41100: हरितादिभ्योऽञः ===================== **Padacheda:** हरित-आदिभ्यः | S | 5 | 3 | अञः | S | 5 | 1 | Sutrartha --------- **युवापत्यस्य निर्देशार्थम् हरितादिगणस्य अञ्-प्रत्ययान्तशब्देभ्यः फक्-प्रत्ययः भवति ।** Vasu English Summary -------------------- The affix फक् comes after the words हरित etc. when they end in the affix अञ् -- अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4.1.104) Vasu English Translation ------------------------ The affix फक् comes after the words हरित etc. when they end in the affix अञ् -- अनृष्यानन्तर्ये बिदादिभ्योऽञ् (4.1.104) The words हरित &c, form a subdivision of बिद class, which class by (4.1.104) takes the affix अञ् in forming *Gotra* words. Thus the *Gotra* descendant of हरित will be हारित (हरित + अञ्). The son of हारित will be formed by this *sutra* and not by (4.1.95). Thus हारित + फक् = हारितायनः "the son of *Harita* or the great-grandson of *Harita*". In fact, the force of the affix फक् of this *Sutra* is that of a *Yuvan* affix, though it is taught in the chapter of *Gotra* affixes; because according to the general rule (4.1.98) one *Gotra* affix can be only added to a word, and the word हारित that being already formed by a *Gotra* affix अञ् will not take again another *Gotra* affix फक् ॥ Therefore, फक् as is here a *Yuvan*-affix. Kashika ------- हरितादिर्बिदाद्यन्तर्गणः (४.१.१०४)। हरितादिभ्योऽञन्तेभ्योऽपत्ये फक् प्रत्ययो भवति। इञोऽपवादः। हरितस्यापत्यं हारितायनः। कैन्दासायनः। ननु च गोत्र इति वर्तते। न च गोत्रादपरो गोत्रप्रत्ययो भवति, **एको गोत्रे** (४.१.९३) इति वचनात्? सत्यमेतत्। इह तु गोत्राधिकारेऽपि सामर्थ्याद् यूनि प्रत्ययो विज्ञायते। गोत्राधिकारस्तूत्तरार्थः॥ Siddhanta Kaumudi ----------------- एभ्योऽञन्तेभ्यो यूनि फक् । हारितायनः । इङ गोत्राधिकारेऽपि सामर्थ्याद्यून्ययम् । न हि गोत्रादपरो गोत्रप्रत्ययः । विदाद्यन्तर्गणो हरितादिः ॥ Balamanorama ------------ **हरितादिभ्योऽञः** - ॒हरितादिभ्योऽञ॑ इत्यादि स्पष्टम् । Padamanjari ----------- 'हरितादिभ्यः' , ठञःऽ इति व्यधिकरणे पञ्चम्यौ । हरितादिभ्यः परो योऽञ् तदन्तात्प्रातिपदिकादित्यर्थः । वृत्तिकारोऽप्येतदेव वस्तुतो व्याचष्टे - हरितादिभ्योऽञन्तेभ्य इति ।'हरितादिभ्यो गोत्रापत्ये' ञ्प्रत्ययो भवतिऽ इत्ययं त्वर्थो न भवति; बिदादिषु पाठात् । सामर्थ्यादिति । गोत्रप्रत्ययान्तादपरो गोत्रप्रत्ययो न भवतीत्येतत्सामर्थ्यम् । तस्माद्गोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते । न चैवं गोत्राधिकारस्य विच्छेद इत्याह - गोत्राधिकार इति । उतरार्थं गोत्रग्रहणमनुवर्तत एवेत्यर्थः ॥ Nyaas ----- `न च` इत्यादि चोद्यम्। `सत्यमेतत्` इत्यादि परिहार उच्यते। गोत्रे योऽञ् विहितस्तदन्तेभ्यो हरितादिभ्यः फक्। न च गोत्रप्रत्ययादपरो गोत्रप्रत्यययः सम्भवति। तत्र सामर्थ्यादगोत्राधिकारेऽपि यूनि प्रत्ययो विज्ञायते। यद्येवम्, गोत्राधिकारः किमर्थः? इत्याह - `गोत्राधिकार उत्तरार्थः` इति॥ Prakriyasarvasvam ----------------- बिदादिभ्यो गोत्रे अञ् वक्ष्यते । तदन्तर्गणत्वाद् गोत्रे अञन्तेभ्यो हरितादिभ्यो यूनि फक् स्यात् । हरितपुत्रो हारितिः । तत्पुत्रोऽञि हारितः । तत्पुत्रस्तु युवा हारितायनः । कर्तुरपत्यमित्यण् कार्त्रः तत्पुत्रोऽपि 'एको गोत्र' इति कार्त्रः । यूनि तु—