41062: सख्यशिश्वीति भाषायाम्¶
Padacheda: सखी | S | 1 | 1 |
अशिश्वी | S | 1 | 1 |
इति | S | 0 | 0 |
भाषायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The forms सखी and अशिश्वी are irregular forms ending in ङीष् found in secular (or vernacular as opposed to Vedic) Sanskrit.
Vasu English Translation¶
The forms सखी and अशिश्वी are irregular forms ending in ङीष् found in secular (or vernacular as opposed to Vedic) Sanskrit. Thus सखीयं मे ब्राह्मणी, and नास्याः शिशरस्तीति = अशिश्वी ॥ Why do we say in vernacular Sanskrit ? Observe सखा सप्तपदी भव and अशिशुमिव मामयं शिशुरभिमन्यते ॥
Sometimes we find these forms in the Vedas also, though rarely, as आधेनवो धुनयन्तामशिश्वी ॥ सखी सप्तपदी भव ॥
Kashika¶
सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते। सखीयं मे ब्राह्मणी। नास्याः शिशुरस्तीति अशिश्वी। भाषायामिति किम्? सखा सप्तपदी भव (आ०गृ० १.७.१९)। अशिशुमिव मामयं शिशुरभिमन्यते॥
Siddhanta Kaumudi¶
इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥
Balamanorama¶
सख्यशिश्वीति भाषायाम् - सख्यशिआई । सखिशब्दादशिशुशब्दाच्च स्त्रियां ङीष् निपात्यते भाषायाम् । सौकिकप्रयोगो-भाषा । तर्हि वेदे नैव स्यादित्यत आह — इतिशब्द इति । ‘प्रकारे’ इत्यनन्तरं ‘वर्तते’ इति शेषः । प्रकारः=सजातीयता । भाषायामित्यस्येति । सचइति॑शब्दो भाषायामित्यस्यानन्तरं संनिवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह — तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यत इत्यर्थः । सखीति । सखिशब्दान्ङीषियस्येति चे॑ति खकारादिकारस्य लोपः । भाषायां किम् । ‘सखा सप्तपदा भव’ अशिआईति । न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दान्ङीषि उकारस्य यण् ।अशिआई शिशुना विना॑ इत्यमरः । छन्दस्यपि क्वचिदित्यस्योदाहरणमाह — आ धेनवो धुनयन्तामशिआईरिति । अशिआईशब्दाज्जसिदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः ।
Tattvabodhini¶
सख्यशिश्वीति भाषायाम् - सख्याशिआईति । सखिशब्दादशिशुशब्दाच्च ङीष् निपात्यते । न विद्यते शिशुर्यस्याः सा अशिआई । भाषायां किम् । सखा सप्तपदी भव ।
Padamanjari¶
भाषायामित्युच्यते, तत्रैतन्न सिध्यति - सखी सप्तपदी भव, आ धेनवो धुनयन्तामशिश्वीरिति ? नैष दोः; इतिकरणोऽत्र क्रियते, स भिन्नक्रमो भाषायामित्यस्यानन्तरं द्रष्टव्यः, स च प्रकारे वर्तते, तेन च्छन्दस्यपि क्वचिद्भविष्यति । भाषाग्रहणं तु नित्यार्थम् ॥
Nyaas¶
सखी इति। सखिशब्दान्ङीप्। नास्याः शिशुरस्तीति वाक्यशेषेण बहुव्रीहिं दर्शयन्नशिशुशब्दो यो बहुव्रीहिस्तस्याशिआईति निपात्यते। न तु तत्पुरुषो यस्तस्येति दर्शयति। तत्पुरुषे हि न शिशुरशिशुरित्येवं भवति। सखा इति। अनङ् सौ (7.1.93) इत्यनङादेशः, नोपधायाः (6.4.7) सर्वनामस्थाने च (6.4.8) इति दीर्घः। सख्यशिशुभ्याम् इत्येवं वक्तव्ये यन्निपातनं क्रियते, तस्यैतत् प्रयोजनम् - तुल्यश्रुतेः शब्दान्तरस्यापि यथा स्यात्, सह खेन या वर्तते सा सखीति॥
Prakriyasarvasvam¶
एतौ लोके स्तः । सखी । अशिश्वी शिशुहीना ॥
Sutra Prayogas¶
सखी (रघुवंशम्): सख्यशिश्वीति भाषायाम् इति निपातनान्ङीष्।