34044: ऊर्ध्वे शुषिपूरोः

Padacheda: ऊर्ध्वे | S | 7 | 1 |

शुषि-पूरोः | S | 6 | 2 |

Sutrartha


Vasu English Summary

The affix णमुल् comes after the roots शुष् ‘to dry’ and पूर् ‘to fill’ when the word ऊर्ध्व denoting an agent is in composition with them.

Vasu English Translation

The affix णमुल् comes after the roots शुष् ‘to dry’ and पूर् ‘to fill’ when the word ऊर्ध्व denoting an agent is in composition with them. Thus ऊर्ध्वशोषं शुष्यति वृक्षः = ऊर्ध्वे शुष्यति ‘the tree is dried up while it is still standing’. Compare यद्वोर्ध्वशोषतृणवद्विशुष्कः ‘or wither like the up-heaved grass drying up’ (Bhatti. III.14); ऊर्ध्वपूरं पूर्यते ‘is filled full to the brim’. Rule (3.4.46) applies here also.

Kashika

कर्तृग्रहणमनुवर्तते। ऊर्ध्वशब्दे कर्तृवाचिन्युपपदे शुषिपूरोर्धात्वोर्णमुल् प्रत्ययो भवति। ऊर्ध्वशोषं शुष्यति। ऊर्ध्वं शुष्यतीत्यर्थः। ऊर्ध्वपूरं पूर्यते। ऊर्ध्वं पूर्यत इत्यर्थः॥

Siddhanta Kaumudi

ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥

Padamanjari

ऊर्ध्वशोषं शुष्यतीति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वः पूर्यत इत्यर्थ इति । ऊर्ध्वमुख एव सन् घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥

Nyaas

ऊध्र्वं पूर्यते इति। ऊध्र्वं पूरितो भवतीत्यर्थः। अनुदात्तेत्त्वादात्मनेपदम्, दिवादित्वच्छ्यन्॥घृतनिधायम् इति। पूर्ववद् युक्॥

Prakriyasarvasvam

कर्तर्यूर्ध्वशब्दे पूर्वेऽनयोर्णमुल् ।। ऊर्ध्वः सन् शुष्यतीत्यूर्ध्वशोषं शुष्यति पादपः । ऊर्ध्वः सन् पूर्यते कुम्भ ऊर्ध्वपूरं प्रपूर्यते ।। १७९ ।। पूरेः श्यनि रूपम् ।।

Sutra Prayogas

  • ऊर्ध्व-शोषं (भट्टिकाव्यम्): ऊर्ध्वे शुपि- इत्यादिना णमुल्।

  • ऊर्ध्व-शोषं (भट्टिकाव्यम्): ऊर्ध्वं शुपि इति णमुल्।