42054: भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ

Padacheda: भौरिक्यादि-ऐषुकार्यादिभ्यः | S | 5 | 3 |

विधल्-भक्तलौ | S | 1 | 2 |

Sutrartha

‘तस्य विषयः देशे’ अस्मिन् अर्थे भौरिक्यादिगणस्य शब्देभ्यः विधल्-प्रत्ययः भवति, तथा ऐषुकार्यादि-गणस्य शब्देभ्यः भक्तल्-प्रत्ययः भवति ।

विषयो देशे (4.2.52) अस्मिन् अर्थे भौरिक्यादिगणस्य शब्देभ्यः विधल्-प्रत्ययः भवति, तथा ऐषुकार्यादि-गणस्य शब्देभ्यः भक्तल्-प्रत्ययः भवति । भौरिक्यादिगणः अयम् - भौरिकि। वैपेय। भौलिकि। चैटयत। काणेय। वाणिजक। वालिज। वालिज्यक। शैकयत। वैकयत। एतेभ्यः सर्वेभ्यः विषयो देशे (4.2.52) अस्मिन् अर्थे विधल्-प्रत्ययः भवति । उदाहरणानि - 1. भौरिकीनां विषयः देशः भौरिकिविधः । 2. वैपेयानां विषयः देशः वैपेयविधः । 3. चैटयतानां विषयः देशः चैटयतविधः । 4. काणेयानां विषयः देशः काणेयविधः । 5. वाणिजकानां विषयः देशः वाणिजकविधः । 6. वालिजानां विषयः देशः वालिजविधः । 7. वालिज्यकानां विषयः देशः वालिज्यकविधः । 8. शैकयतानां विषयः देशः शैकयतविधः । 9. वैकयतानां विषयः देशः वैकयतविधः । ऐषुकार्यादिगणः अयम् - ऐषुकारि, सारस्यायन, चान्द्रायण, द्व्याक्षायण, त्र्याक्षायण, औडायन, जौलायन, खाडायन, सौवीर, दासमित्रि, दासमित्रायण, शौद्रायण, शापण्डायन, शायण्डायन, दाक्षायण, शपण्ड, शयण्ड, तार्क्ष्यायण, शौभ्रायण, शौण्ड, शयाण्डि, वैश्वमाणव, वैश्वधेनव, नड, तुण्डदेव, विश्वदेव। एतेभ्यः सर्वेभ्यः विषयो देशे (4.2.52) अस्मिन् अर्थे भक्तल् -प्रत्ययः भवति । 1. ऐषुकारीणां विषयः देशः ऐषुकारिभक्तः । 2. सारस्यायनानां विषयः देशः सारस्यायनभक्तः । 3. चान्द्रायणानां विषयः देशः चान्द्रायणभक्तः । 4. द्व्याक्षायणानां विषयः देशः द्व्याक्षायणभक्तः । 5. त्र्याक्षायणानां विषयः देशः त्र्याक्षायणभक्तः । 6. औडायनानां विषयः देशः औडायनभक्तः । 7. जौलायनानां विषयः देशः जौलायनभक्तः । 8. खाडायनानां विषयः देशः खाडायनभक्तः । 9. सौवीराणां विषयः देशः सौवीरभक्तः । 10. दासमित्रीणां विषयः देशः दासमित्रिभक्तः । 11. दासमित्रायणानां विषयः देशः दासमित्रायणभक्तः । 12. शौद्रायणानां विषयः देशः शौद्रायणभक्तः । 13. शापण्डायनानां विषयः देशः शापण्डायनभक्तः । 14. शायण्डायनानां विषयः देशः शायण्डायनभक्तः । 15. दाक्षायणानां विषयः देशः दाक्षायणभक्तः । 16. शपण्डानां विषयः देशः शपण्डभक्तः । 17. शयण्डानां विषयः देशः शयण्डभक्तः । 18. तार्क्ष्यायणानां विषयः देशः तार्क्ष्यायणभक्तः । 19. शौभ्रायणानां विषयः देशः शौभ्रायणभक्तः । 20. शौण्डानां विषयः देशः शौण्डभक्तः । 21. शयाण्डीनां विषयः देशः शयाण्डिभक्तः । 22. वैश्वमाणवानां विषयः देशः वैश्वमाणवभक्तः । 23. वैश्वधेनवानां विषयः देशः वैश्वधेनवभक्तः । 24. नडानां विषयः देशः नडभक्तः । 25. तुण्डदेवानां विषयः देशः तुण्डदेवभक्तः । 26. विशदेवानां विषयः देशः विशदेवभक्तः ।

Sutrartha (English)

The words of the भौरिक्यादिगण get the प्रत्यय ‘विधल्’ to indicate the meaning of ‘विषयः देशे’. The words of the ऐषुकार्यादिगण get the प्रत्यय ‘भक्तल्’ to indicate the meaning of ‘विषयः देशे’.

