41066: ऊङुतः ============ **Padacheda:** ऊङ् | S | 1 | 1 | उतः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After a प्रातिपदिक (Nominal Stem) ending in short उ , not having the letter य् as its penultimate letter and being expressive of races of men, the affix in the feminine is ऊङ्। Vasu English Translation ------------------------ After a प्रातिपदिक (Nominal Stem) ending in short उ , not having the letter य् as its penultimate letter and being expressive of races of men, the affix in the feminine is ऊङ्। The *anuvritti* of the words मनुष्यजाति and अयोपधात् should be read into the *sutra* to complete it. Thus कूरूः 'a female of the country of the *Kurus*' ब्रह्मबन्धूः "a *Brahmani* of the class of the fallen *Brahmans* so called", जीवबन्धूः "a woman of the *Jivabandhu* class". Thus कुरु + ण्य = कौरव्यः (4.1.172), and this affix is elided by (4.1.176) in the feminine. The indicatory letter ङ् in ऊङ् is to distinguish this affix in *Sutras* like नोङ् धात्वोः (6.1.175), for had the affix been enunciated merely as ऊ, then the *Sutra* (6.1.175) would have run as नो धात्वोः and the sense would have been ambiguous, for we could not have known what affix was particularly meant there. The long ऊ is taught to debar the affix कप्, for a short उ would have also given the form करू (कुरु + उ = कुरू) ॥ The long ऊ therefore, indicates that the affix कप्, enjoined by (5.4.154), in *Bahuvrihis*, will not apply in the feminine forms ब्रह्मबन्धूः and the like, by the rule of *vipratishedha*. Why do we say "not having the letter य् as its penultimate"? Witness अध्वर्युर्ब्राह्मणी 'a woman of the class of *Brahmanas* versed in the *Yajur* *Veda*'. Vart:- The affix ऊङ् comes under similar conditions after words denoting non-animate *jati*, except the words रज्जु &c. Thus अलाबूः 'the bottle gourd'; कर्कन्धूः 'the jujube tree.' Why do we say "non-animate"? Witness कृकवाकुः 'a kind of lizard.' Why do we say "except the word *rajju* &c" Witness रज्जुः 'rope'; हनुः 'cheek' &c. Bhashya ------- ऊङुतः (1316) (ःढ़द्य;ङोऽधिकरणम्) (पदकृत्यभाष्यम्) किमर्थो ङकारः? विशेषणार्थः। क्व विशेषणार्थेनार्थः? नोङ्धात्वोः (6.1.175) इति। नोधात्वोरित्युच्यमाने -यवाग्वा, यवाग्वै, इत्यत्रापि प्रसज्येत॥ (पदकृत्यभाष्यम्) अथ दीर्घोच्चारणं किमर्थम्, न उङुतः, इत्येवोच्येत? का रूपसिद्धिः -ब्रह्मबन्धूः, वीरबन्धूरिति? सवर्णदीर्घत्वेन सिद्धम्। न सिध्यति। गोस्त्रियोरुपसर्जनस्य (1.2.48) इति ह्रस्वत्वं प्रसज्येत॥ इह च ब्रह्मबन्धूछत्रम्, ब्रह्मबन्धूच्छत्रम्, षत्वतुकोरसिद्धः (6.1.86) इत्येकादेशस्यासिद्धत्वान्नित्यस्तुक् प्रसज्येत॥ इह च ब्रह्मबन्धूः, वीरबन्धूः नद्यृतश्च (5.4.153) इति कप् प्रसज्येत॥ नैष दोषः। यत्तावदुच्यते -ब्रह्मबन्धूः, वीरबन्धूरिति गोस्त्रियोरुपसर्जनस्येति ह्रस्वत्वं प्रसज्येतेति, उभयत आश्रयणे नान्तादिवत्॥ यदप्युच्यते -ब्रह्मबन्धूछत्रम्, ब्रह्मबन्धूच्छत्रम्, षत्वतुकोरसिद्ध इत्येकादेशस्यासिद्धत्वान्नित्यस्तुक् प्रसज्येतेति, पदान्तपदाद्योरेकादेशोऽसिद्धः। न चैष पदान्तपदाद्योरेकादेशः॥ यदप्युच्यते -ःइह च ब्रह्मबन्धूः, वीरबन्धूरिति नद्यृतश्चेति कप्प्रसज्येतेति, नद्यन्तानां यो बहुव्रीहिरित्येवं तत्, न चैष पद्यन्तानां बहुव्रीहिः॥ शेषलक्षणस्तर्हि कप् प्राप्नोति। तस्माद्दीर्घोच्चारणं कर्तव्यम्॥ (5211 विधिवार्तिकम्॥ 1 ॥) -ऊङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनाम् - (भाष्यम्)ऊङ्प्रकरणेऽप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम्। अलाबूः, कर्कन्धूः। अप्राणिजातेरिति किमर्थम्? कृकवाकुः॥ अरज्ज्वादीनामिति किमर्थम्? रज्जुः, हनुः॥ Kashika ------- मनुष्यजातेरिति वर्तते। उकारान्ताद् मनुष्यजातिवाचिनः प्रातिपदिकात् स्त्रियामूङ् प्रत्ययो भवति। कुरूः। ब्रह्मबन्धूः। वीरबन्धूः। ङकारो **नोङ्धात्वोः** (६.१.१७५) इति विशेषणार्थः। दीेर्घोच्चारणं कपो बाधनार्थम्। अयोपधादित्येतदत्रापेक्ष्यते। अध्वर्युर्ब्राह्मणी॥ अप्राणिजातेश्चारज्ज्वादीनामिति वक्तव्यम्॥ अलाबूः। कर्कन्धूः। अप्राणिग्रहणं किम्? कृकवाकुः। अरज्ज्वादीनामिति किम्? रज्जुः। हनुः॥ Siddhanta Kaumudi ----------------- उकारान्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात् । कुरूः ॥ कुरुनादिभ्यो ण्यः (SK1190) ॥ तस्य स्त्रियामवन्ति (SK1195) इत्यादिना लुक् । अयोपधात् किम् ? अध्वर्युः ॥ (वार्तिकम्) । (वार्तिकम्) ॥ अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि नोङ्धात्वोः (SK3721)इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् ॥ प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तु रज्जुः । हनुः ॥ Laghu Siddhanta Kaumudi ----------------------- उदन्तादयोपधान्मनुष्यजातिवाचिनः स्त्रियामूङ् स्यात्। कुरूः। अयोपधात्किम्? अध्वर्युर्ब्राह्मणी॥ Balamanorama ------------ **ऊङुतः** - ऊडुतः ।अयोपधा॑दितिमनुष्यजाते॑रिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः । तदाह — उकारान्तादित्यादिना । कुरूरिति । कुरुक्षेत्रस्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः ।