेषामाशयः । प्रागादयोऽस्तात्यन्ता अव्ययाः, तद्भिन्नास्त्वनव्ययाः, उभयेषामपीह ग्रहणमविशेषात् । कथं तर्हिसंस्काराः प्राक्तना इव॑इति । अत्राहुः -कालवाचिनः प्राक्शब्दाद्यतं बाधित्वा परत्वात्टउटउलौ बोध्याविति । Padamanjari ----------- 'द्यौ' इति दिव उत्वेन निर्देशः । द्यौशब्दस्य तु ग्रहणं न भवति, व्याख्यानात् । अवाच्यमिति । अवाची उ दक्षिणा दिक् । अव्ययातुकालवाचिन इति । यथाव्ययात्कालवाचिनः'कालाट्ठञ्' इति ठञ्न भवति; न्यायस्य तुल्यत्वात् ॥ Nyaas ----- अणि प्राप्ते यद् विधीयते। प्रागित्यादयः शब्दा अञ्चतेः `ऋत्विक्` (3.2.59) इत्यादिना क्विनि कृते सत्यात्मानं लभन्ते। ते च द्विविधाः - अव्ययसंज्ञका,अनव्ययसंज्ञकाश्च। यदा त्वस्तातिप्रत्ययान्ता भवन्ति तदा **तद्धितश्चासर्वविभक्तिः** (1.1.38) इत्यव्ययसंज्ञाविधानादव्ययसंज्ञकाः,अन्यदा त्वनव्ययसंज्ञकाः। तेषामिह विशेषस्यानुपादानादुभयेषामपि ग्रहणम्। `प्राच्यम्, `{अवाच्यम् -इतिकाशिकापाठः,पदमञ्जरीपाठश्च। }अपाच्यम्` इति। `अचः` (6.4.138) इत्यकारलोपः, `चौ` (6.3.137) इति दीर्घः। `उदीच्यम्` इति।`उद ईत्` (6.4.139) इतीकारः। `प्राक्तनम्` इति। प्राक्शब्दात् `दिक्शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिक्` (5.3.27) इत्यादिनाऽस्तातिः, तस्य **अञ्चेर्लुक्** (5.3.30) इति लुक्, ततोऽनेन यति प्राप्ते `सायञ्चिरम्` (4.3.23) इत्यादिना टउटउलौ भवतः। यतस्तु - यश्च कालवाची सोऽवकाशः॥ Sutra Prayogas -------------- * **दिव्यं** (किरातार्जुनीयम्): `दिवादिभ्यो यत्` (द्युप्रागपागुदक्प्रतीचो यत्) इति यत्प्रत्ययः।