42002: लाक्षारोचनाशकलकर्दमाट्ठक्¶
Padacheda: लाक्षा-रोचना-शकल-कर्दमात् | S | 5 | 1 |
ठक् | S | 1 | 1 |
Sutrartha¶
‘रक्तम् रागात्’ अस्मिन् अर्थे लाक्षा, रोचना, शकल, तथा कर्दम - एतेभ्यः तृतीयासमर्थेभ्यः शब्देभ्यः ठक्-प्रत्ययः विधीयते ।
‘रक्तम् रागात्’ अस्मिन् अर्थे औत्सर्गिकरूपेण अण्-प्रत्ययः दत्तः अस्ति । तं बाधित्वा लाक्षा, रोचना, शकल, तथा कर्दम - एतेभ्यः शब्देभ्यः ‘ठक्’ प्रत्ययस्य विधानमनेन सूत्रेण क्रियते । यथा - 1. लाक्षया रक्तम् = लाक्षा + ठक् → लाक्षिक । (लाक्षा इति रक्तवर्णस्य कश्चन भेदः ।) 2. रोचनया रक्तम् = रोचना + ठक् → रौचनिक । (रोचना इति अपि रक्तवर्णस्य एकः भेदः ।) 3. ‘शकल’ शब्दस्य विषये अयम् ठक्-प्रत्ययः विकल्पेनैव विधीयते, अतः पक्षे औत्सर्गिकः अण्-प्रत्ययः अपि भवति । यथा - शकलेन रक्तम् = शाकलिकम्, शाकलम् । (‘शकल’ अयम् कृष्णवर्णस्य कश्चन भेदः ।) 4. ‘कर्दम’ शब्दस्य विषयेऽपि अयं ठक्-प्रत्ययः विकल्पेन विधीयते, पक्ष च अण्-प्रत्ययः भवति । यथा - कर्दमेन रक्तम् = कार्दमिकम्, कार्दमम् । (कर्दम इत्युक्ते मृत्तिकायाः वर्णः ।) अस्मिन् सूत्रे कानिचन वार्त्तिकानि अपि प्रोक्तानि सन्ति - 1. <!पीतात् कन् वक्तव्यः!> - अनेन वार्त्तिकेन ‘पीत’ शब्दात् अण्-प्रत्ययं बाधित्वा कन्-प्रत्ययः भवति । पीतेन रक्तम् पीतकम् । 2. <!नील्या अन् वक्तव्यः!> - अनेन वार्त्तिकेन ‘नीली’ शब्दात् ‘रक्तं रागात्’ अस्मिन् अर्थे कन्-प्रत्ययः भवति । नील्या रक्तम् नीलम् । (‘नीली’ अयम् कस्माच्चन वृक्षात् प्राप्तः नीलसदृशः वर्णः) । 3. <!हरिद्रामहारजनाभ्यामञ् वक्तव्यः!> - अनेन वार्त्तिकेन ‘हरिद्रा’ तथा ‘महारजना’ एताभ्याम् शब्दाभ्यामञ्-प्रत्ययः भवति । हरिद्रया रक्तम् हारिद्रम् । महारजनेन रक्तम् माहारजनम् । (‘महारजन’ इत्युक्ते काषायवर्णः) ।
Sutrartha (English)¶
For the word लाक्षा, रोचना, शकल and कर्दम, ठक्-प्रत्ययः is used to indicate the meaning of ‘colored by’.
Vasu English Summary¶
The affix ठक् comes, in the sense of coloured thereby after the words 1. लाक्षा 2. रोचना 3. शकल 4. कर्दमा (which being names of colours, are in the Instrumental -3rd case in a sentence).
Vasu English Translation¶
The affix ठक् comes, in the sense of coloured thereby after the words 1. लाक्षा 2. रोचना 3. शकल 4. कर्दमा (which being names of colours, are in the Instrumental -3rd case in a sentence). This debars अण्. Thus लाक्षाया रक्तं वस्त्रं = लाक्षिकम्, so also रौचनिकम्, शाकलिकम् and कार्दमिकम् ॥
According to the opinion of Patanjali, the affix अण् also comes after शकल and कर्दमः । Thus शाकलम् and कार्दमम् ॥ According to Mahabhashya the words शकल and कर्दम do not occur in the sutra, but are given in the Vartika.
