34094: लेटोऽडाटौ

Padacheda: लेटः | S | 6 | 1 |

अट्-आटौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

The augments अट् and आट् are added to the तिङ् (Personal Endings) of the लेट् (Vedic Subjunctive).

Vasu English Translation

The augments अट् and आट् are added to the तिङ् (Personal Endings) of the लेट् (Vedic Subjunctive). The augments अट् and आठ् are not to be added at once, but by turns. Thus जुष् + सिप् + अट् + त् = जोषिषत्; तारिषत्, मान्दिषत्; similarly पत् + आट् + ति = पताति; च्यावयाति । See (3.1.34) for the addition of सिप् in the above.

Kashika

लेटोऽडाटावागमौ भवतः पर्यायेण। जोषि॑ष॒त् (ऋ० २.३५.१)। तारिषत् (ऋ० १.२५.१२)। मन्दिषत्। पता॑ति दि॒द्युत् (ऋ० ७.२५.१)। उद॒धिं च्या॑वयाति (तै०सं० ३.५.५.२)॥

Siddhanta Kaumudi

लेटः अट् आट् एतावागमौ स्तस्तौ च पितौ ॥<! ब्बिहुलं णिद्वक्तव्यः !> (वार्तिकम्) ॥ वृद्धिः । प्रण आयूंषि तारिषत् (प्रण॒ आयूं॑षि तारिषत्) । सुपेशसस्करति जोषिषद्धि (सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि) । आ साविषदर्शसानाय (आ सा॑विषदर्शसा॒नाय॒) । सिप इलोपस्य चाभावे । पाताति दिद्युत् (पाता॑ति दि॒द्युत्) । प्रियः सूर्ये प्रियो अग्ना भवाति (प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति) ॥

Nyaas

पर्यायेण इति। अथ युगपदेव कस्मान्न भवतः? एवं मन्यते - टितावेतौ विधीयेते, टित्त्वञ्चादिविधानार्थंम्। न च युगपद्द्वयोरादित्वं भवति, एकेनैवादिदेशस्यावष्टब्धत्वान्न युक्तं यौगपद्यमिति। जोषिषत् इत्यादीव्युदाहरणानि सिब्बहुलं लेटि (3.1.34) इत्यत्र व्युत्पादितानि। अत्रापि व्युत्पाद्यन्ते। जोषिषत् इति - जुषी प्रीतिसेवनयोः (धातुपाठः-1288), सिप इकार उच्चारणार्थः, अनेनाट्, इतश्च लोपः परस्मैपदेषु (3.4.97) इतीकारलोपः आर्धधातुकस्येड्वलादेः (7.2.35) इतीट्, लघूपधगुणः, आदेशप्रत्यययोः 8.3.59) इति षत्वम्। तारिषत् इति - तृ प्लवनतरणयोः (धातुपाठः-969), सार्वधातुकार्धधातुकयोः (7.3.84) इति व्यत्ययेन धात्वकारस्य दीर्घः। शेषं पूर्ववत्। मन्दिवत् इति - मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु (धातुपाठः-13) इदितो नुम्` (7.1.58) । पदाति इति। पद गतौ (धातुपाठः-1169) दिवादावनुदात्तेत् , व्यत्ययेन परस्मैपदम्; शप्प्रत्ययश्च, अटा सहाकः सवर्णे (6.1.97) दीर्घत्वम्, तिप्। इकारलोपोऽत्र न भवति; तद्विधौ वैतोऽन्यत्र (3.4.96) इत्यतो वाग्रहणानुवृत्तेः। च्यावयति इति। च्युङ् ज्युङ प्रुङ प्लुङ गतौ (धातुपाठः-955 - 958), हेतुमण्णिच्॥