34098: स उत्तमस्य ================= **Padacheda:** सः | S | 6 | 1 | उत्तमस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The स् of the first person is optionally elided in the लेट् (Vedic Subjunctive). Vasu English Translation ------------------------ The स् of the first person is optionally elided in the लेट् (Vedic Subjunctive). As करवाव or करवावः, करवाम or करवामः । The first person is used in the *sutra* to indicate that the स् is not elided in any other person. Kashika ------- लेट इति, वेति च वर्तते। लेट्संबन्धिन उत्तमपुरुषस्य सकारस्य वा लोपो भवति। करवाव। करवाम। न च भवति — करवावः। करवामः। उत्तमग्रहणं पुरुषान्तरे मा भूत्॥ Siddhanta Kaumudi ----------------- लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥ Padamanjari ----------- करवाव, करवामेति । पूर्ववद्गुणोत्वाभावौ,'लेटो' डाटौऽ इत्याट् । उतरग्रहणमित्यादि । इह वस्मस्ग्रहणमेव कर्तव्यम् ।'तत्रायमप्यर्थः - स इति न वक्तव्यं भवति, ठलो' न्त्यस्यऽ इत्येव सिद्धम् । यदा च पुरुषान्तरस्य स्थाने वस्मसौ भवतः, एतयोश्च स्थाने सकारान्तं पुरुषान्तरम्, तदापि वाग्रहणानुवृत्यैव लोपालोपौ यथादर्शनं व्यवस्थितौ भविष्यतः । यथाक्रियमाणेऽप्युतम प्रहणे वाग्रहणं चानुवर्तते, उतरत्र नित्यग्रहणं स्यात्'नित्यं ङ्तिः' ॥ Nyaas ----- `करवाव` इति। **लेटोऽडाटौ** (3.4.94) इत्याट्। `उत्तमग्रहणम्` इत्यादि। यदि तर्हि पुरुषान्तरे मा भूदित्येवमर्थमुत्तमग्रहणं क्रियते? न ; वस्मस्ग्रहणमेव कर्तव्यम्, अत्राप्ययमर्थः - सकारग्रहणं कर्तव्यं न भवति, अलोऽन्त्यपरिभाषयैव सकालोपो भवति? अशक्यं वस्मस्ग्रहणं कर्त्तुम्; तस्मिन् सति यदा व्यत्यनेन पुरुषान्तरस्य स्थाने तौ भवतस्तदापि लोपः स्यात्, यदा चोत्तमपुरुषस्य स्थाने थस् क्रियते तदा लोपो न स्यात्। उत्तमग्रहणे सत्येव दोषो न भवति स्थानिवद्भावेन मध्यमोत्तमसंज्ञयोर्भवन्त्योरेकसंज्ञाधिकारादसति समावेश उत्तमसंज्ञया मध्यमसंज्ञाया निवृत्तिः। सकारग्रहणञ्च यदि न क्रियेत, तदोत्तमस्य व्यत्ययेन वचनान्तरेषु कृतेषु वर्णान्तरस्यापि लोपः स्यात्। तस्माद्यथान्यासमेवास्तु॥