41097: सुधातुरकङ् च

Padacheda: सुधातुः | S | 6 | 1 |

अकङ् | S | 1 | 1 |

च | S | 0 | 0 |

Sutrartha

‘तस्य अपत्यम्ः अस्मिन् अर्थे सुधातृ-शब्दात् इञ्-प्रत्ययः भवति, तथा सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति ।

प्राग्दीव्यतः अण् (4.1.83) इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन तस्य अपत्यम् (4.1.92) अस्मिन् अर्थे षष्ठीसमर्थ-‘सुधातृ’-शब्दात् इञ्-प्रत्ययः भवति, तथा च सुधातृ-शब्दस्य अकङ्-आदेशः अपि भवति । यथा - सुधातुः + इञ् → सुधातृ + इञ् [सुपो धातुप्रातिपदिकयोः (2.4.71) इति लुक्] → सुधात् अक् + इञ् [सुधातुरकङ् च (4.1.97) इति सुधातृ-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च (1.1.53) इति अन्त्यादेशः] → सौधातक् + इ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → सौधातकि अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - <!व्यास-वरुड-निषाद-चण्डाल-बिम्बानां चेति वक्तव्यम्!> । इत्युक्ते, व्यास, वरुड, निषाद, चण्डाल, तथा बिम्ब - एतेषाम् शब्दानामपि अपत्यार्थे इञ्-प्रत्ययः तथा अकङ्-आदेशः भवति । यथा - 1) व्यास + इञ् → व्यास् + अकङ् + इञ् [ व्यास-शब्दस्य अकङ्-आदेशः । ङित्वात् ङिच्च (1.1.53) इति अन्त्यादेशः] → वै यास् + अकङ् + इ [न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् (7.3.3) इति यकारात् पूर्वम् ऐकारस्य आगमः] → वैयासकि 2) वरुड + इञ् → वारुडकि 3) निषाद + इञ् → नैषादकि 4) चण्डाल + इञ् → चाण्डालकि 5) बिम्ब + इञ् → बैम्बकि

Sutrartha (English)

To indicate the meaning of ‘his/her offspring’, the word सुधातृ gets the इञ् प्रत्यय and also the word gets the अकङ् आदेश.

Vasu English Summary

The affix इञ् is placed after the word सुधातृ in denoting the descendant and the ऋ of सुधातृ is replaced by the substitute अकङ् before this affix.

Vasu English Translation

The affix इञ् is placed after the word सुधातृ in denoting the descendant and the ऋ of सुधातृ is replaced by the substitute अकङ् before this affix. Thus सुधातुरपत्यम् = सौधातकिः ‘the descendant of Sudhatri.’

Vart:- The substitute अकङ् replaces the finals of व्यास, वरुड, निषाद, चण्डाल and बिम्ब when the Patronymic इञ् is to be added. Thus, वैयासकिः, वारुडकिः नैषादकिः, चाण्डालकिः, बैम्बकिः ॥

Bhashya

सुधातुरकङ्च (1343) (5281 एकदेशिवार्तिकम्॥ 1 ॥) - सुधातृव्यासयोः - (भाष्यम्) सुधातृव्यासयोरिति वक्तव्यम्। सौधातकिः, वैयासकिः शुकः। अत्यल्पमिदमुच्यते। सुधातृव्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम्। सौधातकिः, वैयासकिः शुकः, वारुडकिः, नैषादकिः, चाण्डालकिः, बैम्बकिः॥ (सिद्धान्तभाष्यम्) तत्तर्हि वक्तव्यम्? न वक्तव्यम्। प्रकृत्यन्तराण्येवैतानि॥

Kashika

सुधातृशब्दादपत्य इञ् प्रत्ययो भवति, तत्सन्नियोगेन च तस्याकङादेशो भवति। सुधातुरपत्यं सौधातकिः॥ व्यासवरुडनिषादचण्डालबिम्बानामिति वक्तव्यम्॥ वैयासकिः। वारुडकिः। नैषादकिः। चाण्डालकिः। बैम्बकिः॥

Siddhanta Kaumudi

चादिञ् । सुधातुरपत्यं सौधातकिः ।<!व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् !> (वार्तिकम्) ॥

Padamanjari

व्यासरुडेत्यादि । वेदं व्यस्यतीति देवव्यासः,’करण्यण्’ , तस्यैकदेशप्रयोगः - व्यास इति, भीमसेनो भीम इतिवत् । वरुडादयो जातिविशेषाः । ततर्हि वक्तव्यम् ? न वक्तव्यम् ; प्रकृत्यन्तराण्येवैतानि स्वार्थिककन्प्रत्ययन्तानि, अव्यविकन्यायेन च कन्, न हि तैर्वाक्यमेव भवति । व्यासशब्दादृषिवाचिनोऽपि बाह्वादेराकृतिगणत्वादिञ् भवति ॥

Nyaas

व्यासवरुड इत्यादि। व्यासादीनामिञ्, तत्सन्नियोगेन चाकङादेशो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रामिह चकारोऽनुवर्तते, स चानुक्तसमुच्चयार्थः,तेन व्यासादीनामपि भविष्यति। वैयासकिः इति। न य्वाभ्याम् (7.3.3) इत्यादिनैज्वृद्धिप्रतिषेधौ। अथ बाह्वादिष्वेव सुधातृशब्दमधीत्य तत्र चाकङादेशः कस्मान्न कृतः, यथा - अमितौजसः सलोपश्चेति गणे पठते? सूत्रे वा, न तत्र कश्चिल्लाघवाभावाद्विशेषो लभ्यत इति यत्किञ्चिदेतत्॥

Prakriyasarvasvam

सुधातृशब्दस्येञ् स्यादकङ् चान्तादेशः । सौधातकिः । व्यासवण्डनिषाद- चण्डालबिम्बानां चेष्टिः । व्यासस्य ‘न य्वाभ्याम्—’ इत्यैच् । वैयासकिः । वारुडकिरित्यादि । वरुडोऽन्त्यजातिः ॥

Vartika

व्यासवरुडनिषादचण्डालबिम्बानां चेति वक्तव्यम् ।