41066: ऊङुतः

Padacheda: ऊङ् | S | 1 | 1 |

उतः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After a प्रातिपदिक (Nominal Stem) ending in short उ , not having the letter य् as its penultimate letter and being expressive of races of men, the affix in the feminine is ऊङ्।

Vasu English Translation

After a प्रातिपदिक (Nominal Stem) ending in short उ , not having the letter य् as its penultimate letter and being expressive of races of men, the affix in the feminine is ऊङ्। The anuvritti of the words मनुष्यजाति and अयोपधात् should be read into the sutra to complete it. Thus कूरूः ‘a female of the country of the Kurus’ ब्रह्मबन्धूः “a Brahmani of the class of the fallen Brahmans so called”, जीवबन्धूः “a woman of the Jivabandhu class”.

Thus कुरु + ण्य = कौरव्यः (4.1.172), and this affix is elided by (4.1.176) in the feminine.

The indicatory letter ङ् in ऊङ् is to distinguish this affix in Sutras like नोङ् धात्वोः (6.1.175), for had the affix been enunciated merely as ऊ, then the Sutra (6.1.175) would have run as नो धात्वोः and the sense would have been ambiguous, for we could not have known what affix was particularly meant there.

The long ऊ is taught to debar the affix कप्, for a short उ would have also given the form करू (कुरु + उ = कुरू) ॥ The long ऊ therefore, indicates that the affix कप्, enjoined by (5.4.154), in Bahuvrihis, will not apply in the feminine forms ब्रह्मबन्धूः and the like, by the rule of vipratishedha.

Why do we say “not having the letter य् as its penultimate”? Witness अध्वर्युर्ब्राह्मणी ‘a woman of the class of Brahmanas versed in the Yajur Veda’.

Vart:- The affix ऊङ् comes under similar conditions after words denoting non-animate jati, except the words रज्जु &c. Thus अलाबूः ‘the bottle gourd’; कर्कन्धूः ‘the jujube tree.’ Why do we say “non-animate”? Witness कृकवाकुः ‘a kind of lizard.’ Why do we say “except the word rajju &c” Witness रज्जुः ‘rope’; हनुः ‘cheek’ &c.

Bhashya

ऊङुतः (1316) (ःढ़द्य;ङोऽधिकरणम्) (पदकृत्यभाष्यम्) किमर्थो ङकारः? विशेषणार्थः। क्व विशेषणार्थेनार्थः? नोङ्धात्वोः (6.1.175) इति। नोधात्वोरित्युच्यमाने -यवाग्वा, यवाग्वै, इत्यत्रापि प्रसज्येत॥ (पदकृत्यभाष्यम्) अथ दीर्घोच्चारणं किमर्थम्, न उङुतः, इत्येवोच्येत? का रूपसिद्धिः -ब्रह्मबन्धूः, वीरबन्धूरिति? सवर्णदीर्घत्वेन सिद्धम्। न सिध्यति। गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वं प्रसज्येत॥ इह च ब्रह्मबन्धूछत्रम्, ब्रह्मबन्धूच्छत्रम्, षत्वतुकोरसिद्धः (6.1.86) इत्येकादेशस्यासिद्धत्वान्नित्यस्तुक् प्रसज्येत॥ इह च ब्रह्मबन्धूः, वीरबन्धूः नद्यृतश्च (5.4.153) इति कप् प्रसज्येत॥ नैष दोषः। यत्तावदुच्यते -ब्रह्मबन्धूः, वीरबन्धूरिति गोस्त्रियोरुपसर्जनस्येति ह्रस्वत्वं प्रसज्येतेति, उभयत आश्रयणे नान्तादिवत्॥ यदप्युच्यते -ब्रह्मबन्धूछत्रम्, ब्रह्मबन्धूच्छत्रम्, षत्वतुकोरसिद्ध इत्येकादेशस्यासिद्धत्वान्नित्यस्तुक् प्रसज्येतेति, पदान्तपदाद्योरेकादेशोऽसिद्धः। न चैष पदान्तपदाद्योरेकादेशः॥ यदप्युच्यते -ःइह च ब्रह्मबन्धूः, वीरबन्धूरिति नद्यृतश्चेति कप्प्रसज्येतेति, नद्यन्तानां यो बहुव्रीहिरित्येवं तत्, न चैष पद्यन्तानां बहुव्रीहिः॥ शेषलक्षणस्तर्हि कप् प्राप्नोति। तस्माद्दीर्घोच्चारणं कर्तव्यम्॥ (5211 विधिवार्तिकम्॥ 1 ॥) -ऊङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनाम् - (भाष्यम्)ऊङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम्। अलाबूः, कर्कन्धूः। अप्राणिजातेरिति किमर्थम्? कृकवाकुः॥ अरज्ज्वादीनामिति किमर्थम्? रज्जुः, हनुः॥