गोत्रं च चरणैः सहे॑ति जातित्वम् । कुरुशब्दाडूङि सवर्णदीर्घः । ऊङि दीर्घोच्चारणस्य प्रयोजनं भाष्ये स्पष्टम् ।तस्यापत्य॑मित्यणमाशह्क्याह — कुरुनादिभ्यो ण्य इति । अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेम अणपवादो ण्यप्रत्यय इत्यर्थः । तर्हि स श्रूयेतेत्यत आह — तस्येति । अध्वर्युरिति । अध्वर्युशाखाध्यायिनीत्यर्थः । चरणत्वाज्जातित्वम् ।पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते । अध्यापनं च वेदानां सावित्रीवचनं तथा.॑ इति यमादिस्मृतिः ।अप्राणिजातेश्चेति ।वाचकाना॑मिति शेषः । रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि ऊङ उपसङ्ख्यानमित्यर्थः । नन्वत्र उत इति संबध्यते वा, न वा । नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात्, अलाबूशब्दस्य ऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचन ऊङापत्तेरित्यत आह — रज्ज्वादिपर्युदासादिति । 'उत' इति न संबध्यतो । अदन्तेषु नातिप्रसङ्गःनञिवयुक्तमन्यसदृशाधिकरणे तथा ह्रर्थगतिः॑ इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति । अलाबूशब्दादूङि सवर्णदीर्घे अलाबूशब्दादूङन्तात्सुबुत्पत्तिः । टायां यणादेशे अलाब्वा इति रूपम् । एवं कर्कन्धूशब्दादूङन्ताट्टायां 'कर्कन्ध्वा' इति रूपम् ।कर्कन्धूर्बदरी॑त्यमरः,तुम्ब्यलाबूरुभे समे॑ इति च । ननु ऊदन्तत्वादनयोरूङ्विधिव्र्यर्थ इत्यत आह — अनयोरिति । कृकवाकुरिति । पक्षिजातिविशेषः । अत्र मनुष्यजातित्वाऽभावात्पूर्वेणापि न ङीष् । Tattvabodhini ------------- **ऊङुतः** - ऊङुतः । ङकारोनोङ्धात्वोः॑ इति विशेषणार्थः । अन्यथायगाग्वै॑यगाग्वै॑इत्यत्रापि स निषेधः स्यात् । दीर्घोच्चारणं तुआश्रू॑शब्दार्थम् । अन्यत्र सवर्णदीर्घेणापि सिद्धेः । कुरुरिति । लिङ्गविशिष्टपरिभाषया स्वादयः । अत्र व्याचक्षते -॒यद्येकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादय इति व्याख्यायेत तर्हिकाण्डे॑कुडए॑इत्यादावपिएकवचनमुत्सर्गतः॑इति सुःप्रवर्तत, तद्वारणायअप्रत्ययः॑इति प्रसज्यप्रतिषेधाभ्युपगमे तु प्रकृते दोषः ।आश्रू॑रित्यत्रैकादेशाऽभावाल्लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च । अतएवरमे॑इत्यत्रएकादेशस्य पूर्वान्तत्वेन ग्रहणात्स्वादयैति मनोरमादौ न व्याख्यातमिति । अध्वर्युरिति । अध्वर्युशाखाध्येत्री, अध्वर्युशाखाध्यायिवंशोद्भवेति वार्थः । चरणलक्षणेयं जातिः । अध्वरं यातीति विग्रहेमृगय्यादयष्चे॑त्यौणादिकेन अध्वरशब्दस्यान्तलोपः, याधातोः कुप्रत्ययश्च ।