Vasu English Summary

The affixes विधल् and भक्तल् come respectively after the words बहौरिकि and ऐषुकारि etc. in the sense of ‘sphere of country’.

Vasu English Translation

The affixes विधल् and भक्तल् come respectively after the words बहौरिकि and ऐषुकारि etc. in the sense of ‘sphere of country’. This debars अण् ॥ Thus भौरिकिविधः, वैपेयविधः &c. ऐषुकारिभक्तः, सारस्यायनभक्तः &c.

1 भौरिकि, 2 भौलिकि, 3 चौपयत, 4 चैटयत (चौटयत), 5 काणेय, 6 वाणिजक, 7 वालिकाज्य (वाणिकाज्यः वालिज, वालिज्यक), 8 सैकयत (शैकयत.), 9 वैकयत. 10 वैपेय.

1 ऐषुकारि, 2 सारस्यायन (सारसायन), 3 चान्द्रायण, 4 द्व्याक्षायण, 5 त्र्याक्षायण (त्र्यायण), 6 औडायन, 7 जौलायन, 8 खाडायन, 9 दासमित्रि, 10 दासमित्रायण, 11 शौद्रायण (शौद्राण), 12 दाक्षायण, 13 शायण्डायन, 14 तार्क्ष्यायण, 15 शौभ्रायण, 16 सौवीर, 17 सौवीरायण, 18 शयण्ड, 19 शौण्ड, 20 शयाण्ड, 21 वैश्वमानव, 22 वैश्वधेनव, 23 नड (नद) 24 तुण्डदेव, 25 विश्वदेव (विशदेव and वैश्वदेव), 26 तापिण्डि. 27 शौण्डि, 28 सायण्डि, 29 अलायत, 30 औलालायत.

Kashika

भौरिक्यादिभ्य ऐषुकार्यादिभ्यश्च यथासंख्यं विधल् भक्तल् इत्येतौ प्रत्ययौ भवतो विषयो देश इत्येतस्मिन् विषये। अणोऽपवादः। भौरिकिविधः। वैपेयविधः। ऐषुकार्यादिभ्यः — ऐषुकारिभक्तः। सारस्यायनभक्तः॥ भौरिकि। वैपेय। भौलिकि। चैटयत। काणेय। वाणिजक। वालिज। वालिज्यक। शैकयत। वैकयत। भौरिक्यादिः॥ ऐषुकारि। सारस्यायन। चान्द्रायण। द्व्याक्षायण। त्र्याक्षायण। औडायन। जौलायन। खाडायन। सौवीर। दासमित्रि। दासमित्रायण। शौद्रायण। दाक्षायण। शयण्ड। तार्क्ष्यायण। शौभ्रायण। सायण्डि। शौण्डि। वैश्वमाणव। वैश्वधेनव। नद। तुण्डदेव। विशदेव॥

Siddhanta Kaumudi

भौरिकीणां विषयो देशः भौरिकिविधम् । भौलिकिविधम् । ऐषुकारिभक्तम् । सारसायनभक्तम् ॥

Balamanorama

भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ - भौरिक्याद्यैषु । भैरिक्यादिभ्य ऐषुकार्यादिभ्यश्च षष्ठन्तेभ्यः यथाक्रमं विधल्, भक्तल्-एतौ प्रत्ययौ स्तो विषयो देश इत्यर्थे । ऐषुकारिभक्तमिति । ऐषुकारीणां विषयो देश इत्यर्थः । सारसायनभक्तमिति । सारसायनानां विषयो देश इत्यर्थः । इह नपुंसकत्वं लोकात् ।

Tattvabodhini

भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ - भौरिकिविधमित्यादि । क्लीबत्वं लोकात् ।

Prakriyasarvasvam

क्रमात् स्तः । भौरिकीणां देशो, भौरिकिविधः । भौलिकिविधः । ऐषुकारि- भक्तः । सौवीरभक्त इत्यादि ।।