42003: नक्षत्रेण युक्तः कालः¶
Padacheda: नक्षत्रेण | S | 3 | 1 |
युक्तः | S | 1 | 1 |
कालः | S | 1 | 1 |
Sutrartha¶
नक्षत्रवाचिनः तृतीयासमर्थात् ‘युक्तः कालः’ अस्मिन् अर्थे अण् तद्धितप्रत्ययः विधीयते ।
यदि कस्यचन नक्षत्रस्य नाम्नः प्रयोगं कृत्वा कालस्य कस्यचन विभागस्य (यथा - प्रातः, दिनम्, सायम्, रात्रिः - एतेषाम्) निर्देशः क्रियते, तर्हि तस्मात् नक्षत्रनाम्नः अनेन सूत्रेण यथाविहितः तद्धितप्रत्ययः भवति । यथा - 1. पुष्येण युक्तं अहः = पुष्य + अण् = पौष । अत्र प्रक्रिया इयम् जायते - पुष्येण + अण् → पुष्य + टा + अण् [अलौकिकविग्रहः] → पुष्य + अण् [कृत्तद्धितसमासाश्च (1.2.46) इति प्रातिपदिकसंज्ञा । सुपो धातुप्रातिपदिकयोः (2.4.71) इति प्रातिपदिके उपस्थितस्य सुप्-प्रत्ययस्य लोपः] → पुष्य + अ [इत्संज्ञालोपः] → पौष्य + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → पौष्य् + अ [यस्येति च (6.4.148) इति अकारलोपः ] → पौष् + अ [<!तिष्यपुष्ययोर्नक्षत्राणि यलोपः इति वाच्यम् !> अनेन वार्त्तिकेन ‘पुष्य्’ इत्यस्य यकारस्य लोपः भवति ।] → पौष 2. मघानक्षत्रेण युक्ता रात्री = मघा + अण् + ङीप् → माघ + ङीप् → माघी । अत्र टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः (4.1.15) इत्यनेन ङीप्-प्रत्ययः विधीयते । ज्ञातव्यम् - 1. अस्य सूत्रस्य विषये काशिकाकारः वदति - ‘ पुष्यसमीपस्थेन चन्द्रमसा युक्तः इत्यर्थः’ । इत्युक्ते चन्द्रमाः यस्मिन् नक्षत्रे वर्तते, तस्यैव नक्षत्रस्य विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । यथा - चन्द्रमाः यस्याम् रात्रौ मघानक्षत्रेण युक्तः अस्ति, सा रात्री ‘माघी’ । चन्द्रमाः एकस्मिन् नक्षत्रे प्रायः एकदिनं यावत् एव विराजति, अतः अस्मिन् सूत्रे प्रयुक्तः ‘कालः’ अयं शब्दः ‘प्रातः, दिनम्, सायम्, रात्रिः’ - एतेषामेव निर्देशं कर्तुमर्हति, पक्ष-मास-संवत्सरादीनाम् न । 2. अस्य सूत्रस्य प्रयोगार्थम् ‘नक्षत्रम्’, ‘युक्त’, तथा ‘काल’ - त्रयाणामपि उपस्थितिः भवेत् । यथा - अ) चन्द्रेण युक्तम् अहः - इत्यत्र ‘नक्षत्रेण’ इत्यत्र अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति । आ) पुष्येण समाप्तम् अहः - इत्यत्र ‘युक्तः’ इत्यस्य अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति । इ) पुष्येण युक्तः चन्द्रः - इत्यत्र ‘कालः’ इत्यत्र अभावात् अस्य सूत्रस्य प्रसक्तिः नास्ति ।
Sutrartha (English)¶
To indicate the meaning of ‘time occupied by a certain नक्षत्र’, an appropriateतद्धित प्रत्यय can be attached to the word in तृतीया विभक्ति that indicates name of the नक्षत्र.
Vasu English Summary¶
The affix अण् already ordained – प्राग्दीव्यतोऽण् (4.1.83), comes after a word in the Instrumental -3rd case in construction which is the name of a lunar mansion, to signify a time connected with the asterism.
Vasu English Translation¶
The affix अण् already ordained – प्राग्दीव्यतोऽण् (4.1.83), comes after a word in the Instrumental -3rd case in construction which is the name of a lunar mansion, to signify a time connected with the asterism. A time is said to be connected with an asterism when the moon is in conjunction with any one of such asterism. Thus पुष्य, तिष्य, मघा &c are lunar asterisms, when the moon is in any one of these asterisms, then the affix is added to the name of such asterism in order to denote time of such conjunction. Thus पुष्य + अण् = पौषः (6.4.149) e.g. पौषिरात्रिः “the night in which moon is in Pushya”. So also माघी रात्रिः; पौषमह ‘the month in which the moon is full in Pushya i. e. December’, so also माघमह ‘the month Magha’ &c.