अप्राण्जातेश्चारज्ज्वादीनामुपसङ्ख्यानम् । पर्युदासादिति । यदि सूत्रादुत इति गृह्रते तर्हि अलाब्बादावूहः संभवो नेति भावः । अलाब्वेत्यादि । प्रथमान्तं द्वितीयान्तं वा नोदाहृतम् । वक्ष्यमाणप्रयोजनस्य तत्राऽसभवात् । नोङ्धात्वोरिति । ऊङ्धात्वोर्यणः परे शसादय उदात्ता न स्युरिति सूत्रार्थः । Padamanjari ----------- कुरुरिति ।'कुरुनादिभ्यो ण्यः' तस्य'स्त्रियामवन्ति' इत्यादिना लुक् । व्रह्मबन्धूर्जीवबन्धूरिति । वृतस्वाध्यायहीनाया ब्राह्मणजातावेतौ बहुव्रीही वर्तेते । ङ्कार इत्यादि ।'नोधात्वोः' इत्युच्यमाने, यवाग्वा, यवाग्वै - अत्रापि ठुदातयणो हल्पूर्वात्ऽ इति प्राप्तस्य विभक्त्युदातस्य निषेधः स्यात्, वर्णग्रहणे ह्यर्थवद्ग्रहणपरिभाषा नोपतिष्ठते । अथ दीर्घोच्चारणं किमर्थम्, न ठुणुतःऽ इत्येवोच्येत, सवर्णदीर्घत्वेन सिद्धम् ? न सिध्यति; सत्यपि सवर्णदीघत्वे,'गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वत्वं प्राप्नोति । न प्राप्नोति, किं कारणम् ? ठुभयत आश्रयणे नान्तादिवत्ऽ, तथा हि एकादेशस्यान्तवत्वेन प्रतिपदिकसंज्ञा सम्पाद्या, ठप्रत्ययःऽ इति निषेधात् । आदिवत्वेन च स्त्रीप्रत्ययत्वं सम्पाद्यम् । इति तर्हि ब्रह्मबन्धूच्छत्रम् - षत्वतुकोरसिद्धत्वाद् ह्रस्वलक्षणो नित्यस्तुक् प्रसज्येत, दीर्घोच्चारणात्वेकादेशस्यासिद्धत्वेऽपि दीर्घ एवायमिति'दीर्घात्पदान्ताद्वा' इति विकल्पः सिध्यति ? एतदपि नास्ति प्रयोजनम् ; पदान्तपदाद्योरेकादेशोऽसिद्धः, न चैप पदान्तपदाद्योरेकादेशः । तस्मादनर्थकं दीर्घोच्चारणम् ? इत्याशङ्क्याह - दीर्घोच्चारणं कपो बाधनार्थमिति ।'शेषाद्विभाषाअ' इति कपोऽवकाशः - अयवकः, अव्रीहिकः, ऊङेऽवकाशः -कुरूरिति; ब्रह्मबन्ध्वादेर्बहुव्रीहेरुभयप्रसङ्गे परत्वात्कप् प्राप्नोति, दीर्घोच्चारणान्न भवित, कथम् ? उकारद्वयं दीर्घेण निर्दिष्टम्, तत्र द्वितीय उकारः कपो बाधनार्थः । अध्वर्युरिति । अध्वरं यातीति'मृगय्वादयश्च' इत्युणादिषु दर्शनात् कुप्रत्ययोऽध्वरशब्दस्यान्तलोपश्च । चरणलक्षणेयं जातिः, अध्वर्युशाखाध्यायिनि वंशे भवेत्यर्थः । अप्राणिजातेश्चेति । अत्र ठुतःऽ इति नापेक्ष्यते तेनालाबू-कर्कन्धूशब्दाभ्यां दीर्घान्ताभ्यामपि भवति ।'कृषिचमितनिधनिसजिखर्जिभ्य ऊः' इति वर्तमाने'णित्कशिपद्यर्तेः' इत्यतो णिदिति च,'नञि लम्बेर्नर्लोपश्च' ,'लबि अवुस्रंसने' , तस्मान्नञ्पूर्वादूप्रत्ययो भवति नलोपश्च णित्वाद् वृद्धिः, ठन्दूदृम्भूकर्कन्धूःऽ इति निपातनादूकारान्तः कर्कन्धूशब्दः । एवमलाबू-कर्कन्धूशब्दौ दीर्घान्तौ । ऊङ्विधानमलाब्वा, कर्कन्ध्वा इत्यादौ'नोङ्धात्वोः' इति विभक्त्युदातत्वप्रतिषेधार्थम् । कृकवाकुरिति ।'कृके वचः कश्च' कृकशब्द उपपदे वकेर्धातोरुण् प्रत्ययो भवति, कश्चनान्तादेशः । रज्जुरिति ।'