34098: स उत्तमस्य¶
Padacheda: सः | S | 6 | 1 |
उत्तमस्य | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The स् of the first person is optionally elided in the लेट् (Vedic Subjunctive).
Vasu English Translation¶
The स् of the first person is optionally elided in the लेट् (Vedic Subjunctive). As करवाव or करवावः, करवाम or करवामः । The first person is used in the sutra to indicate that the स् is not elided in any other person.
Kashika¶
लेट इति, वेति च वर्तते। लेट्संबन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति। करवाव। करवाम। न च भवति — करवावः। करवामः। उत्तमग्रहणं पुरुषान्तरे मा भूत्॥
Siddhanta Kaumudi¶
लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥
Padamanjari¶
करवाव, करवामेति । पूर्ववद्गुणोत्वाभावौ,’लेटो’ डाटौऽ इत्याट् । उतरग्रहणमित्यादि । इह वस्मस्ग्रहणमेव कर्तव्यम् ।’तत्रायमप्यर्थः - स इति न वक्तव्यं भवति, ठलो’ न्त्यस्यऽ इत्येव सिद्धम् । यदा च पुरुषान्तरस्य स्थाने वस्मसौ भवतः, एतयोश्च स्थाने सकारान्तं पुरुषान्तरम्, तदापि वाग्रहणानुवृत्यैव लोपालोपौ यथादर्शनं व्यवस्थितौ भविष्यतः । यथाक्रियमाणेऽप्युतम प्रहणे वाग्रहणं चानुवर्तते, उतरत्र नित्यग्रहणं स्यात्’नित्यं ङ्तिः’ ॥
Nyaas¶
करवाव इति। लेटोऽडाटौ (3.4.94) इत्याट्। उत्तमग्रहणम् इत्यादि। यदि तर्हि पुरुषान्तरे मा भूदित्येवमर्थमुत्तमग्रहणं क्रियते? न ; वस्मस्ग्रहणमेव कर्तव्यम्, अत्राप्ययमर्थः - सकारग्रहणं कर्तव्यं न भवति, अलोऽन्त्यपरिभाषयैव सकालोपो भवति? अशक्यं वस्मस्ग्रहणं कर्त्तुम्; तस्मिन् सति यदा व्यत्यनेन पुरुषान्तरस्य स्थाने तौ भवतस्तदापि लोपः स्यात्, यदा चोत्तमपुरुषस्य स्थाने थस् क्रियते तदा लोपो न स्यात्। उत्तमग्रहणे सत्येव दोषो न भवति स्थानिवद्भावेन मध्यमोत्तमसंज्ञयोर्भवन्त्योरेकसंज्ञाधिकारादसति समावेश उत्तमसंज्ञया मध्यमसंज्ञाया निवृत्तिः। सकारग्रहणञ्च यदि न क्रियेत, तदोत्तमस्य व्यत्ययेन वचनान्तरेषु कृतेषु वर्णान्तरस्यापि लोपः स्यात्। तस्माद्यथान्यासमेवास्तु॥