Why do we say नक्षत्रेण ‘connected with the asterism’? Observe चन्द्रमसा युक्ता रात्रिः ॥ Why do we say काल ‘time’? Observe पुष्येण युक्तचन्द्रमाः ॥
Bhashya¶
नक्षत्रेण युक्तः कालः (1426) (युक्ताथाधिकरणम्) (आक्षेपभाष्यम्) अयुक्तोऽयं निर्देशः। योगो हि नाम स भवति ययोः संनिकर्षविप्रकर्षौ स्तः। न च कालनक्षत्रयोः संनिकर्षविप्रकर्षौ स्तः, नित्ये हि कालनक्षत्रे। कथं तर्हि निर्देशः कर्तव्यः? (5333 आक्षेपवार्तिकम्॥ 1 ॥) - नक्षत्रेण चन्द्रमसो योगात्तद्युक्तात्काले प्रत्ययविधानम् - (भाष्यम्) नक्षत्रेण चन्द्रमसो योगात्तद्युक्तात्काले प्रत्ययविधानं भवतीति वक्तव्यम्। पुष्येण युक्तः पुष्ययुक्तः, पुष्ययुक्तश्चन्द्रमा अस्मिन् काले पौषमहः, पौषी रात्रिः॥ (5334 आक्षेपसाधकवार्तिकम्॥ 2 ॥) - तत्रोत्तरपदलोपः - (भाष्यम्) तत्रैवं सति उत्तरपदलोपो वक्तव्यः। पुष्ययुक्तशब्दाद्धि प्रत्ययो विधीयते॥ (5335 आक्षेपसाधकवार्तिकम्॥ 3 ॥) - लिङ्गवचनानुपपत्तिश्च - (भाष्यम्) लिङ्गवचनयोश्चानुपपत्तिः। चन्द्र मसो यल्लिङ्गं वचनं च तद्युक्तवद्भावेन प्राप्नोति॥ (5336 समाधानवार्तिकम्॥ 4 ॥) - कालयोगात्सिद्धम् - (भाष्यम्) कालयोगात्सिद्धमेतत्॥ अस्तु नक्षत्रेण युक्तः काल इत्येव॥ (समाधानाक्षेपभाष्यम्) ननु चोक्तम् -अयुक्तोऽयं निर्देशः, योगो हि नाम स भवति ययोः संनिकर्षविप्रकर्षौ स्तः, न च कालनक्षत्रयोः संनिकर्षविप्रकर्षौ स्तः, नित्ये हि कालनक्षत्रे इति। नैष दोषः। पुष्यसमीपगते चन्द्रमसि पुष्यशब्दो वर्तते, तेन तत्संज्ञकेन कालो विशेष्यते॥ (5337 सिद्धान्तवार्तिकम्॥ 5 ॥) - तथा च संप्रत्ययः - (भाष्यम्) एवं च कृत्वा लोके संप्रत्ययो भवति। पुष्यसमीपगते चन्द्रमसि वक्तारो भवन्ति -पुष्येणाद्य, मघाभिरद्येति॥
Kashika¶
तृतीया समर्थविभक्तिरनुवर्तते। तेनेति तृतीयासमर्थाद् नक्षत्रविशेषवाचिनः शब्दाद् युक्त इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, योऽसौ युक्तः, कालश्चेत् स भवति। कथं पुनर्नक्षत्रेण पुष्यादिना कालो युज्यते? पुष्यादिसमीपस्थे चन्द्रमसि वर्तमानाः पुष्यादिशब्दाः प्रत्ययमुत्पादयन्ति। पुष्येण युक्तः कालः। पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः। पौषी रात्रिः। पौषमहः। माघी रात्रिः। माघमहः। नक्षत्रेणेति किम्? चन्द्रमसा युक्ता रात्रिः। काल इति किम्? पुष्येण युक्तश्चन्द्रमाः॥
Siddhanta Kaumudi¶
पुष्येण युक्तं पौषमहः । पौषी रात्रिः ॥
Laghu Siddhanta Kaumudi¶
अण् स्यात्। तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्। पुष्येण युक्तं पौषमहः॥
Balamanorama¶
