42055: सोऽस्यादिरिति च्छन्दसः प्रगाथेषु

Padacheda: सः | S | 1 | 1 |

अस्य | S | 6 | 1 |

आदिः | S | 1 | 1 |

इति | S | 0 | 0 |

छन्दसः | S | 5 | 1 |

प्रगाथेषु | S | 7 | 3 |

Sutrartha

प्रथमासमर्थ-छन्दवाचिभ्यः प्रातिपदिकेभ्यः ‘प्रगाथस्य आदिः’ अस्मिन् अर्थे यथाविहितः प्रत्ययः भवति ।

किम् नाम प्रगाथः ? काशिकाकारः वदति - ‘यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथः इत्युच्यते’ । इत्युक्ते, श्लोकानाम् काचन विशिष्टा गानपद्धतिः, यस्याम् द्वयोः पङ्क्त्योः सन्धानेन / संयोजनेन तिस्रः पङ्क्त्यः जायन्ते, सा ‘प्रगाथः’ नाम्ना प्रसिद्धा अस्ति । एतादृशस्य प्रगाथस्य या प्रथमा ऋक् तस्याः यत् गानवृत्तम्, तस्य साहाय्येन यदि प्रगाथस्य निर्देशः करणीयः अस्ति, तर्हि अस्य सूत्रस्य प्रयोगः भवति । यथा - 1. यदि कस्यचन प्रगाथस्य प्रथमा ऋक् ‘जगती’ नाम्नी छन्दे गीयते, तर्हि तस्य प्रगाथस्य वर्णनम् (जगती + अञ् →) ‘जागतः प्रगाथः’ अनेन प्रकारेण भवति । जगतीछन्दस्का ऋक् अस्य प्रगाथस्य आदिः सः प्रगाथः जागतः प्रगाथः । 2. यदि कस्यचन प्रगाथस्य प्रथमा ऋक् ‘पङ्क्ति’ नाम्नी छन्दे गीयते, तर्हि तस्य प्रगाथस्य वर्णनम् (पङ्क्ति + अञ् →) ‘पाङ्क्तः प्रगाथः’ अनेन प्रकारेण भवति । पङ्क्तिच्छन्दस्का ऋक् अस्य प्रगाथस्य आदिः सः प्रगाथः पाङ्क्तः प्रगाथः । ज्ञातव्यम् - पङ्क्ति, जगती, अनुष्टुप्, त्रिष्टुप् एते शब्दाः उत्सादिभ्योऽञ् (4.1.86) इत्यत्र उत्सादिगणे समाविश्यन्ते । अतः एतेषां विषये सोऽस्यादिरिति च्छन्दसः प्रगाथेषु (4.2.55) अस्मिन् अर्थे अञ्-प्रत्ययः एव कर्तव्यः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!छन्दसः प्रत्ययविधाने नपुंसके स्वार्थे उपसङ्ख्यानम्!> । इत्युक्ते, छन्दोवाचिभ्यः प्रातिपदिकेभ्यः स्वार्थे अपि (प्रगाथस्य सन्दर्भं विना अपि) अण्-प्रत्ययः भवति । यथा = जगती छन्दः = (जगती + अण् →) जागतम् छन्दः । त्रिष्टुब् छन्दः = (त्रिष्टुभ् + अण् →) त्रैष्टुभम् छन्दः ।

Sutrartha (English)

To indicate a प्रगाथ using the छन्द of the first stanza of that प्रगाथ, an appropriate तद्धितप्रत्यय can be attached to the प्रथमासमर्थ representing the name of the छन्द.

Vasu English Summary

The affix अण् is added to the names of Meters, indicates a प्रगाथ beginning therewith.

Vasu English Translation

The affix अण् is added to the names of Meters, indicates a प्रगाथ beginning therewith. The words of this sutra require a little explanation. सः ‘that’ i.e. a word in construction in the first case. अस्य ‘its’ i.e. this gives the meaning of the affix. आदिः ‘beginning’; this qualifies the base or prakriti. The word इति is added for the sake of precision. छन्दसः ‘after the name of a metre’. This points out the base. प्रगाथेषु ‘in the sense of Pragatha’. This qualifies the meaning of the affix. To put it in other words, the sutra means, that the affix अण् is added to the name of a metre, when that metre is the beginning of a Pragatha, and the whole word so formed means a Pragatha beginning with that metre. Thus पंक्ति is the name of a metre, adding अण् to it we get पांक्तः which means “a Pragatha beginning with the metre Pankti”. Similarly आनुष्टुभः, जागतः &c.

