34035: शुष्कचूर्णरूक्षेषु पिषः¶
Padacheda: शुष्क-चूर्ण-रूक्षेषु | S | 7 | 3 |
पिषः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after the verb पिष् ‘to grind’, when the words 1. शुष्क ‘dry’ 2. चूर्ण ‘powder’ 3. रूक्षे ‘dry’, in the Accusative -2nd case are compounded with it.
Vasu English Translation¶
The affix णमुल् comes after the verb पिष् ‘to grind’, when the words 1. शुष्क ‘dry’ 2. चूर्ण ‘powder’ 3. रूक्षे ‘dry’, in the Accusative -2nd case are compounded with it. Thus शुष्कपेषं पिनष्टि = शुष्कं पिनष्टि ‘he grinds it dry’; चूर्णपेषं पिनष्टि ‘he grinds to powder’; रूक्षपेषं पिनष्टि ‘he grinds it dry’. Here also an appropriate verb from the same root पिष् must be used to govern the gerund.
Kashika¶
कर्मणीत्येव। शुष्कादिषु कर्मवाचिषूपपदेषु पिषेर्धातोर्णमुल् प्रत्ययो भवति। शुष्कपेषं पिनष्टि। शुष्कं पिनष्टीत्यर्थः। चूर्णपेषं पिनष्टि। चूर्णं पिनष्टीत्यर्थः। रूक्षपेषं पिनष्टि। रूक्षं पिनष्टीत्यर्थः॥
Siddhanta Kaumudi¶
एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥
Nyaas¶
पिषः इति। पिष्लृ सञ्चूर्णने (धातुपाठः-1452)॥
Prakriyasarvasvam¶
शुष्कं कृत्वा शुष्कमेव वा पिनष्टि शुष्कपेषं पिनष्टि । एवं रूक्षपेषं पिनष्टि । रूक्षं परुषम् । चूर्णीकृतं पुनः पिनष्टि चूर्णपेषं पिनष्टि ॥