नक्षत्रेण युक्तः कालः - नक्षत्रेण । अस्मिन्नर्थे प्रथमोच्चारितान्नक्षत्रवाचकाच्छब्दात् प्राग्दीव्यतीयाः प्रत्यया यथायथं स्युरित्यर्थः । नक्षत्रयुक्तश्चन्द्रमा-नक्षत्रशब्देन विवक्षितः । पुष्येण युक्तमिति । पुष्ययुक्तचन्द्रमसा युक्तमित्यर्थः । पौषमहरिति । पुष्यशब्दादणितिष्यपुष्ययोर्नक्षत्राऽणि यलोपः॑ इति यलोपः । पौषी रात्रिरिति । पुष्ययुक्तचन्द्रमसा युक्तेत्यर्थः । अणि यलोपेटिड्ढे॑ति ङीप् । नक्षत्रेणेति किम् । चन्द्रेण युक्ता रात्रिः । कालः किम् । पुष्येणयुक्तश्चन्द्रमाः ।
Tattvabodhini¶
नक्षत्रेण युक्तः कालः - नक्षत्रेण । नक्षत्रवाचकाः शब्दा वृत्तिविषये तद्युक्तं चन्द्रमसमभिदधानाः प्रत्ययं लभन्ते । पुष्येणेति । पुष्यसमीपस्थेन चन्द्रमसेत्यर्थः । एवं च पौषमह इत्यादिव्यवहारः सङ्गच्छते । सर्वेषामप्यह्नां पुष्ययोगसत्त्वेऽपि तत्समीपस्थचन्द्रमसा योगस्याऽसर्वत्रिकत्वात् । नक्षत्रेणेति किम् । चन्द्रेण युक्ता रात्रिः । कालः किम् । पुष्येण युक्तश्चन्द्रः ।
Padamanjari¶
इह पारमर्षाः कालं क्रियात्मानमिच्छन्ति, यथोक्तम् - आदित्य - ग्रह - नक्षत्र - परिस्पन्दमथापरे । भिन्नमावृत्तिभेदेन कालं कालविदो विदुः ॥ इति । वैशेषिकास्तु द्रव्यमाकाशकल्पम्, उक्तं च - व्यापारव्यतिरेकेण कालमेके प्रचक्षते । नित्यमेकं विभु द्रव्यं परिमाणं क्रियावताम् ॥ इति । द्वयोरपि दर्शनयोर्नक्षत्रेण कालस्य योगो न सम्भवति, किं कारणम् ? अप्राप्तिपूर्विका प्राप्तिःउयोगः, कालविशेषावधारणार्थो हि लोके पौषादिशब्दप्रयोगः, एवंविध एव च योगः कालविशेषावधारणहेतुर्भवति । द्रव्यपक्षे तावद् द्वयोरपि नक्षत्रकालयोर्नित्यत्वात्कालस्य च सर्वगतत्वान्न कदाचिदयोगः । क्रियापक्षेऽपि नक्षत्रगतायाः क्रियायाः कालख्यायाः समवायलक्षणो योगोऽव्यभिचारादविशेषणम् । सूर्यादिगतायास्त्वसम्भवादविशेषणम् । यदि तु यथाकथञ्चिद्योगः, तदा व्यभिचाराभावः । न हि सोऽस्त्यहोरात्रो यः पुष्येण न युक्तः । तस्मात्’नक्षत्रेण युक्तः कालः’ इत्यनुपपन्नो निर्देशः । कथं तर्हि निर्देशः कर्तव्यः, नक्षत्रादेर्युक्तान्ताद्यौक्ते काले प्रत्ययविधानं युक्तलोपश्च, पुष्येण युक्तश्चन्द्रमां पुष्ययुक्तः, पुष्ययुक्तेन युक्तः काल इति पुष्ययुक्तशब्दाच्चन्द्रमसि वर्तमानात्प्रत्ययः, युक्तशब्दस्य च लोपः, पौषी रात्रिः, पौषमहः, एवं सर्वत्र । तत्र युक्तवद्भावे दोषः, मधायुक्तशब्दात्प्रत्यये क्रियमाणे तस्य लुपि मघा इति स्त्रीत्वबहुत्वे न सिद्ध्यतः, युक्तस्यैव तु चन्द्रमसो लिङ्गवचनप्रसङ्गः, अतो नक्षत्रवाचिन एव प्रत्यययोर्योगः सम्भवतीति मत्वा पृच्छति - कथं पुनरिति । न चन्द्रमसैव योगे पुष्यादीनां नक्षत्रता; ज्योतिर्मात्रवचनत्वान्नक्षत्र शब्दस्य । ये तु पुष्यादीनामावस्थिकी नक्षत्रता चन्द्रमसा योगे भवतीत्याहुः, तेषामयं प्रश्नोऽनुपपन्नः । पुष्यादिसमीपस्थ इति । मुख्यार्थासम्भवे गौणस्याश्रयणमिति भावः । तत्र