Kashika

मनुष्यजातेरिति वर्तते। उकारान्ताद् मनुष्यजातिवाचिनः प्रातिपदिकात् स्त्रियामूङ् प्रत्ययो भवति। कुरूः। ब्रह्मबन्धूः। वीरबन्धूः। ङकारो नोङ्धात्वोः (६.१.१७५) इति विशेषणार्थः। दीेर्घोच्चारणं कपो बाधनार्थम्। अयोपधादित्येतदत्रापेक्ष्यते। अध्वर्युर्ब्राह्मणी॥ अप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम्॥ अलाबूः। कर्कन्धूः। अप्राणिग्रहणं किम्? कृकवाकुः। अरज्ज्वादीनामिति किम्? रज्जुः। हनुः॥

Siddhanta Kaumudi

उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो ण्यः (SK1190) ॥ तस्य स्त्रियामवन्ति (SK1195) इत्यादिना लुक् । अयोपधात् किम् ? अध्वर्युः ॥<!अप्राणिजातेश्चारज्ज्वादीनामुपसङ्ख्यानम् !> (वार्तिकम्) ।<!रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव !> (वार्तिकम्) ॥ अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि नोङ्धात्वोः (SK3721)इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥

Laghu Siddhanta Kaumudi

उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात्। कुरूः। अयोपधात्किम्? अध्वर्युर्ब्राह्मणी॥

Balamanorama

ऊङुतः - ऊडुतः ।अयोपधा॑दितिमनुष्यजाते॑रिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः । तदाह — उकारान्तादित्यादिना । कुरूरिति । कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः ।गोत्रं च चरणैः सहे॑ति जातित्वम् । कुरुशब्दाडूङि सवर्णदीर्घः । ऊङि दीर्घोच्चारणस्य प्रयोजनं भाष्ये स्पष्टम् ।तस्यापत्य॑मित्यणमाशह्क्याह — कुरुनादिभ्यो ण्य इति । अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेम अणपवादो ण्यप्रत्यय इत्यर्थः । तर्हि स श्रूयेतेत्यत आह — तस्येति । अध्वर्युरिति । अध्वर्युशाखाध्यायिनीत्यर्थः । चरणत्वाज्जातित्वम् ।पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑ इति यमादिस्मृतिः ।अप्राणिजातेश्चेति ।वाचकाना॑मिति शेषः । रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि ऊङ उपसङ्ख्यानमित्यर्थः । नन्वत्र उत इति संबध्यते वा, न वा । नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात्, अलाबूशब्दस्य ऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचन ऊङापत्तेरित्यत आह — रज्ज्वादिपर्युदासादिति । ‘उत’ इति न संबध्यतो । अदन्तेषु नातिप्रसङ्गःनञिवयुक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः॑ इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति । अलाबूशब्दादूङि सवर्णदीर्घे अलाबूशब्दादूङन्तात्सुबुत्पत्तिः । टायां यणादेशे अलाब्वा इति रूपम् । एवं कर्कन्धूशब्दादूङन्ताट्टायां ‘कर्कन्ध्वा’ इति रूपम् ।कर्कन्धूर्बदरी॑त्यमरः,तुम्ब्यलाबूरुभे समे॑ इति च । ननु ऊदन्तत्वादनयोरूङ्विधिव्र्यर्थ इत्यत आह — अनयोरिति । कृकवाकुरिति । पक्षिजातिविशेषः । अत्र मनुष्यजातित्वाऽभावात्पूर्वेणापि न ङीष् ।

