34095: आत ऐ¶
Padacheda: आतः | S | 6 | 1 |
ऐ | S | | | 1
Sutrartha¶
Vasu English Summary¶
In the लेट् (Vedic Subjunctive) ऐ is the substitute of आ in the first and second person dual of the आत्मनेपद ।
Vasu English Translation¶
In the लेट् (Vedic Subjunctive) ऐ is the substitute of आ in the first and second person dual of the आत्मनेपद । Thus मन्त्रयैते, मन्त्रयैथे, करवैते, करवैथे । Why is not the augment आट् changed into ऐ ? Because otherwise the rule enjoining आट् would be superfluous.
Kashika¶
लेट इत्येव। लेट्संबन्धिन आकारस्य ऐकारादेशो भवति। प्रथमपुरुषमध्यमपुरुषात्मनेपद — द्विवचनयोः। मन्त्रयैते। मन्त्रयैथे। करवैते। करवैथे। आटः कस्माद् न भवति? विधानसामर्थ्यात्॥
Siddhanta Kaumudi¶
लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते (सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते) । आतामित्याकारस्य ऐकारः । विधिसामार्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् (यो यजा॑ति॒ यजा॑त॒ इत्) ॥
Padamanjari¶
करवैते इति ।’च्छन्दस्युभयथा’ इति सार्वधातुकत्वाद्विकरणः, आर्द्धधातुकत्वान् ङ्त्वाभावे इविकरणस्य गुणः, करोतेश्चोत्वाभावः, पवैते, अश्नवैथे, प्रवैते, विग्रन्थैथे ॥
Nyaas¶
मन्त्रयैते इति। मत्रि {गुप्तपरिभाषणे-धातुपाठः-} (धातुपाठः-1679), चुरादिणिच्, शप्,{गुणायादेशः इति मु।पाठः।} गुणायादेशौ। आटः कस्मान्न भवति इति। पदाति विद्युदित्यादौ। विधानसामर्थ्यात् इति। यद्याट ऐत्वं स्यात् ऐडागममेव विदध्यात्, एवं प्रक्रियालाघवं भवतीति मन्यते॥