41098: गोत्रे कुञ्जादिभ्यश्च्फञ्¶
Padacheda: गोत्रे | S | 7 | 1 |
कुञ्ज-आदिभ्यः | S | 5 | 3 |
च्फञ् | S | 1 | 1 |
Sutrartha¶
गोत्रापत्यस्य निर्देशार्थम् कुञ्जादिगणस्य षष्ठीसमर्थेभ्यः शब्देभ्यः च्फञ् प्रत्ययः भवति ।
Vasu English Summary¶
The affix च्फञ् comes after the words कुञ्च etc. when a remoter descendant (called गोत्र) is to be denoted.
Vasu English Translation¶
The affix च्फञ् comes after the words कुञ्च etc. when a remoter descendant (called गोत्र) is to be denoted. This debars इञ् ॥ Of the affix च्फञ् the letter ञ् is for the sake of distinguishing this affix from the affix फञ्; such as in sutra (5.3.113), by which the words ending in affix च्फञ् take the further affix य (ञ्य), in order to form a complete word. The letter ञ् of this affix causes Vriddhi (7.2.117). Then remains फ् which by sutra (7.1.2), is replaced by आयन् ॥ Thus कुञ्ज + च्फञ् = कौञ्ज + आयन् + अ = कौञ्जायन. This is not a complete word as yet. We must add य by sutra (5.3.113). Thus the full word is कौञ्जायन्यः ‘the grandson or a lower descendant of Kunja’ dual of it is कौञ्जायन्यौ, plural is कौञ्जायनाः; the affix ञ्य being elided by (2.5.62), in the plural, it being an affix of the तद्राज class (4.1.174). Similarly ब्राध्रायन्यः, ब्राध्रायन्यौ, ब्राध्रायनाः ॥
Why do we say “when a Gotra descendant is to be denoted?” Observe कौंजिः “the son of Kunja”. Here इञ् is added by (4.1.95) in denoting immediate descendant. There is difference in the accent of these words, in the different numbers. Thus in the singular and dual, the accent will be regulated by the latter ञ् of the affix ञ्य which is added in those numbers. But this affix being elided in the plural, the accent there will be regulated by the letter च of च्फञ् ॥ That is to say, in the singular and dual, the udatta will fall on the first syllable (6.1.197); in the plural, it will fall on the last syllable (6.1.164).
The word गोत्रे of this sutra governs the succeeding sutras up to aphorism (4.1.112): so that all the affixes taught in these fifteen sutras denote grandsons or descendants lower than that.
1 कुञ्ज, 2 ब्रध्र, 3 शङ्ख, 4 भस्मन्, 5 गण, 6 लोमन्, 7 शत, 8 शाक, 9 शुण्डा, 10 शुभ, 11 विपाश्, 12 स्कन्द, 13 स्कम्भ, 14 शकट, 15 शुम्भा, 16 शिव, 17 शुभंयि ॥
Bhashya¶
