41062: सख्यशिश्वीति भाषायाम् ============================ **Padacheda:** सखी | S | 1 | 1 | अशिश्वी | S | 1 | 1 | इति | S | 0 | 0 | भाषायाम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The forms सखी and अशिश्वी are irregular forms ending in ङीष् found in secular (or vernacular as opposed to Vedic) Sanskrit. Vasu English Translation ------------------------ The forms सखी and अशिश्वी are irregular forms ending in ङीष् found in secular (or vernacular as opposed to Vedic) Sanskrit. Thus सखीयं मे ब्राह्मणी, and नास्याः शिशरस्तीति = अशिश्वी ॥ Why do we say in vernacular Sanskrit ? Observe सखा सप्तपदी भव and अशिशुमिव मामयं शिशुरभिमन्यते ॥ Sometimes we find these forms in the Vedas also, though rarely, as आधेनवो धुनयन्तामशिश्वी ॥ सखी सप्तपदी भव ॥ Kashika ------- सखी अशिश्वी इत्येतौ शब्दौ ङीषन्तौ भाषायां निपात्येते। सखीयं मे ब्राह्मणी। नास्याः शिशुरस्तीति अशिश्वी। भाषायामिति किम्? सखा सप्तपदी भव (आ०गृ० १.७.१९)। अशिशुमिव मामयं शिशुरभिमन्यते॥ Siddhanta Kaumudi ----------------- इति शब्दः प्रकारे भाषायामित्यस्यानन्तरं द्रष्टव्यः । तेन छन्दस्यपि क्वचित् । सखी । अशिश्वी । आधेनवो धुनयन्तामशिश्वीः ॥ Balamanorama ------------ **सख्यशिश्वीति भाषायाम्** - सख्यशिआई । सखिशब्दादशिशुशब्दाच्च स्त्रियां ङीष् निपात्यते भाषायाम् । सौकिकप्रयोगो-भाषा । तर्हि वेदे नैव स्यादित्यत आह — इतिशब्द इति । 'प्रकारे' इत्यनन्तरं 'वर्तते' इति शेषः । प्रकारः=सजातीयता । भाषायामित्यस्येति । सचइति॑शब्दो भाषायामित्यस्यानन्तरं संनिवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह — तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यत इत्यर्थः । सखीति । सखिशब्दान्ङीषियस्येति चे॑ति खकारादिकारस्य लोपः । भाषायां किम् । 'सखा सप्तपदा भव' अशिआईति । न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दान्ङीषि उकारस्य यण् ।अशिआई शिशुना विना॑ इत्यमरः । छन्दस्यपि क्वचिदित्यस्योदाहरणमाह — आ धेनवो धुनयन्तामशिआईरिति । अशिआईशब्दाज्जसिदीर्घाज्जसि चे॑ति पूर्वसवर्णदीर्घनिषेधाऽभावश्छान्दसः । Tattvabodhini ------------- **सख्यशिश्वीति भाषायाम्** - सख्याशिआईति । सखिशब्दादशिशुशब्दाच्च ङीष् निपात्यते । न विद्यते शिशुर्यस्याः सा अशिआई । भाषायां किम् । सखा सप्तपदी भव । Padamanjari ----------- भाषायामित्युच्यते, तत्रैतन्न सिध्यति - सखी सप्तपदी भव, आ धेनवो धुनयन्तामशिश्वीरिति ? नैष दोः; इतिकरणोऽत्र क्रियते, स भिन्नक्रमो भाषायामित्यस्यानन्तरं द्रष्टव्यः, स च प्रकारे वर्तते, तेन च्छन्दस्यपि क्वचिद्भविष्यति । भाषाग्रहणं तु नित्यार्थम् ॥ Nyaas ----- `सखी` इति। सखिशब्दान्ङीप्। नास्याः शिशुरस्तीति वाक्यशेषेण बहुव्रीहिं दर्शयन्नशिशुशब्दो यो बहुव्रीहिस्तस्याशिआईति निपात्यते। न तु तत्पुरुषो यस्तस्येति दर्शयति। तत्पुरुषे हि न शिशुरशिशुरित्येवं भवति। `सखा` इति। **अनङ् सौ** (7.1.93) इत्यनङादेशः, **नोपधायाः** (6.4.7) `सर्वनामस्थाने च` (6.4.8) इति दीर्घः। `सख्यशिशुभ्याम्` इत्येवं वक्तव्ये यन्निपातनं क्रियते, तस्यैतत् प्रयोजनम् - तुल्यश्रुतेः शब्दान्तरस्यापि यथा स्यात्, सह खेन या वर्तते सा सखीति॥ Prakriyasarvasvam ----------------- एतौ लोके स्तः । सखी । अशिश्वी शिशुहीना ॥ Sutra Prayogas -------------- * **सखी** (रघुवंशम्): `सख्यशिश्वीति भाषायाम्` इति निपातनान्ङीष्।