34058: नाम्न्यादिशिग्रहोः¶
Padacheda: नाम्नि | S | 7 | 1 |
आदिशि-ग्रहोः | S | 6 | 2 |
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after the verbs 1. आदिश् 2. ग्रह् ‘to seize’ when the word नामन् ‘name’ in the Accusative -2nd case is in composition.
Vasu English Translation¶
The affix णमुल् comes after the verbs 1. आदिश् 2. ग्रह् ‘to seize’ when the word नामन् ‘name’ in the Accusative -2nd case is in composition. Thus नामादेशमाचष्ठे ‘he mentions it, telling his name’. नामग्राहं मामाहूयति ‘he calls me by taking my name (i.e. by my name)’.
Kashika¶
द्वितीयायामित्येव। नामशब्दे द्वितीयान्त उपपद आदिशेर्ग्रहेश्च धातोर्णमुल् प्रत्ययो भवति। नामादेशमाचष्टे। नामग्राहमाचष्टे॥
Siddhanta Kaumudi¶
द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ॥
Padamanjari¶
आदिशेर्ग्रहेश्चेति । एतेनाङे दिशिनैव सम्बन्धः, न ग्रहिणेति दर्शयति ॥
Nyaas¶
आदिशेः इति। दिश अतिसर्जने (धातुपाठः-1283)), आङ्पूर्वः॥
Prakriyasarvasvam¶
नामादेशमाचष्टे । नामग्राहमाह्वयति । नामान्यादेशम् ॥
Sutra Prayogas¶
नामग्राहम् (शिशुपालवधम्): नान्या दिशिग्रहोः इति णमुल् प्रत्ययः।
नाम-ग्रामम (भट्टिकाव्यम्): नाम्न्यादिशिग्रहो: इति णमुल्।
नाम-ग्राहं (भट्टिकाव्यम्): नान्या दिशि - ग्रहो: इति णमुल्।