42068: तेन निर्वृत्तम्

Padacheda: तेन | S | 3 | 1 |

निर्वृत्तम् | S | 1 | 1 |

Sutrartha

तृतीयासमर्थात् ‘तेन निर्वृत्तम्’ इत्यर्थे देशस्य नाम्नः निर्देशं कर्तुम् यथाविहितः प्रत्ययः भवति ।

‘निर्वृत्तम्’ इत्युक्ते निर्मितम् । देशस्य अभिधानम् तस्य निर्मातुः / हेतोः निर्देशं कृत्वा कर्तव्यमस्ति चेत् वर्तमानसूत्रस्य प्रयोगः भवति । यथा - 1. सहस्रैः निर्वृत्तम् नगरम् = सहस्र + अण् → साहस्रम् नगरम् । नगरस्य निर्माणे सहस्रजनानाम् साहाय्यमुपलब्धम् इत्यर्थः । 2. कुशाम्बेन निर्वृत्ता नगरी = कुशाम्ब + अण् + ङीप् → कौशाम्बी नगरी। कुशाम्बनाम्ना राज्ञा निर्मिता नगरी इत्यर्थः । ज्ञातव्यम् - 1. ‘देश’ इत्यनेन क्षेत्र/ग्राम/नगर/राज्य - एतेषां सर्वेषाम् निर्देशः भवति । अतः नगर्याः नाम्नः निर्देशं कर्तुमपि अस्य सूत्रस्य प्रयोगः अर्ह्यः । 2. अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67), तेन निर्वृत्तम् (4.2.68), तस्य निवासः (4.2.69), तथा अदूरभवश्च (4.2.70) एते चत्वारः अर्थाः ‘चतुरर्थाः’ नाम्ना ज्ञायन्ते । एतेषु सर्वेषु चतुरर्थेषु ‘देशे तन्नाम्नि’ इत्यस्य अनुवृत्तिः क्रियते, अतः सर्वे चतुरर्थाः देशस्य अभिधानम् निर्देष्टुम् प्रयुज्यन्ते । 3. अस्मिन् सूत्रे निर्दिष्टेन ‘तेन’ इत्यनेन शब्देन कर्तुः निर्देशः अपि भवितुमर्हति, साधनस्य च अपि भवितुमर्हति । यथा, ‘साहस्रम्’ इत्यत्र ‘सहस्रजनानाम् साहाय्येन निर्वृत्तम्’ इत्यस्मिन् अर्थे प्रत्ययः भवति, तथा च ‘कौशाम्बी’ इत्यत्र तु ‘कुशाम्ब’ इति कर्तुः नाम्नः प्रत्ययविधानं क्रियते ।

Sutrartha (English)

To indicate the name of a country by referring to its creator, an appropriate तद्धित प्रत्यय gets attached to the word in तृतीयाविभक्ति representing the name of the creator.

Vasu English Summary

After a word in the Instrumental -3rd case in construction an affix is added in the sense of ‘completed by him’ when the whole word so formed is the name of a country.

Vasu English Translation

After a word in the Instrumental -3rd case in construction an affix is added in the sense of ‘completed by him’ when the whole word so formed is the name of a country. The phrase देशे तन्नाम्नि of the last sutra governs this and the two subsequent sutras. By these four sutras the names of countries are formed from various substantives. Thus कुशाम्बेन निर्वृत्ता = कौशाम्बी नगरी “the city of Kausambi, completed by Kusamba”. Similarly साहस्री परिखा “a mote completed by a thousand (gold coins) or persons”. A place is named after the means or the person, by which or through whom it is established.

Bhashya

तेन निर्वृत्तम् (9489)

Kashika

तेनेति तृतीयासमर्थाद् निर्वृत्तमित्येतस्मिन् विषये यथाविहितं प्रत्ययो भवति देशनामधेये गम्यमाने। देशे तन्नाम्नीति चतुर्ष्वपि योगेषु संबध्यते। सहस्रेण निर्वृत्ता साहस्री परिखा। कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी। हेतौ कर्तरि च यथायोगं तृतीया समर्थविभक्तिः॥

Siddhanta Kaumudi

कुशाम्बेन निर्वृत्ता कौशाम्बी नगरी ॥

Laghu Siddhanta Kaumudi

कुशाम्बेन निर्वृत्ता नगरी कौशाम्बी॥

Tattvabodhini

तेन निर्बृत्तम्। अन्तर्भावितण्यर्थाद्वृतेः कर्मणि क्तः।

Padamanjari

निर्वृतमित्यन्तर्भावितण्यर्थाद् वृतेः कर्मणि क्तः ॥

Nyaas

चतुष्र्वपि इति। अनन्तरातीतेऽस्मिन् वक्ष्यमाणयोश्च योगयोः। `कर्तरि च`इति। लक्ष्यानुरोधेन क्वचिद्धेतौ क्वचित् कर्तरि च - सहरुओणेति हेतौ,कुशाम्बेनेति कर्तरि। यदा हेतौ तदा वृत्तेरकर्मकत्वान्निर्वृत्त इति कर्तरि निष्ठा, यदा कर्तरि तदाऽन्तर्भावितव्यमर्थत्वाता कर्मणि। अकर्मका अप्यन्तर्भावितण्यर्थाः सकर्मका भवन्ति॥

Prakriyasarvasvam

अत्रार्थे देशनाम्न्यण् । तेनेति हेतौ कर्तरि वा तृतीया । सहस्रेण निर्वृत्ता साहस्री परिखा । कुशाम्बेन कृता, कौशाम्बी नगरी ।।