34100: इतश्च

Padacheda: इतः | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha

ङित्-लकाराणाम् विषये परस्मैपदस्य प्रत्यये विद्यमानस्य इकारस्य लोपः भवति ।

ङित्-लकारस्य परस्मैपदस्य प्रत्ययेषु विद्यमानस्य इकारस्य अनेन सूत्रेण लोपः भवति । परस्मैपदस्य तिप्, झि तथा सिप् - एतेषां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति । मिप्-प्रत्ययस्य ङित्-लकारेषु तस्थस्थमिपां तांतंतामः (3.4.101) इत्यनेन अम्-आदेशः भवति, अतः मिप्-प्रत्ययस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 1. पठ्-धातोः लुङ्लकारस्य प्रथमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - पठ् + लुङ् [लुङ् (3.2.110) इति लुङ्] → पठ् + च्लि + ल् [च्लि लुङि (3.1.43) इति लुङ्लकारस्य प्रत्यये परे लकारविकरणम् ‘च्लि’] → पठ् + सिच् + ल् [च्लेः सिच् (3.1.44) इति च्ले-इत्यस्य सिच्-आदेशः ।] → अट् पठ् + स् + ल् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ पठ् + स् + तिप् [तिप्तस्.. (3.4.78) इति तिप्] → अ पठ् + स् + त् [इतश्च (3.4.100) इति ‘ति’ इत्यस्य इकारस्य लोपः] → अ पठ् + इट् स् + त् [आर्द्धधातकस्य इड्वलादेः (7.2.35) इति इडागमः] → अ पठ् + इ स् + ईट् त् [अस्तिसिचोऽपृक्ते (7.3.96) इति ईट्-आगमः] → अ पठ् / पाठ् + इ स् + ई त् [अतो हलादेर्लघोः (7.2.7) इति वैकल्पिकवृद्धिः] → अ पठ्/पाठ् + इ + ई + त् [इट ईटि (8.2.28) इति सकारलोपः] → अपठीत् / अपाठीत् [ <!सिज्लोप एकादेशे सिद्धो वाच्यः !> अनेन वार्तिकेन सवर्णदीर्घ-एकादेशे कर्तव्ये सिच्लोपः सिद्धः अस्ति । अतः अकः सवर्णे दीर्घः (6.1.101) इति सवर्णदीर्घः] 2. पठ्-धातोः लङ्लकारस्य प्रथमपुरुष-बहुवचनस्य रूपम् एतादृशं सिद्ध्यति - पठ् + लङ् [अनद्यतने लङ् (3.2.111) इति लङ्] → अट् + पठ् + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ + पठ् + झि [तिप्तस्.. (3.4.78) इति तिप्] → अ + पठ् + शप् + झि [कर्तरि शप् (3.1.68) इति शप्] → अ + पठ् + शप् + अन्ति [झोऽन्तः (7.1.3) इति झकारस्य अन्त्-आदेशः] → अ + पठ् + अ + अन्त् [इतश्च (3.4.100) इति ‘अन्ति’ प्रत्ययस्य इकारस्य लोपः] → अपठन्त् [अतो गुणे (6.1.97) इति गुण-एकादेशः] → अपठन् [संयोगान्तस्य लोपः (8.2.23) इति तकारलोपः] 3. पठ्-धातोः लृङ्लकारस्य मध्यमपुरुषैकवचनस्य रूपम् एतादृशं सिद्ध्यति - पठ् + लृङ् [लिङ्निमित्ते लृङ् क्रियातिपत्तौ (3.3.139) इति लृङ्] → पठ् + स्य + लृङ् [स्यतासी लृलुटोः (3.1.33) इति स्य-विकरणप्रत्ययः] → अट् + पठ् + स्य + लङ् [लुङ्लङ्लृङ्क्ष्वडुदात्तः (6.4.71) इति अट्-आगमः] → अ + पठ् + इट् + स्य + लङ् [आर्धधातुकस्य इड्वलादेः (7.2.35) इति इडागमः] → अ + पठ् + इट् + स्य + सिप् [तिप्तस्.. (3.4.78) इति सिप्] → अ + पठ् + इट् + स्य + स् [इतश्च (3.4.100) इति ‘सि’ प्रत्ययस्य इकारस्य लोपः] → अपठिस्यरुँ [ससजुषोः रुँः (8.2.66) इति सकारस्य रुँत्वम्] → अपठिस्यः [खरवसानयोर्विसर्जनीयः (8.3.15) इति रेफस्य विसर्गः] → अपठिष्यः [आदेशप्रत्यययोः (8.3.59) इति षत्वम्] ज्ञातव्यम् - यद्यपि लोटो लङ्वत् (3.4.85) इत्यनेन लोट्-लकारस्य प्रक्रिया लङ्लकारवत् भवति, तथापि लोट्-लकारस्य विषये एरुः (3.4.86) इत्यनेन इकारस्य उकारादेशः भवति । अतः लोट्लकारस्य विषये इतश्च (3.4.100) इत्यस्य प्रसक्तिः नास्ति ।

Sutrartha (English)

In case of ङित् लकारs, The इकार present in the परस्मैपद-प्रत्ययs is removed.

Vasu English Summary

And there is elision of the इ of that परस्मैपद affix which is the substitute of a ल having an indicatory ङ्।

Vasu English Translation

And there is elision of the इ of that परस्मैपद affix which is the substitute of a ल having an indicatory ङ्। Thus, for ति we have त्, for सि we have स्, &c, as in the above table. The इ of Atmanepada is, however, not elided, because the anuvritti of *Parasmaipada is understood here from *sutra_ (3.4.97). Thus अपचत्, अपाक्षीत्, but अपचावहि and अपचामहि।

Kashika

ङितो इत्येव। ङिल्लकारसंबन्धिन इकारस्य नित्यं लोपो भवति। अपचत्। अपाक्षीत्। परस्मैपदेष्वित्येव — अपचावहि। अपचामहि॥

Siddhanta Kaumudi

ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥

Laghu Siddhanta Kaumudi

ङितो लस्य परस्मैपदमिकारान्तं यत्तदन्तस्य लोपः। अभवत्। अभवताम्। अभवन्। अभवः। अभवतम्। अभवत। अभवम्। अभवाव। अभवाम॥

Tattvabodhini

इतश्च लोपः इति सूत्रात्परस्मैपदेष्वित्यनुवृत्तं षष्ठ�एकवचनान्ततया विपरिणमय्य इत इत्यनेन विशेष्येते। तदाह - परस्मैपदमिकारान्तं यत्तस्येति। प्राचा तु परस्मैपदेष्विकारस्य लोपर इत्युक्तम्, तदयुक्तम्, भवेदित्यादावतिव्याप्तेः। ननु अतो येयः इत्यत्र ईय् दीर्घादिरस्तु, एवं च नोक्तातिव्याप्तिः `इतश्चे`ति तपरकरणात्। अत एव अबोभवीदित्यादावपि न दोष इति चेत्। मैवम्। करुदेर्लङि अरुदितामित्यादौ दोषध्रौव्यादिति मनोरमायां स्थितम्॥

Prakriyasarvasvam

ङिल्लकाराणां परस्मैपदेष्वितो लोपः स्यात् । भव या त् ।