34044: ऊर्ध्वे शुषिपूरोः ======================== **Padacheda:** ऊर्ध्वे | S | 7 | 1 | शुषि-पूरोः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The affix णमुल् comes after the roots शुष् 'to dry' and पूर् 'to fill' when the word ऊर्ध्व denoting an agent is in composition with them. Vasu English Translation ------------------------ The affix णमुल् comes after the roots शुष् 'to dry' and पूर् 'to fill' when the word ऊर्ध्व denoting an agent is in composition with them. Thus ऊर्ध्वशोषं शुष्यति वृक्षः = ऊर्ध्वे शुष्यति 'the tree is dried up while it is still standing'. Compare यद्वोर्ध्वशोषतृणवद्विशुष्कः 'or wither like the up-heaved grass drying up' (*Bhatti*. III.14); ऊर्ध्वपूरं पूर्यते 'is filled full to the brim'. Rule (3.4.46) applies here also. Kashika ------- कर्तृग्रहणमनुवर्तते। ऊर्ध्वशब्दे कर्तृवाचिन्युपपदे शुषिपूरोर्धात्वोर्णमुल् प्रत्ययो भवति। ऊर्ध्वशोषं शुष्यति। ऊर्ध्वं शुष्यतीत्यर्थः। ऊर्ध्वपूरं पूर्यते। ऊर्ध्वं पूर्यत इत्यर्थः॥ Siddhanta Kaumudi ----------------- ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ Padamanjari ----------- ऊर्ध्वशोषं शुष्यतीति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वः पूर्यत इत्यर्थ इति । ऊर्ध्वमुख एव सन् घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥ Nyaas ----- `ऊध्र्वं पूर्यते` इति। ऊध्र्वं पूरितो भवतीत्यर्थः। अनुदात्तेत्त्वादात्मनेपदम्, दिवादित्वच्छ्यन्॥`घृतनिधायम्` इति। पूर्ववद् युक्॥ Prakriyasarvasvam ----------------- कर्तर्यूर्ध्वशब्दे पूर्वेऽनयोर्णमुल् ।। ऊर्ध्वः सन् शुष्यतीत्यूर्ध्वशोषं शुष्यति पादपः । ऊर्ध्वः सन् पूर्यते कुम्भ ऊर्ध्वपूरं प्रपूर्यते ।। १७९ ।। पूरेः श्यनि रूपम् ।। Sutra Prayogas -------------- * **ऊर्ध्व-शोषं** (भट्टिकाव्यम्): `ऊर्ध्वे शुपि-` इत्यादिना णमुल्। * **ऊर्ध्व-शोषं** (भट्टिकाव्यम्): `ऊर्ध्वं शुपि` इति णमुल्।