मघादयः शब्दा अपरित्यक्तस्वलिङ्गसङ्ख्या एव चन्द्रमसि वर्तन्ते, यथा - मञ्चादयः, मञ्चान् स्त्रियः पश्येति । तेन युक्तवद्भावविषयेऽपि दोषाभावः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थ इति । यद्यपि चन्द्रमसा कालस्य योगो नित्यः, चन्द्रमसो नित्यत्वात्; पुष्यसमीपेन तु कादाचित्कः, पुष्यसमीपतायाः कादाचित्कत्वात् । पौषीति’सूर्यतिष्य’ इत्यादिना यलोपः ॥
Nyaas¶
इह कालं क्रियात्मानं केचिदिच्छिन्ति, अपरे द्रव्यात्मानमाकाशादिकल्पम्। दर्शनद्वयमपि चैतदिहाश्रयितुमयुक्तम्। पूर्वस्मिन् दर्शने समाश्रीयमाणे सूर्यादिद्रवयान्तर्सयायां वा क्रियाया नक्षत्रेण योगः स्यात्? आत्मस्थाया वा? पूर्वस्यास्तावन्न सम्भवति, अर्थान्तरासमवायात्। अन्यथा ह्राकाशादयोऽपि क्रियावन्तः स्यु। न ह्रर्थान्तरसमवायिन्या अपि क्रियाया द्रव्यान्तरेण योगः स्यात्। आत्मस्थायास्तु क्रियाया विद्यते नक्षत्रेण योगः, किन्तु युक्तग्रहणं विशेषणं नोपपद्यते; व्यवच्छेद्याभावात्। न हि पुष्यादिस्थायाः कालस्य पुष्यादिभिः कदाचिद्योगो युज्यते यद्व्यवच्छेदार्थं युक्तग्रहणं क्रियते। एवं तावत् क्रिया कालः इत्येतद्दर्सनमत्राश्रयितुमयुक्तम्। द्वितीयमप्ययुक्तमेव; यस्मात् कालविशेषावधारणहेतुरिह योगोऽभिप्रेतः। तथा हि कालविशेषावधारणार्थमेव पौषीत्यादिलोके प्रयुज्यते। स चैवंविधो योगस्तयोरेव भवतीति ययोः सन्निकर्षविप्रकर्षे स्तः, यथा - पुष्यचन्द्रमसोः। तयोर्हि कदाचित् सन्निकर्षो भवति, तदाचिद्विप्रकर्षः। न च नक्षत्रकालयोः कदाचित् सन्निकर्षविप्रकर्षैः स्तः,तयोर्नित्यत्वादित्येतच्चेतसि कृत्वाह - कथं पुनः इत्य#आदि। न कथञ्चिदित्यभिप्रायः। नक्षत्रनिकटवर्तिनि चन्द्रमसि वर्तमानः सूत्रे नक्षत्रशब्द उपात्त इत्येतत् सूचयन्नाह - पुष्यादिसमीपस्थे इत्यादि। यतैव हि सामीप्यात् गङ्गायां घोषः इति गङ्गासमीपस्थे देशे गङ्गाशब्दो वर्तते, तथेहापि पुष्यदयो नक्षत्रविशेषवाचिनः शब्दाः पुष्यादिसमीपस्थे चन्द्रमसि वर्तन्ते। तेन तत्रैव वर्तमानाः प्रत्ययमुत्पादयन्ति। तेन पुख्यादिसमीपस्थचन्द्रमसा कालस्य विशेषावधारणहेतुर्योग उपपद्यते। तदवस्थस्य चन्द्रमसः कादाचित्कत्वात्। पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः; तदवस्थे चन्द्रमसि पुष्यशब्दस्य वृत्तेः। पौषी इति। सूर्यतिष्यागस्त्यमस्त्यानां य उपधायाः (6.4.149) इत्यत्र `{तिष्यपुष्ययोर्नक्षत्राणि यलोपः इति मु।पाठ।} तिष्यपुष्ययोर्नक्षत्राणि` (वा।808) इति वचनाद्यलोपः॥
Prakriyasarvasvam¶
नक्षत्रवाचिभ्यस्तेन युक्तः काल इत्यर्थेऽण् स्यात् । कृत्तिकाभिर्युक्तं कार्त्तिकम् अहः ॥
Sutra Prayogas¶
पौष्यां (रघुवंशम्): नक्षत्रेण युक्तः कालः इत्यण्प्रत्ययः।
मघासु (भट्टिकाव्यम्): नक्षत्रेण युक्तः कालः इत्यण्।