34057: अस्यतितृषोः क्रियाऽन्तरे कालेषु

Padacheda: अस्यति-तृषोः | S | 6 | 2 |

क्रियान्तरे | S | 7 | 1 |

कालेषु | S | 7 | 3 |

Sutrartha


Vasu English Summary

The affix णमुल् comes after the verbs 1. अस् ‘to throw’ 2. तृष् ‘to be thirsty’ when it is intended to express an intermission of the action denoted by the root, provided that a word in the Accusative -2nd case denoting time is in composition.

Vasu English Translation

The affix णमुल् comes after the verbs 1. अस् ‘to throw’ 2. तृष् ‘to be thirsty’ when it is intended to express an intermission of the action denoted by the root, provided that a word in the Accusative -2nd case denoting time is in composition. The word क्रियान्तर means ‘the interval between two actions’. Thus द्व्यहात्यासं or द्व्यहमत्यासम्म् गाः पाययति ‘he gives drink to the cows, after an interval of two days, i. e every third day’. So also द्व्यहतर्षं or द्व्यहं तर्षं गाः पाययति ‘having kept the cows thirsty for two days, he makes them drink’. That is to say, ‘having given them a drink today, he gives them another drink after an interval of two days’; &c.

Why do we say ‘after the verbs अस् and तृष्’? Because the affix णमुल् will not be applied after other roots, though the sense be that of interval of time. Thus द्व्यहमुपोष्य भुङ्क्ते ‘having fasted for two days, he eats’.

Why do we say ‘when denoting an intermission of action’? Observe अहरत्यस्येषून् गतः; here there is no intermission in the action of ‘going’.

Why do we say ‘denoting time’ ? Observe योजनमत्यस्य गाः पाययति ‘allowing an interval of four miles to pass, he gives drink to the cows i. e. he waters the cows at every four miles’. Here the interval is that of ‘space’ and not of ‘time’, and hence the affix is ल्यप् and not णमुल् ।

Kashika

द्वितीयायामित्येव। क्रियामन्तरयति क्रियान्तरः, क्रियाव्यवधायकः। क्रियान्तरे धात्वर्थे वर्तमानाभ्यामस्यतितृषिभ्यां द्वितीयान्तेषु कालवाचिषूपपदेषु णमुल् प्रत्ययो भवति। द्व्यहात्यासं गाः पाययति। द्व्यहमत्यासं गाः पाययति। त्र्यहात्यासं गाः पाययति। त्र्यहमत्यासं गाः पाययति। द्व्यहतर्षं गाः पाययति। द्व्यहं तर्षं गाः पाययति। अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते विच्छिद्यते। अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः। अस्यतितृषोरिति किम्? द्व्यहमुपोष्य भुङ्क्ते। क्रियान्तर इति किम्? अहरत्यस्येषून् गतः। न गतिर्व्यवधीयते। कालेष्विति किम्? योजनमत्यस्य गाः पाययति। अध्वकर्मकमत्यसनं व्यवधायकम्, न कालकर्मकम्॥

Siddhanta Kaumudi

क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥

Padamanjari

ठसु क्षेपणेऽ,’ञितृषा पिपासायाम्’ । क्रियामन्तरयतीति क्रियान्तर इति । व्यवधानवाचिनोऽन्तरशब्दातत्करोतीति णिचि’कर्मण्यण्’ । पाययतीति । पिबतेर्णिचि’शाच्छासाह्वा’ इत्यादिना युक् । अत्यसनेनेत्यादि । यच्चाद्य पानं यच्च द्व्यहे गते भविता, तन्मध्यवर्तित्वादत्यसनतर्षणयोः, एतदेव स्पष्टयन्नुदाहरणस्यार्थमाह - अद्य पाययित्वेत्यादि । द्व्यहमुपोष्येति । उपपूर्वाद्वसेः क्त्वा ल्यप्, यजादित्वात्सम्प्रसारणम्,’शासिवसिघसीनां च’ इति षत्वम्, अत्रोपवासेन भोजनं व्यवधीयते । अहरिति ।’कालाध्वनोः’ इति द्वितीया । कृत्स्नमहरिषूनत्यस्य क्षिप्त्वा गत इत्यर्थः । योजनमत्यस्येति । क्वचित्स्रुघ्नादौ पाययित्वा तता योजनमतिक्रम्य पाययतीत्यर्थः ॥

Nyaas

अस्यतितृषोः`इति। `असु क्षेपणे (धातुपाठः-1209), ञितृषा पिपासायाम्` (धातुपाठः-1228)। क्रियामन्तरयति इत्यादि। अन्तरं करोतीति तत्करोति`(वा।200) इत्यादिना णिच्। `क्रियामन्तरयति क्रियान्तरः (इति) कर्मण्यण्, णिलोपः।अन्तरशब्दश्चायमिह व्यवधाने वर्तत इति दर्शयन्नाह - क्रियाव्यवधायकः`इति। `पाययति`इति। `पा पाने (धातुपाठः-925), णिच्। शाच्छा (7.3.37) इत्यादिना युक्। अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते इति। यच्चायं पानं यच्च द्व्यहेऽतीते पानं भविता तन्मध्यवर्तित्वाद्तयसननतर्षणयोः। अद्य पाययित्वा इत्यादिना द्व्यहात्यासं गाः पाययतीत्यस्यार्थमाचष्टे। एतदनुसारेणान्यस्याप्यर्थो गम्यत इतिन व्याख्यातः।द्व्यहमुपोध्य`इति। `वस निवासे`(धातुपाठः-1942), वच्यादिना (6.1.15) सम्प्रसारणम्, क्त्वो ल्यबादेशः `शासिवसिघसीनाञ्च (8.3.60) इति षत्वम्। अत्रोपवसने भुजिक्रियाव्यवधायके वसिर्वर्तते। अत्र अस्यतितृषोः`इति यदि नोच्येत तदेहापि स्यात्। `न गतिव्र्यवधीयते इति। यथा मलोदाहरणेऽत्यसनेन तर्षणेन च मध्यवर्त्तिना पानक्रिया व्यवधीयते, न तथेह गतिः। तत्र चाहञ्छब्दातृ कालाध्वनोरत्यन्तसंयोगे (2.3.5) इति द्वितीया। सकलस्याह्न इष्वत्यसनेन व्याप्तत्वादिषुशब्दात् कर्मण्येव। योजनमत्यस्य गाः पाययति इति। अत्राध्ववाच्युपपदम्। क्वचित् रुआउध्नादौ पाययित्वा योजनमतिक्रम्य पाययतीत्यर्थः। अध्वकर्मकम्, `न कालकर्मकम्िति द्वावपि बहुव्रीही॥

Prakriyasarvasvam

द्वितीयान्ते काल उपपदे क्रियाव्यवधानार्थादसेस्तृषेश्च णमुल् । मासात्यासं भुङ्क्ते । द्व्यहतर्षं पिबति पाययति वा । मासमत्यासं द्व्यहं तर्षमित्यपि ।