Tattvabodhini

ऊङुतः - ऊङुतः । ङकारोनोङ्धात्वोः॑ इति विशेषणार्थः । अन्यथायगाग्वै॑यगाग्वै॑इत्यत्रापि स निषेधः स्यात् । दीर्घोच्चारणं तुआश्रू॑शब्दार्थम् । अन्यत्र सवर्णदीर्घेणापि सिद्धेः । कुरुरिति । लिङ्गविशिष्टपरिभाषया स्वादयः । अत्र व्याचक्षते -॒यद्येकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादय इति व्याख्यायेत तर्हिकाण्डे॑कुडए॑इत्यादावपिएकवचनमुत्सर्गतः॑इति सुःप्रवर्तत, तद्वारणायअप्रत्ययः॑इति प्रसज्यप्रतिषेधाभ्युपगमे तु प्रकृते दोषः ।आश्रू॑रित्यत्रैकादेशाऽभावाल्लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च । अतएवरमे॑इत्यत्रएकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादयैति मनोरमादौ न व्याख्यातमिति । अध्वर्युरिति । अध्वर्युशाखाध्येत्री, अध्वर्युशाखाध्यायिवंशोद्भवेति वार्थः । चरणलक्षणेयं जातिः । अध्वरं यातीति विग्रहेमृगय्यादयष्चे॑त्यौणादिकेन अध्वरशब्दस्यान्तलोपः, याधातोः कुप्रत्ययश्च ।अप्राण्जातेश्चारज्ज्वादीनामुपसङ्ख्यानम् । पर्युदासादिति । यदि सूत्रादुत इति गृह्रते तर्हि अलाब्बादावूहः संभवो नेति भावः । अलाब्वेत्यादि । प्रथमान्तं द्वितीयान्तं वा नोदाहृतम् । वक्ष्यमाणप्रयोजनस्य तत्राऽसभवात् । नोङ्धात्वोरिति । ऊङ्धात्वोर्यणः परे शसादय उदात्ता न स्युरिति सूत्रार्थः ।

