41100: हरितादिभ्योऽञः¶
Padacheda: हरित-आदिभ्यः | S | 5 | 3 |
अञः | S | 5 | 1 |
Sutrartha¶
युवापत्यस्य निर्देशार्थम् हरितादिगणस्य अञ्-प्रत्ययान्तशब्देभ्यः फक्-प्रत्ययः भवति ।
Vasu English Summary¶
The affix फक् comes after the words हरित etc. when they end in the affix अञ् – अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4.1.104)
Vasu English Translation¶
The affix फक् comes after the words हरित etc. when they end in the affix अञ् – अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4.1.104) The words हरित &c, form a subdivision of बिद class, which class by (4.1.104) takes the affix अञ् in forming Gotra words. Thus the Gotra descendant of हरित will be हारित (हरित + अञ्). The son of हारित will be formed by this sutra and not by (4.1.95). Thus हारित + फक् = हारितायनः “the son of Harita or the great-grandson of Harita”. In fact, the force of the affix फक् of this Sutra is that of a Yuvan affix, though it is taught in the chapter of Gotra affixes; because according to the general rule (4.1.98) one Gotra affix can be only added to a word, and the word हारित that being already formed by a Gotra affix अञ् will not take again another Gotra affix फक् ॥ Therefore, फक् as is here a Yuvan-affix.
Kashika¶
हरितादिर्बिदाद्यन्तर्गणः (४.१.१०४)। हरितादिभ्योऽञन्तेभ्योऽपत्ये फक् प्रत्ययो भवति। इञोऽपवादः। हरितस्यापत्यं हारितायनः। कैन्दासायनः। ननु च गोत्र इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति, एको गोत्रे (४.१.९३) इति वचनात्? सत्यमेतत्। इह तु गोत्राधिकारेऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस्तूत्तरार्थः॥
Siddhanta Kaumudi¶
एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥
Balamanorama¶
हरितादिभ्योऽञः - ॒हरितादिभ्योऽञ॑ इत्यादि स्पष्टम् ।
Padamanjari¶
‘हरितादिभ्यः’ , ठञःऽ इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ् तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे - हरितादिभ्योऽञन्तेभ्य इति ।’हरितादिभ्यो गोत्रापत्ये’ ञ्प्रत्ययो भवतिऽ इत्ययं त्वर्थो न भवति; बिदादिषु पाठात् । सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह - गोत्राधिकार इति । उतरार्थं गोत्रग्रहणमनुवर्तत एवेत्यर्थः ॥
Nyaas¶
न च इत्यादि चोद्यम्। सत्यमेतत् इत्यादि परिहार उच्यते। गोत्रे योऽञ् विहितस्तदन्तेभ्यो हरितादिभ्यः फक्। न च गोत्रप्रत्ययादपरो गोत्रप्रत्यययः सम्भवति। तत्र सामर्थ्यादगोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते। यद्येवम्, गोत्राधिकारः किमर्थः? इत्याह - गोत्राधिकार उत्तरार्थः इति॥
Prakriyasarvasvam¶
बिदादिभ्यो गोत्रे अञ् वक्ष्यते । तदन्तर्गणत्वाद् गोत्रे अञन्तेभ्यो हरितादिभ्यो यूनि फक् स्यात् । हरितपुत्रो हारितिः । तत्पुत्रोऽञि हारितः । तत्पुत्रस्तु युवा हारितायनः । कर्तुरपत्यमित्यण् कार्त्रः तत्पुत्रोऽपि ‘एको गोत्र’ इति कार्त्रः । यूनि तु—