सृजेरसुम् च' , आदिलोपः प्रकृतः, सृजेरु प्रत्ययः, आदेश्च लोपोऽसुगागमश्च, ऋतो यणादेशः, सकारस्य जश्त्वचर्त्वे, सृज्यतेऽसौ रज्जुरिति । हनुरिति ।'युस्निहि' इत्यादिना हन्तेरुप्रत्ययः ॥ Nyaas ----- `कुरूः` इति। कुरोरपत्यं स्त्री - कुरुनादिभ्यो ण्यः` (4.1.170) , `स्त्रियामवन्ति` (4.1.174) इत्यादिना तस्य लुक्। गोत्रमिह जातिः। `ब्राहृबन्धूः` इति। ब्राहृ बन्धरस्याः, वीरो बन्धुरस्या इति बहुव्रीहिः। ब्राहृबन्धूवीरबन्धूशब्दौ कस्याञ्चिदेव जातौ वर्तेते। जातित्वं पुनरसर्वलिङ्गभाक्त्वात्। तौ हि स्त्रीलिङ्गपुंल्लिङ्गादेव, न नपुंसकलिङ्गौ। `उतः` इति तपरकरणं मुखसुखार्थम्। न तु दीर्घनिवृत्त्य्रथम्; ऊकारान्तस् मनुष्यजातिवाचिनोऽभावात्।`ङकारः`इत्यादि। ऊङो यदि ङकारो न क्रियेत तदा **नोङ्धात्वोः** (6.1.175) इत्यस्मिन्नपि न कर्तव्यः स्यात् ; ङाकारानुबन्धवतोऽन्यस् कस्यचिदूकारस्याभावात्। ततश्च `नोधात्वोः` इत्युच्यमाने यवाग्वा, यवाग्वै इत्यत्रापि **उदात्तयणो हल्पूर्वात्** (6.1.174) इति तृतीयादिविभक्तेरुदात्तत्वस्य प्राप्तस्य प्रतिषेधः स्यात्। ननु चार्थवत ऊकारस्य ग्रहणात् `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यनर्थकस्य न भविष्यति, यवागूशब्दो हि `सृयुवचिभ्योऽन्युजागूजक्नुचः` (द।उ।10।4) इत्यागूच्प्रत्ययान्तो व्युत्पादितः, तत्रागूच्छब्द एव प्रत्ययार्थेनार्थवान्, ऊकारस्त्वनर्थक एव? नैतदस्ति; यस्मान्न वर्णग्रहणेष्वियं परिभाषा व्यवस्थिता, वर्णग्रहणञ्चेदम्, अतो नोपतिष्ठते। अथोपतिष्ठेत? एवमपि `कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः` (द।उ।1।164) इत्यूप्रत्ययस्य ग्रहणं स्यात्। ततश्च खर्ज्वा, खर्ज्वे - इत्यत्र प्रतिषेधः प्रसज्येत। तस्माद्विशेषणार्थो ङकारः कर्तव्यः। अथ दीर्घोच्चारणं किमर्थम्, ननु उङेवोच्येत, **अकः सवर्णे दीर्घः** (6.1.101) इति दीर्घत्वेन हि दीर्धस्य ग्रहणं भवति? इत्यत आह - `दीर्घोच्चारणम्` इत्यादि। यदि दीर्घो नोच्चार्येत तदा **शेषाद्विभाषा** (5.4.154) इति परत्वात् पक्षे कप् स्यात्, अतस्तद्बाधनार्थं दीर्गोच्चारणम्। कथं पुनर्दीघोच्चारणेन कपो निवृत्तिः? ब्राहृआ बन्धूरस्येति समासादनन्तरमूङ् क्रियताम्ुत कबिति? तत्र परत्वात् कप् स्यात्; दीर्घोच्चारणेनोकारप्रश्लेषात्। पुनर्विधानं तुल्यकालप्राप्तिकं स्वार्थिकतया समानजातीयं कब्विधिमेव निवर्तयति, न स्वादिविधिम्। स्वादयस्तूङन्ताद्भवन्त्येव; त्यूङोरपि ग्रहणात्; ज्ञापकाद्वा, `आशुरः आश्रवा` (1.2.71) इतिनिर्देशात्। तेन ब्राहृबन्धूरिति नित्यमूकारान्त एव भवति, न तु कदाचित् कबन्तः। `अध्वर्युः` इति। अध्वरमिच्छतीति क्यच्, **क्याच्छन्दसि** (3.2.170) इत्युप्रत्ययः, `कब्यघ्वरपृतनस्यर्चि लोपः` (7.4.39) इत्यकारलोपः।