Padamanjari

कुरुरिति ।’कुरुनादिभ्यो ण्यः’ तस्य’स्त्रियामवन्ति’ इत्यादिना लुक् । व्रह्मबन्धूर्जीवबन्धूरिति । वृतस्वाध्यायहीनाया ब्राह्मणजातावेतौ बहुव्रीही वर्तेते । ङ्कार इत्यादि ।’नोधात्वोः’ इत्युच्यमाने, यवाग्वा, यवाग्वै - अत्रापि ठुदातयणो हल्पूर्वात्ऽ इति प्राप्तस्य विभक्त्युदातस्य निषेधः स्यात्, वर्णग्रहणे ह्यर्थवद्ग्रहणपरिभाषा नोपतिष्ठते । अथ दीर्घोच्चारणं किमर्थम्, न ठुणुतःऽ इत्येवोच्येत, सवर्णदीर्घत्वेन सिद्धम् ? न सिध्यति; सत्यपि सवर्णदीघत्वे,’गोस्त्रियोरुपसर्जनस्य’ इति ह्रस्वत्वं प्राप्नोति । न प्राप्नोति, किं कारणम् ? ठुभयत आश्रयणे नान्तादिवत्ऽ, तथा हि एकादेशस्यान्तवत्वेन प्रतिपदिकसंज्ञा सम्पाद्या, ठप्रत्ययःऽ इति निषेधात् । आदिवत्वेन च स्त्रीप्रत्ययत्वं सम्पाद्यम् । इति तर्हि ब्रह्मबन्धूच्छत्रम् - षत्वतुकोरसिद्धत्वाद् ह्रस्वलक्षणो नित्यस्तुक् प्रसज्येत, दीर्घोच्चारणात्वेकादेशस्यासिद्धत्वेऽपि दीर्घ एवायमिति’दीर्घात्पदान्ताद्वा’ इति विकल्पः सिध्यति ? एतदपि नास्ति प्रयोजनम् ; पदान्तपदाद्योरेकादेशोऽसिद्धः, न चैप पदान्तपदाद्योरेकादेशः । तस्मादनर्थकं दीर्घोच्चारणम् ? इत्याशङ्क्याह - दीर्घोच्चारणं कपो बाधनार्थमिति ।’शेषाद्विभाषाअ’ इति कपोऽवकाशः - अयवकः, अव्रीहिकः, ऊङेऽवकाशः -कुरूरिति; ब्रह्मबन्ध्वादेर्बहुव्रीहेरुभयप्रसङ्गे परत्वात्कप् प्राप्नोति, दीर्घोच्चारणान्न भवित, कथम् ? उकारद्वयं दीर्घेण निर्दिष्टम्, तत्र द्वितीय उकारः कपो बाधनार्थः । अध्वर्युरिति । अध्वरं यातीति’मृगय्वादयश्च’ इत्युणादिषु दर्शनात् कुप्रत्ययोऽध्वरशब्दस्यान्तलोपश्च । चरणलक्षणेयं जातिः, अध्वर्युशाखाध्यायिनि वंशे भवेत्यर्थः । अप्राणिजातेश्चेति । अत्र ठुतःऽ इति नापेक्ष्यते तेनालाबू-कर्कन्धूशब्दाभ्यां दीर्घान्ताभ्यामपि भवति ।’कृषिचमितनिधनिसजिखर्जिभ्य ऊः’ इति वर्तमाने’णित्कशिपद्यर्तेः’ इत्यतो णिदिति च,’नञि लम्बेर्नर्लोपश्च’ ,’लबि अवुस्रंसने’ , तस्मान्नञ्पूर्वादूप्रत्ययो भवति नलोपश्च णित्वाद् वृद्धिः, ठन्दूदृम्भूकर्कन्धूःऽ इति निपातनादूकारान्तः कर्कन्धूशब्दः । एवमलाबू-कर्कन्धूशब्दौ दीर्घान्तौ । ऊङ्विधानमलाब्वा, कर्कन्ध्वा इत्यादौ’नोङ्धात्वोः’ इति विभक्त्युदातत्वप्रतिषेधार्थम् । कृकवाकुरिति ।’कृके वचः कश्च’ कृकशब्द उपपदे वकेर्धातोरुण् प्रत्ययो भवति, कश्चनान्तादेशः । रज्जुरिति ।’सृजेरसुम् च’ , आदिलोपः प्रकृतः, सृजेरु प्रत्ययः, आदेश्च लोपोऽसुगागमश्च, ऋतो यणादेशः, सकारस्य जश्त्वचर्त्वे, सृज्यतेऽसौ रज्जुरिति । हनुरिति ।’युस्निहि’ इत्यादिना हन्तेरुप्रत्ययः ॥