Vart:- The affix अन् comes after नीलीः as नील्या रक्तं = नीलं वस्त्रं ॥
Vart:- The affix कन् (1.3. 8) comes after पीत, as पीतेन रक्तं = पीतकम् ॥
Vart:- The affix अञ् comes after हरिद्रा and महाराजन, as हारिद्रम् and माहाराजनम् ॥
Bhashya¶
लाक्षारोचनाट्ठक् (1425) (ठगधिकरणम्) (5329 सूत्रांशपूरकवार्तिकम्॥ 1 ॥) - ठक्प्रकरणे शकलकर्दमाभ्यामुपसंख्यानम् - (भाष्यम्) ठक्प्रकरणे शकलकर्दमाभ्यामुपसंख्यानं कर्तव्यम्। शाकलिकम्, कार्दमिकम्॥ (5330 बाधकप्रत्ययोपपादकवार्तिकम्॥ 2 ॥) - नील्या अन् - (भाष्यम्) नील्या अन् वक्तव्यः। नील्या रक्तं नीलम्॥ (5331 बाधकप्रत्ययोपपादकवार्तिकम्॥ 3 ॥) - पीतात्कन् - (भाष्यम्) पीतात्कन्वक्तव्यः। पीतेन रक्तं पीतकम्। पीतकशब्दो वा प्रकृत्यन्तरम्, तस्माल्लुग्वक्तव्यः॥ (5332 बाधकप्रत्ययोपपादकवार्तिकम्॥ 4 ॥) - हरिद्रामहारजनाभ्यामञ्ञ् - (भाष्यम्) हरिद्रामहारजनाभ्यामञ्ञ् वक्तव्यः। हारिद्रम्, माहारजनम्। (प्रयोगसाधकभाष्यम्) रागादित्युच्यते, तत्रेदं न सिध्यति -हारिद्रौ कुक्कुटस्य पादौ, काषायौ गर्दभस्य कर्णाविति। उपमानात्सिद्धम्। हारिद्राविव हारिद्रौ, काषायाविव काषायौ॥
Kashika¶
लाक्षादिभ्यो रागवचनेभ्यस्तृतीयासमर्थेभ्यो रक्तमित्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अणोऽपवादः। लाक्षया रक्तं वस्त्रं लाक्षिकम्। रौचनिकम्। शाकलिकम्। कार्दमिकम्। शकलकर्दमाभ्यामणपीष्यते॥ शाकलम्। कार्दमम्॥ नील्या अन् वक्तव्यः॥ नील्या रक्तं नीलं वस्त्रम्॥ पीतात् कन् वक्तव्यः॥ पीतेन रक्तं पीतकम्॥ हरिद्रामहारजनाभ्यामञ् वक्तव्यः॥ हारिद्रम्। माहारजनम्॥
Siddhanta Kaumudi¶
लाक्षिकः । रौचनिकः ।<!शकलकर्दमाभ्यामुपसंख्यानम् !> (वार्तिकम्) ॥ शाकलिकः । कार्दमिकः । आभ्यामणपीति वृत्तिकारः । शाकलः । कार्दमः ।<!नील्या अन् !> (वार्तिकम्) ॥ नील्या रक्तं नीलम् । <!पीतात्कन् !> (वार्तिकम्) ॥ पीतकम् ।<!हरिद्रामहारजनाभ्यामञ् !> (वार्तिकम्) ॥ हारिद्रम् । माहारजनम् ॥
Balamanorama¶
लाक्षारोचना (शकलकर्दमा) ट्ठक् - लाक्षारोचनाट्ठक् । अमोऽपवादः । लाक्षिक इति । ‘पट’ इति शेषः । लाक्षया रक्त इति विग्रहः । रौचनिक इति । रोचनया रक्त इति विग्रहः । शाकलिक इति । शकलं — रागद्रव्यविशेषः । वृत्तिरिति । भाष्ये तु नैतद्दृष्टम् । नील्या अनिति । ‘वक्तव्य’ इति शेषः । अणोऽपवादः । नीली ओषधिविशेषः । ॒पीतात्कन् । अणोऽपवादः । पीतं हरितालकादि द्रव्यम् ।हरिद्रामहेति । अणोऽपवादः । स्वरे विशेषः । हरिद्रा प्रसिद्धा । महारजनं — नाम रागद्रव्यविशेषः । इति रक्ताधिकारः ।
Tattvabodhini¶
लाक्षारोचना (शकलकर्दमा) ट्ठक् - लाक्षरोचनात् । वृत्तिकृता तु वार्तिकस्थौ शकलकर्दमौ सूत्रे प्रिक्षिप्तौ ।शकलं त्वचि खण्डे च रागवस्तुनि वल्कले॑इति विआः ।सकलकर्दमाभ्यामुपसंख्यानम् । वृत्तिकार इति । भाष्ये तु नैकद्दृष्टमिति भावः ।नील्या अन् । नील्येति । नीली ओषधिविशेषः । अणपवादोऽयम् ।
Padamanjari¶
शकलकर्दमयोर्वार्तिके दर्शनात्सूत्रे प्रक्षेपः । नील्या इति । ओषधिविशेषो नीलि, अम्बाधनार्थवचनम्, नीलशब्दस्तु गुणशब्दत्वादेव नीलीरक्ते वस्त्रे सिध्यति । पीतादिति । रागविशेषिवाची पीतशब्दः । इदमपि वचनमण्बाधनार्थमेव । स्वार्थिककन्प्रत्ययान्तस्तु पीतकशब्द गुणवचनो वस्त्रे लभ्यते ॥
Nyaas¶
शकलकर्दमाभ्यामणपीष्यते इति। स च वान्यस्मिन् सपिण्डे (4.1.165) इत्यतो मण्डूकप्लुतिन्यायेन वाग्रहणानुवृत्तेर्लभ्यते। न चैवं सत्यतिप्रसङ्गो भवति; व्यवस्थितविभाषाविज्ञानात्॥
Vartika¶
शकलकर्दमाभ्यामुपसंख्यानम् ।
Sutra Prayogas¶
रौचनिकीं (किरातार्जुनीयम्): लाक्षारोचनशकलकर्दभाट्ठक् इति ठक् ।
नीलम् (किरातार्जुनीयम्): नील्या अन्वक्तव्यः (वार्तिकम्) इत्यन्प्रत्ययः।