34042: संज्ञायाम्¶
Padacheda: संज्ञायाम् | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after the बन्ध् ‘to bind’ when a word so formed denotes an appellative.
Vasu English Translation¶
The affix णमुल् comes after the बन्ध् ‘to bind’ when a word so formed denotes an appellative. Thus क्रौञ्चबन्धं बध्नाति ‘he binds in the manner called krauncha-bandhan or ‘heron-knot’. मयूरिकाबन्धं बध्नाति or बद्धः ‘he binds or is bound in a ‘peacock-knot’. अट्टालिकाबन्धं बद्धः ‘bound in a knot called attalika-bandhan’.
All the above, krauncha-bandhan &c. are names of various sorts of ‘bonds or knots’. The rule (3.4.46) also applies here.
Kashika¶
संज्ञायां विषये बध्नातेर्धातोर्णमुल् प्रत्ययो भवति। क्रौञ्चबन्धं बध्नाति। मयूरिकाबन्धं बध्नाति। मयूरिकाबन्धं बद्धः। अट्टालिकाबन्धं बद्धः। बन्धविशेषाणां नामधेयान्येतानि॥
Siddhanta Kaumudi¶
बध्नातेर्णमुल् सञ्ज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिका बन्धम् । बन्धाविशेषाणां सञ्ज्ञा एताः ॥
Padamanjari¶
अनधिकरणार्थोऽयमारम्भः, पूर्वयोगस्त्वसंज्ञार्थः । कथं तर्हि ग्रामे बन्ध इति ? वासरूपविधिना घञ् भविष्यति ॥
Prakriyasarvasvam¶
बन्धनाम्न्युपपदे बन्धेर्णमुल् । क्रौञ्चपक्षिवन्धनसदृशो बन्धविशेषः क्रौञ्चौ नाम । तद्रूपेण बध्नाति क्रौञ्चबन्धं बध्नाति । वराहबन्धं बध्नाति ।।