Why do we say “beginning”? If the metre is in the middle or end of a ‘Pragatha’ the affix will not be employed. Why do we say ‘after the name of a metre’? The affix will not be added to a word which is in the beginning of a Pragatha. Why do we say ‘in the sense of a Pragatha’? The affix will not be added, if the metre is the beginning of an Anuvaka &c and not of a Pragatha. Pragatha is the name of a particular kind of Mantra or Hymn यत्र द्वे ऋचौ प्रगथनेन तिस्रः क्रियन्ते, स प्रगायनात् पकर्षगानात् वा प्रगाथ इत्युच्यते ॥

Varti:- The affix अण् is added to the name of a metre in a self-descriptive sense without changing the meaning of it; and the word so formed is in the neuter gender. As, त्रैष्टुभम् ‘the metre Trishtubha’, जागतम् &c.

Bhashya

सोऽस्यादिरिति च्छन्दसः प्रगाथेषु (1478) (अर्थाधिकरणम्) (5378 सिद्धान्तसाधकवार्तिकम्॥ 1 ॥) - छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ उपसंख्यानम् - (भाष्यम्) छन्दसः प्रत्ययविधाने नपुंसकात्स्वार्थ उपसंख्यानं कर्तव्यम्। त्रिष्टुबेव त्रैष्टुभम्, अनुष्टुबेवानुष्टुभम्, जगत्येव जागतम्॥

Kashika

स इति समर्थविभक्तिः। अस्येति प्रत्ययार्थः। आदिरिति प्रकृतिविशेषणम्। इतिकरणो विवक्षार्थः। छन्दस इति प्रकृतिनिर्देशः। प्रगाथेष्विति प्रत्ययार्थविशेषणम्। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं छन्दश्चेत् तदादिर्भवति, यत् तदस्येति निर्दिष्टं प्रगाथाश्चेत् ते भवन्ति। इतिकरणस्ततश्चेद् विवक्षा। पङ्क्तिरादिरस्य पाङ्क्तः प्रगाथः। आनुष्टुभः। जागतः। आदिरिति किम्? अनुष्टुब् मध्यम् अस्य प्रगाथस्य। छन्दस इति किम्? उदुत्यशब्द आदिरस्य प्रगाथस्य। प्रगाथेष्विति किम्? पङ्क्तिरादिरस्यानुवाकस्य। प्रगाथशब्दः क्रियानिमित्तकः क्वचिदेव मन्त्रविशेषे वर्तते। यत्र द्वे ऋचौ प्रग्रथनेन तिस्रः क्रियन्ते, स प्रग्रथनात् प्रकर्षगानाद् वा प्रगाथ इत्युच्यते॥ छन्दसः प्रत्ययविधाने नपुंसके स्वार्थ उपसंख्यानम्॥ त्रिष्टुबेव त्रैष्टुभम्। जागतम्॥

Siddhanta Kaumudi

अण् । पङ्क्तिरादिरस्येति पाङ्क्तः प्रगाथः ।<!स्वार्थ उपसंख्यानम् !> (वार्तिकम्) ॥ त्रिष्टुबेव त्रैष्टुभम् ॥

Balamanorama

सोऽस्यादिरिति च्छन्दसः प्रगाथेषु - सोऽस्यादिः । ऋग्द्वयमाम्नातं पादावृत्त्या ऋक्त्रयं संपद्यते । स च ‘संप्रगाथ’ इति छन्दोगसूत्रे बह्वचसूत्रे च प्रसिद्धम् । षष्ठएकवचनस्थाने सप्तमीबहुवचनमार्षम् । सोऽस्य प्रगाथस्य आदिरित्यर्थे प्रथमान्ताच्छन्दोविशेषवाचकदणादिप्रत्ययाः स्युरित्यर्थः । अक्षरेयत्ताविशेषो गायत्र्यादिश्छन्दः । पङ्क्तिरादिरिति । पङ्क्तिच्छन्दस्का ऋक् आदिर्यस्य प्रघाथस्य स पाङ्क्तः प्रगाथ इत्युच्यते इत्यर्थः । स्वार्थ इति । छन्दोवाचिभ्यः स्वार्थेऽणादिप्रत्ययस्योपसह्ख्यानमित्यर्थः । त्रैष्टुभमिति । क्लीबत्वं लोकात् ।

Tattvabodhini

सोऽस्यादिरिति च्छन्दसः प्रगाथेषु - सोऽस्यादिरिति । छन्दो नाम — अक्षरेयत्तानिबन्धनपङ्क्त्यादिरिह विवक्षितः । तद्वाचकात्प्रथमान्तदस्येत्यादिमति प्रत्ययः स्यात्, य आदिमान्स प्रगाथश्चेत् । प्रग्रथ्यत इति प्रगाथऋ ।ग्रन्थ संदर्भे॑इत्यस्मात्अकर्तरिच कारके॑इति कर्मणि घञ् । पृषोदरादित्वाद्रेफनकारयोर्लोपः । अन्ये तु प्रगीयत इति प्रगाथः ।गै शब्दे॑इत्यतःउषिकुषिगार्तिभ्यः स्थन्इत्याहुः । यत्र द्वे ऋचावावृत्त्या तिरुआः क्रियन्ते स प्रगाथः ।स्वार्थ उपसङ्ख्यानम् । त्रैष्टुभमिति ।स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते॑इति न्यायेन क्लीबतेति भावः ।