Nyaas

कुरूः इति। कुरोरपत्यं स्त्री - कुरुनादिभ्यो ण्यः` (4.1.170) , स्त्रियामवन्ति (4.1.174) इत्यादिना तस्य लुक्। गोत्रमिह जातिः। ब्राहृबन्धूः इति। ब्राहृ बन्धरस्याः, वीरो बन्धुरस्या इति बहुव्रीहिः। ब्राहृबन्धूवीरबन्धूशब्दौ कस्याञ्चिदेव जातौ वर्तेते। जातित्वं पुनरसर्वलिङ्गभाक्त्वात्। तौ हि स्त्रीलिङ्गपुंल्लिङ्गादेव, न नपुंसकलिङ्गौ। उतः इति तपरकरणं मुखसुखार्थम्। न तु दीर्घनिवृत्त्य्रथम्; ऊकारान्तस् मनुष्यजातिवाचिनोऽभावात्।ङकारः`इत्यादि। ऊङो यदि ङकारो न क्रियेत तदा **नोङ्धात्वोः** (6.1.175) इत्यस्मिन्नपि न कर्तव्यः स्यात् ; ङाकारानुबन्धवतोऽन्यस् कस्यचिदूकारस्याभावात्। ततश्च `नोधात्वोः इत्युच्यमाने यवाग्वा, यवाग्वै इत्यत्रापि उदात्तयणो हल्पूर्वात् (6.1.174) इति तृतीयादिविभक्तेरुदात्तत्वस्य प्राप्तस्य प्रतिषेधः स्यात्। ननु चार्थवत ऊकारस्य ग्रहणात् अर्थवद्ग्रहणे नानर्थकस्य (व्या।प।1) इत्यनर्थकस्य न भविष्यति, यवागूशब्दो हि सृयुवचिभ्योऽन्युजागूजक्नुचः (द।उ।10।4) इत्यागूच्प्रत्ययान्तो व्युत्पादितः, तत्रागूच्छब्द एव प्रत्ययार्थेनार्थवान्, ऊकारस्त्वनर्थक एव? नैतदस्ति; यस्मान्न वर्णग्रहणेष्वियं परिभाषा व्यवस्थिता, वर्णग्रहणञ्चेदम्, अतो नोपतिष्ठते। अथोपतिष्ठेत? एवमपि कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः (द।उ।1।164) इत्यूप्रत्ययस्य ग्रहणं स्यात्। ततश्च खर्ज्वा, खर्ज्वे - इत्यत्र प्रतिषेधः प्रसज्येत। तस्माद्विशेषणार्थो ङकारः कर्तव्यः। अथ दीर्घोच्चारणं किमर्थम्, ननु उङेवोच्येत, अकः सवर्णे दीर्घः (6.1.101) इति दीर्घत्वेन हि दीर्धस्य ग्रहणं भवति? इत्यत आह - दीर्घोच्चारणम् इत्यादि। यदि दीर्घो नोच्चार्येत तदा शेषाद्विभाषा (5.4.154) इति परत्वात् पक्षे कप् स्यात्, अतस्तद्बाधनार्थं दीर्गोच्चारणम्। कथं पुनर्दीघोच्चारणेन कपो निवृत्तिः? ब्राहृआ बन्धूरस्येति समासादनन्तरमूङ् क्रियताम्ुत कबिति? तत्र परत्वात् कप् स्यात्; दीर्घोच्चारणेनोकारप्रश्लेषात्। पुनर्विधानं तुल्यकालप्राप्तिकं स्वार्थिकतया समानजातीयं कब्विधिमेव निवर्तयति, न स्वादिविधिम्। स्वादयस्तूङन्ताद्भवन्त्येव; त्यूङोरपि ग्रहणात्; ज्ञापकाद्वा, आशुरः आश्रवा (1.2.71) इतिनिर्देशात्। तेन ब्राहृबन्धूरिति नित्यमूकारान्त एव भवति, न तु कदाचित् कबन्तः। अध्वर्युः इति। अध्वरमिच्छतीति क्यच्, क्याच्छन्दसि (3.2.170) इत्युप्रत्ययः, कब्यघ्वरपृतनस्यर्चि लोपः (7.4.39) इत्यकारलोपः।अप्राणिजातेश्च इत्यादि। अप्राणिजातिवाचिनश्च प्रातिपदिकादूङ् प्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पङ्गोश्च (4.1.68) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाप्रणिजातेश्च रज्ज्वादिवर्जिताद्भविष्यति। अलाबूः, कर्कन्धूः इति। कः पुनरस्योङि सत्यसति वा विशेषः, यावतोभयत्र तदेव रूपं स व स्वरः; तथा हि - अलाबूशब्द उणादिषूकारप्रत्ययान्त एव व्युत्पाद्यते, कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः (द।उ।1।164) {इति वर्तमाने णित् इति च (द।उ।1।168) नञि लम्बेर्नलोपश्च (द।उ।1।170) इतिनञ्पूर्वात् लबि अवरुआंसने इत्यस्मादूप्रत्ययः इति पाठेन भवितव्यम्। इति वर्तमाने णित् इति च नञि लम्बेर्नलोपश्च (द।उ।1।170) इति नञ्पूर्वात् लबि अवरुआंसने (धातुपाठः-379) इत्यस्मादूप्रत्यययः, इदितो नुम् (7.1.58) इत्यनेन कृतनुमागरूपस्य नकारस् नलोपश्च विहितः; कर्कन्धूशब्दोऽपि नृतिशृध्योः कूः (द।उ।1।174) इति वर्तमाने अन्दूदृन्भूजम्बूकफेलूकर्कन्धूदिधिषूः (द।उ।1।176) इत्यूकारान्त एव व्युत्पादितः, तत्किमर्थमूङ् विधीयते? अलाब्वा, अलाब्वै - इत्यत्र नोङ्धात्वोः (6.1.175) इति विभक्त्याद्युदात्तत्वप्रतिषेधो यथा स्यात्। असति हि तस्मिन् यथा खलप्वौ, खलप्वः- इत्यत्र स न भवति तथेहापि न स्यात्॥