गोत्रे कुञ्ञ्जादिभ्यश्च्फञ्ञ् (1344) (च्फञ्ञोऽधिकरणम्) (प्रत्ययानुबन्धानाम्फलदर्शकम्भाष्यम्) किमर्थश्चकारः? स्वरार्थः। चितोऽन्त उदात्तो भवतीत्यन्तोदात्तत्वं यथा स्यात्॥ अथ ञ्ञकारः किमर्थः? ञ्ञकारो वृद्ध्यर्थः। ञ्ञ्णितीति वृद्धिर्यथा स्यात्॥ एकेन ककारेणोभयं सिद्धम्। अवश्यमत्र विशेषणार्थोऽन्योऽनुबन्धः कर्तव्यः। क्व विशेषणार्थेनार्थः? व्रातच्फञ्ञोरस्त्रियाम् (1.3.113) इति। फक इति ह्युच्यमान् नाडायनः, अत्रापि प्रसज्येत। अथापि फञ्ञ इत्युच्यते। एवमप्याश्वायनः, अत्रापि प्रसज्येत। तस्माच्चकार एव कर्तव्यः, अन्तोदात्तत्वमपि यथा स्यात्। चकारे चेदानीं विशेषणार्थे क्रियमाणेऽवश्यं वृद्ध्यर्थोऽन्योऽनुबन्धः कर्तव्यः। स च ञ्ञकार एव कर्तव्यः, सूत्रभेदो मा भूदिति॥ (स्वरार्थानुबन्धाक्षेपभाष्यम्) अथ क्रियमाणेऽपि वै चकारे -अन्तोदात्तत्वं न प्राप्नोति। किं कारणम्? परत्वात् ञ्ञ्निति इत्याद्युदात्तत्वं प्राप्नोति। चित्करणसार्मथ्यादन्तोदात्तत्वम्भविष्यति। ञ्ञित्करणसार्मथ्यादाद्युदात्तत्वम्प्राप्नोति। अस्त्यन्यञ्ञ्ञ्ञित्करणे प्रयोजनम्। किम्? वृद्ध्यर्थो ञ्ञकारः। चित्करणेऽपि तर्हि अन्यत्प्रयोजनम्। किम्? विशेषणार्थश्चकारः। शक्योऽत्र विशेषणार्थोऽन्योऽनुबन्ध आसङ्क्तुम्, तत्र चकारानुरोधादन्तोदात्तत्वम्भवति। वृद्ध्यर्थोऽपि तर्हि अन्यः शक्योऽनुबन्ध आसङ्क्तुम्। तत्र ञ्ञकारानुरोधादाद्युदात्तत्वम्प्राप्नोति॥ (समाधानभाष्यम्) एवं तर्हि स्वरे योगविभागः करिष्यते। इदमस्ति -चितः (6.1.163) -चितोऽन्त उदात्तो भवतीति। ततः -तद्धितस्य -तद्धितस्य च चितोऽन्तउदात्तो भवतीति। किमर्थमिदम्? परत्वात् ञ्ञ्निति इत्याद्युदात्तत्वं प्राप्नोति, तद्वाधनार्थम्। ततः -कितः -कितस्तद्धितस्यान्त उदात्तो भवतीति॥ (प्रत्याक्षेपभाष्यम्) किं पुनरत्र स्वरार्थेन चकारेणानुबन्धेन? यावताच्फञ्ञन्ताञ्ञ्ञ्ञ्यो विधीयते, तत्र ञ्ञ्नितीत्याद्युदात्तत्वेन भवितव्यम्॥ (समाधानभाष्यम्) नैतदस्ति। बहुषु लोपे कृते अन्तोदात्तत्वं यथा स्यात् -कौञ्ञ्जायना इति। (प्राचीनवैय्याकरणमतखण्डनभाष्यम्) इह केचित् -द्व्येकयोः फ्यञ्ञं विदधति, बहुषु च फकम्, केचित् -च्फञ्ञन्ताञ्ञ्ञ्ञ्यम्। किमत्र न्याय्यम्? ञ्ञ्यवचनमेव न्याय्यम्। द्व्येकयोर्हि फ्यञ्ञि सति बहुषु च फकि कौञ्ञ्जायनानामपत्यं माणवकः -कौञ्ञ्जायन्यः, कौञ्ञ्जायन्तौ, केन यशब्दः श्रूयेत? द्व्येकयोरित्युच्यमानो न प्राप्नोति। इह कौञ्ञ्जायन्यस्यापत्यं बहवो माणवकाः कौञ्ञ्जायनाः। केन यशब्दो न श्रूयेत। द्व्येकयोरित्युच्यमानः प्राप्नोति॥ (पाणिनिमतपुरस्करणभाष्यम्) तदेतत्कथं कृत्वा ञ्ञ्यवचनं ज्यायो भवति? यदि तन्नास्ति -आपत्यं वा गोत्रम्, परमप्रकृतेश्चापत्यः, आपत्याज्जीवद्वंश्यात्स्वार्थे द्वितीयो युवसंज्ञः, स चास्त्रियाम्, एको गोत्रग्रहणानर्थक्यं च, बहुवचनलोपिषु च सिद्धमिति॥ (प्राचीनवैय्याकरणमतखण्डननिराकरणभाष्यम्) सति हि तस्मिन् -द्व्येकयोरपि फ्यञ्ञि सति बहुषु च फकि सति न दोषो भवति॥ तत्र कौञ्ञ्जायनानामपत्यं माणवक इति विगृह्य कुञ्ञ्जशब्दाद् द्व्येकयोरुत्पत्तिर्भविष्यति -कौञ्ञ्जायन्यः, कौञ्ञ्जायन्यौ। कौञ्ञ्जायन्यस्यापत्यं माणवका इति विगृह्य कुञ्ञ्जशब्दाद्बहुषूत्पत्तिर्भविष्यति -कौञ्ञ्जायना इति॥