Padamanjari

च्छन्दस इति न स्वरूपग्रहणम्, नापि मन्त्रब्राह्मणयोः, कस्य तर्हि ? अक्षराणामियतावचनश्च्छन्दः शब्दोऽस्ति, यस्य जगत्यादयो विशेषास्तस्य ग्रहणम् ; प्रागाथानामादौ तस्यैव सम्भवात्, तेन पङ्क्त्यादिशब्देभ्यः प्रत्ययः । यत्र द्वे ऋचौ तिस्रः क्रियन्त इति चतुर्थषष्ठौ पादौ बार्हतो प्रगाये पुनरभ्यसित्वोतरयोरवस्येदित्येवमादिना प्रकारेण । तद्यथा - यज्ञायज्ञा वः प्रियं मित्रं न शंसिषाआ प्रियं मित्रं न शंसिषमूजे निपातमिति । तत्र योऽयमुच्चारणप्रकारस्तद्ग्रथनम् । प्रग्रथनादिति । प्रगाथशब्दप्रवृत्तिनिमितं दर्शयति, प्रग्रथ्यत इति प्रगाथः, ठकर्तरि च कारकेऽ इति कर्मणि घञ्, पृषोदरादित्वाद्रेफनकारयोर्लोपः । प्रागाणाद्वेति ।’कृत्यचः’ इति णत्वम्,’कौ गौ शब्दे’ , प्रगीयत इति प्रगाथः, ठुषिकुषिगर्तिभ्यस्थन्ऽ । त्रैष्टुअभमिति । कुटीर इति स्वार्थिकस्यापि रप्रत्ययस्य यथा भिन्नलिङ्गता, तथेहापि नपुंसकत्वं द्रष्टव्यम् ॥

Nyaas

छन्दसः इति। न स्वरूपग्रहणम्, नापि मन्त्रब्राआहृणयोः। कस्य तर्हि? अक्षराणामियत्तावचनश्छन्दशब्दोऽस्ति, यस्य जगत्यादयो विशेषाः, तस्येदं ग्रहणम्। तस्यैव हि प्रगाथ इत्यादौ सम्बन्धः, नेतरस्य। तेन पङ्क्त्यादिभ्यः प्रत्ययो भवतीत्युक्तं भवति।{प्रगथनेन -काशिका} प्रग्रन्थेन इति। उच्चारणविशेषणेन प्रग्रन्थात् प्रकर्षाद्गायनर्थाद्वेति। एतेन यन्निमित्तकः प्रगाथशब्दस्तां क्रियां दर्शयति। प्रगाथशब्दोऽयं यदा अकर्तरि च कारके संज्ञायाम् (3.3.19) इति कर्मणि घञन्तो व्युत्पाद्यते - प्रग्रवयतेऽसौ प्रगाथ इति, पृषोदरादिपाठाद्ग्रन्थे रेफानुनासिकयोर्लोपश्च , तदा प्रग्रन्थनक्रियानिमित्तको भवति। यदा तु कै गै शब्दे (धातुपाठः-916,917) इत्यस्मात् उणादयो बहुलम् (3.3.1) इति प्रगाथस्थन्प्रत्ययान्तो व्युत्पाद्यते, तदा गायनक्रियानिमित्तो भवति।नुपंसके इत्यादि। नपुंसकलिङ्गे स्वार्थ एव च्छन्दसः प्रत्ययस्योपसंख्यानम्। तत्रेदं व्याख्यानम् - इति करणो विवक्षार्थः। तेन यत्र प्रत्ययान्ताच्छिष्टानां विवक्षा भवति तत्र प्रत्ययेन भवितव्यम्। नपुंसकलिङ्गे स्वार्थेऽपि च सा भवति, अतस्तत्रापि प्रत्ययो भवति। अवश्यं चैतदेव विज्ञेयम्। यो हि मन्यते - सर्वातिप्रसङ्गनिवृत्तिरितिकरणेन क्रियते इति, तस्यासावनर्थक एव स्यात्; सर्वातिप्रसङ्गानानुपाधिभिर्निरस्तत्वात्॥

Prakriyasarvasvam

छन्दोवाचिभ्यः सोऽस्यादिरित्यर्थे प्रगाथे वाच्येऽण् स्यात् । अनुष्टुभ् आदिर्यस्य प्रगाथस्य स आनुष्टुभः । बार्हतः । ऋक्सङ्घातः प्रगाथाख्यः । (वा०) ‘छन्दसः स्वार्थे क्लीबेऽण् वाच्यः’ । अनुष्टुबेवानुष्टुभम् । गायत्रम् ।।

Vartika

स्वार्थ उपसंख्यानम् ।