Praudhamanorama

कुरूरिति। लिङ्गविशिष्टपरिभाषया प्रातिपदिकत्वात्स्वादयः। प्राचा तु ‘अन्तादिवच्च’ इति सूत्रमुपन्यस्याऽऽदिवद्भावत्स्वादय इत्युक्तम्। अत्रेदं वक्तव्यम्- परं प्रत्यादिवद्भावो विधीयते। तथा चेहाऽप्रत्यय इति निषेध एव स्यान्न तु स्वादयः। यत्तु व्याचख्युः— आदिः- ऊङपेक्षया पूर्वः, प्रातिपदिकं, तद्वद्भावात् तदवयवत्वेन ग्रहात् पूर्वन्तवद्भावादिति यावदिति; तदपि क्लिष्टं स्वपरग्रन्थविरुद्धं च। उक्तरीत्या हि काण्डे कुड्ये इत्यादावपि ‘एकवचनमुत्सर्गतः’ इति सुः प्रवर्तेत। तद्वारणाय चाऽप्रत्यय इति प्रसज्यप्रतिषेधाभ्युपगमे प्रकृते दोषः। श्वश्रूरित्यत्रैकादेशाऽभावेन लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च। यत्तु- तत्र ‘श्वशुरः श्वश्र्वा’ इति निर्देशात्स्वादय इति; तन्न, निर्देशस्य शब्दपरत्वात्। ‘विपराभ्यां जेः’ ‘ङेर्यः’ इतिवत्।

Prakriyasarvasvam

उदन्तान्मनुष्यजातेः स्त्रियामूङ् स्यात् । कुरु ऊ । सवर्णदीर्घः कुरू ।।

Vartika

अप्राणिजातेश्चारज्ज्वादीनामुपसंख्यानम् ।

Sutra Prayogas

  • भीरु (रघुवंशम्): ऊङुतः इत्यूङ्।

  • सुभ्रु (कुमारसम्भवम्): अप्राणिजातेश्चारज्ज्वादीनाम् इति सूत्रभाष्यज्ञापकात् ऊङ्।

  • जङ्गमा (भट्टिकाव्यम्): ऊडुतः इति ऊङ् न भवति क्रियाशब्दत्वात्।