Kashika¶
तस्यापत्यमित्येव। गोत्रसंज्ञकेऽपत्ये वाच्ये कुञ्जादिभ्यश्च्फञ् प्रत्ययो भवति। इञोऽपवादः। चकारो विशेषणार्थः, व्रातच्फञोरस्त्रियाम्**(५.३.११३) इति। ञकारो वृद्ध्यर्थः। कौञ्जायन्यः, कौञ्जायन्यौ, कौञ्जायनाः। ब्राध्नायन्यः, ब्राध्नायन्यौ, ब्राध्नायनाः। गोत्र इति किम्? कुञ्जस्यापत्यमनन्तरं कौञ्जिः। एकवचनद्विवचनयोः सतिशिष्टत्वाद् ञित्स्वरेणैव भवितव्यम्। बहुवचने तु कौञ्जायना इति परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यते। गोत्राधिकारश्च **शिवादिभ्योऽण् (४.१.११२) इति यावत्॥ कुञ्ज। ब्रध्न। शङ्ख। भस्मन्। गण। लोमन्। शठ। शाक। शाकट। शुण्डा। शुभ। विपाश। स्कन्द। स्तम्भ॥
Balamanorama¶
गोत्रे कुञ्जादिभ्यश्च्फञ् - गोत्रे कुञ्ज । स्पष्टम् । इञोऽपवादः । च्फञिचञावितौ ।
Tattvabodhini¶
गोत्रे कुञ्जादिभ्यश्च्फञ् - गोत्रे कुञ्जा । इतः प्राक्एकौ गोत्रे॑इत्यादि सूत्रद्वयं चेत्पठते तह्र्रत्रत्यं गोत्राग्रहणं त्यक्तुं शक्यमित्याहुः । च्फञो ञकारो वृद्द्यर्थः । कौञ्जायन्यः । चकारस्तुव्रातच्फञौ॑रित्यत्र विशेषणार्थः । तेनअआआदिभ्यः फञ् आआयन इत्यत्र ञ्यो न भवति । अत्रेदमदधेयं -कौञ्जायन्य इत्यादावेकवचने द्विवचने च ञ्यस्य ञित्त्वादाद्युदात्तत्वमेव । बहुत्वे तु ञ्यस्य लुकि च्फञश्चकारकारस्योस्तुल्यबलयोर्विरोधेसति परत्वाञ्ञित्स्वरेणाद्युदात्तत्वे प्राप्ते भाष्यादौतद्धितस्य कितः॑ इत्यत्र योगं विभज्यचितः॑इत्यनुवर्त्त्यतद्धितस्य चितोऽन्तोदात्तत्वम्इति व्याख्यानात्कौञ्झायनाः॑इत्यत्रान्तोदात्ततैव भवति । न चैवं हि फगेवात्रास्तु किमनेन गुरुनिर्देशेनेति वाच्यं, तथा हि सतिव्रातफकोरस्त्रिया॑मिति सूत्रप्रणयनापत्त्या नाडायनादिभ्योऽपि ञ्यः स्यादिति । कुञ्ज, व्रध्न, शङ्ख, शकटेत्यादि ।
Padamanjari¶
चकारो विशेषणार्थ इति । यद्यत्र चकारो न क्रियेत ततो’व्रातफञोरस्त्रियाम्’ इति वक्तव्यम्, ततोः ठश्वादिभ्यः फञ्ऽ इत्यस्याग्रहणं स्यात् । कौञ्जायन्य इति । स्वार्थे ञ्यः बहुषु तु’ञ्यादयस्तद्राजाः’ इति तद्राजत्वात्’तद्राजस्य बहुषु’ इत्यादिना लुक् । किं पुनरत्र ञित्स्वरो भवति ? उत चित्स्वरः ? इत्यत्राह - एकवचनद्विवचनयोरिति । तत्र हि ञ्यप्रत्ययः श्रूयते, स च पश्चाद्भावीति तन्निबन्धनो ञित्स्वरः सतिशिष्टः । बहुवचने तु ञ्ये निवृते सम्प्रधारणा - ञित्स्वरो वा, चित्स्वरोवेति ? तत्र परत्वाद् ञित्स्वरः प्राप्नोति, चित्करणसामर्थ्याच्चित्स्वरो भविष्यति । ञित्करणसामर्थ्याद् ञित्स्वरः प्राप्नोति, अस्त्यन्यत् ञित्करणस्य प्रयोजनम्, किम ? वृद्ध्यर्थो ञकारः । चित्करणेऽपि तर्ह्यस्त्यन्यत्प्रयोजनम्, किम् ? विशेषणम् । शक्योऽत्र विशेषमार्थोऽन्योऽनुबन्ध आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः आसंक्तुम् । तत्र चकारानुरोधाच्चित्स्वरो भविष्यति । वृद्ध्यर्थोऽपि तर्ह्यन्योऽनुबन्धः शक्य आसंक्तुम्, तत्र ञकारानुरोधाद् ञित्स्वरः प्राप्नोति ? एवं स्थिते इदमुच्यते - परमपि ञित्स्वरं त्यक्त्वा चित्स्वर एवेष्यत इति । एवं मन्यते - स्वरे योगविभागः कर्तव्यः, इतमस्ति’चितः’ - चितोऽन्त उदातो भवति, ततः’तद्धितस्य’ चित इत्येव, तद्धितस्य चितोऽन्त उदातो भवति । किमर्थमिदम् ? परत्वात्प्राप्तस्य ञित्स्वरस्य बाधनअर्थम् । ततः’कितः’ , कितश्च तद्धितस्यान्त उदातो भवतीति । यदि तु क्फप्रत्ययः क्रियते, तद्धितस्येति योगविभागः शक्योऽकर्तुम् । अथैवं कस्मान्न क्रियते -‘गोत्रे कुञ्जादिभ्यश्च्फञ्, बहुषु फक्, नडादिभ्यस्च’ इति ? नैवं शक्यम्; इह हि दोषः स्यात् - कौञ्जायनानामपत्यं माणवकः कौञ्जायन्यः, कौञ्जायन्यौ; ऐकेन यशब्दः श्रूयते, द्व्येकयोर्हि च्फञ्विधीयते । यदा तु च्फञन्तात् ञ्यो विधीयते तदा यून्युत्पन्नस्येञः’ण्यक्षत्रियार्षञितः’ इति लुकि कृते’तद्राजस्य’ इतिञ्यस्य लुकि प्राप्ते’गोत्रे’ लुगचिऽ इति प्रतिषेधाद्यशब्दस्य श्रवणं भवति । यथा कौञ्जायन्यस्यापत्यानि बहूनि, अत इञो लुकि तद्राजस्यैव बहुषु वर्तमानत्वाद् ञ्यस्य लुकि कौञ्जायना इति भवति ॥
Nyaas¶
इञोऽपवादः इति। अकारान्तत्वात् कुञ्जादीनाम्। चकारो विशेषणार्थः`इति। यद्यत्र चकारो न क्रियेत ततः **व्रातच्फञोरस्त्रियाम्** (5.3.113) इत्यत्रापि नैव क्रियते, च्फञ्प्रत्ययस्याभावात्। ततश्च `वातफञोरस्त्रियाम् इत्युच्यमाने अआआदिभ्यः फञ् (4.1.110) इत्यस्यापि ग्रहणं स्यात्। कौञ्जायन्यः, कौञ्जायन्यौ इति। पूगाञ्ञ्योऽग्रामणीपूर्वात् (5.3.112) इत्यतः ञ्यः इत्यनुवर्तमाने व्रातच्फञोरस्त्रियाम् (5.3.113) इति स्वार्थ ञ्यः। कौञ्जायनाः इति। ञ्यादयस्तद्राजा- (5.3.119) इति तद्राजसंज्ञकत्वात् तद्राजस्य बहुषु (2.4.62) इत्यादिना लुक्। किं पुनरत्र ञित्वस्वरेण भवितव्यम्? उत चित्स्वरेण? इत्यत आह - एकवचनद्विवचनयोः इत्यादि। एकवचनद्विवचनयोस्तावत् सति तस्मिन् चित्स्वरे पश्चाद् ञ्ये विहिते समुपजायमानो ञित्स्वरः सतिशिष्टो भवतीति तेनैव भवितव्यम्। बहुवचने तु ञ्ये निवृत्ते प्राप्ते तं त्यक्त्वा चित्स्वर एवेष्यते। कथं पुनरिष्यमाणोऽपि स लभ्यते, चित्करणसामर्थ्यादिति चेत् न; ञित्करणसामर्थ्याद् ञित्स्वरोऽपि लभ्यते। एवं तर्हि स्वरविधौ योगविभागः करिष्यते,इदमस्ति - चितःट (6.1.157) इति; ततः `तद्ध#इतस्य (6.1.158) इति, तत्र चितः इत्येवानुवर्तते। किमर्थमिदम्? परत्वात् ञ्नित्यादिर्नित्यम् (6.1.197) इत्याद्युदात्तत्वं प्राप्नोति, तद्बाधनार्थम्। ततः कितः (6.1.159) इति, कितश्च तद्धितस्यान्त उदात्तो भवति॥
Prakriyasarvasvam¶
कौञ्जायन्यः । ब्राध्नायन्यः । शाङ्खायन्यः । भास्मायन्यः । गाणायन्यः । लौमायन्यः । शाठायन्यः । शाकायन्यः । शौण्डायन्यः । शौभायन्यः । स्कान्दायन्यः । स्ताम्भायन्यः । वैपाशायन्यः ।।