`अप्राणिजातेश्च` इत्यादि। अप्राणिजातिवाचिनश्च प्रातिपदिकादूङ् प्रत्ययो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - **पङ्गोश्च** (4.1.68) इत्यत्र चकारोऽनुक्तसमुच्चयार्थः, तेनाप्रणिजातेश्च रज्ज्वादिवर्जिताद्भविष्यति। `अलाबूः, कर्कन्धूः` इति। कः पुनरस्योङि सत्यसति वा विशेषः, यावतोभयत्र तदेव रूपं स व स्वरः; तथा हि - अलाबूशब्द उणादिषूकारप्रत्ययान्त एव व्युत्पाद्यते, `कृषिचमितनिधनिसर्जिखर्जिभ्य ऊः` (द।उ।1।164) `{इति वर्तमाने णित् इति च (द।उ।1।168) नञि लम्बेर्नलोपश्च` (द।उ।1।170) इतिनञ्पूर्वात् `लबि अवरुआंसने इत्यस्मादूप्रत्ययः` इति पाठेन भवितव्यम्। इति `वर्तमाने णित्` इति च `नञि लम्बेर्नलोपश्च` (द।उ।1।170) इति नञ्पूर्वात् `लबि अवरुआंसने` (धातुपाठः-379) इत्यस्मादूप्रत्यययः, `इदितो नुम्` (7.1.58) इत्यनेन कृतनुमागरूपस्य नकारस् नलोपश्च विहितः; कर्कन्धूशब्दोऽपि `नृतिशृध्योः कूः` (द।उ।1।174) इति वर्तमाने `अन्दूदृन्भूजम्बूकफेलूकर्कन्धूदिधिषूः` (द।उ।1।176) इत्यूकारान्त एव व्युत्पादितः, तत्किमर्थमूङ् विधीयते? अलाब्वा, अलाब्वै - इत्यत्र **नोङ्धात्वोः** (6.1.175) इति विभक्त्याद्युदात्तत्वप्रतिषेधो यथा स्यात्। असति हि तस्मिन् यथा खलप्वौ, खलप्वः- इत्यत्र स न भवति तथेहापि न स्यात्॥ Praudhamanorama --------------- **कुरूरिति।** लिङ्गविशिष्टपरिभाषया प्रातिपदिकत्वात्स्वादयः। प्राचा तु 'अन्तादिवच्च' इति सूत्रमुपन्यस्याऽऽदिवद्भावत्स्वादय इत्युक्तम्। अत्रेदं वक्तव्यम्- परं प्रत्यादिवद्भावो विधीयते। तथा चेहाऽप्रत्यय इति निषेध एव स्यान्न तु स्वादयः। यत्तु व्याचख्युः— आदिः- ऊङपेक्षया पूर्वः, प्रातिपदिकं, तद्वद्भावात् तदवयवत्वेन ग्रहात् पूर्वन्तवद्भावादिति यावदिति; तदपि क्लिष्टं स्वपरग्रन्थविरुद्धं च। उक्तरीत्या हि काण्डे कुड्ये इत्यादावपि 'एकवचनमुत्सर्गतः' इति सुः प्रवर्तेत। तद्वारणाय चाऽप्रत्यय इति प्रसज्यप्रतिषेधाभ्युपगमे प्रकृते दोषः। श्वश्रूरित्यत्रैकादेशाऽभावेन लिङ्गविशिष्टपरिभाषाया आवश्यकत्वाच्च। यत्तु- तत्र 'श्वशुरः श्वश्र्वा' इति निर्देशात्स्वादय इति; तन्न, निर्देशस्य शब्दपरत्वात्। 'विपराभ्यां जेः' 'ङेर्यः' इतिवत्। Prakriyasarvasvam ----------------- उदन्तान्मनुष्यजातेः स्त्रियामूङ् स्यात् । कुरु ऊ । सवर्णदीर्घः कुरू ।। Vartika ------- अप्राणिजातेश्चारज्ज्वादीनामुपसंख्यानम् । Sutra Prayogas -------------- * **भीरु** (रघुवंशम्): `ऊङुतः` इत्यूङ्। * **सुभ्रु** (कुमारसम्भवम्): `अप्राणिजातेश्चारज्ज्वादीनाम्` इति सूत्रभाष्यज्ञापकात् ऊङ्। * **जङ्गमा** (भट्टिकाव्यम्): `ऊडुतः` इति ऊङ् न भवति क्रियाशब्दत्वात्।