34034: निमूलसमूलयोः कषः¶
Padacheda: निमूल-समूलयोः | S | 7 | 2 |
कषः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix णमुल् comes after the verb कष् ‘to rub’ when the words निमूल and समूल are compounded with it in the Accusative -2nd case.
Vasu English Translation¶
The affix णमुल् comes after the verb कष् ‘to rub’ when the words निमूल and समूल are compounded with it in the Accusative -2nd case. Thus निमूलकाषं कषति ‘he scrapes down to the roots’; समूलकाषं कषति ‘he scrapes up to the roots’. In fact, the gerund of the root and the root itself denote the same thing; the whole sentence निमूलकाषङ्कषति being equal to निमूलं कषति. From this sutra up to sutra (3.4.46), the subsequent verb governing the previous word, must be derived from the same root from which the gerund is derived; see sutra (3.4.46).
Kashika¶
कर्मणीत्येव। निमूलसमूलशब्दयोः कर्मवाचिनोरुपपदयोः कषेर्धातोर्णमुल् प्रत्ययो भवति। निमूलकाषं कषति। समूलकाषं कषति। निमूलं समूलं कषतीत्यर्थः। इतः प्रभृति कषादीन् यान् वक्ष्यति, तत्र **कषादिषु यथाविध्यनुप्रयोगः**(३.४.४६) इति॥
Siddhanta Kaumudi¶
कर्मणीत्येव कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसम्बन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥
Tattvabodhini¶
निमूलसमूलयोः कषः - निमूलमिति । नियतं मूलमस्य निमूलम् । सह मूलेन समूलम् । निमूलसमूलकषणाऽभिन्नं कषणमिति शाब्दबोधः । तेनेति । अत्रेदं बोध्यं — सामान्यं विशेष्यं, विशेषस्तु विशेषणम् ।आम्रो वृक्ष॑ इत्यादौ आम्रो विशेषणं, वृक्षस्तु विशेष्यमिति सर्वजनानुभवात् । ततश्चात्र निमूलकषणादिकं विशेषणं, केवलषणं तु विशेष्यमिति ।
Padamanjari¶
अत्र प्रकरणे समानकर्तृकत्वमेव । निमूलकाषमिति । कषतिर्हिसार्थः । एकस्यैव धात्वर्थस्य सामान्यविशेषभावेन भेदे सति विशेषणविशेष्यभावः । निगतं मूलमस्य निमूलम् । सह मूलेन समूलं कषणं करोति, सह मूलेन कर्षतीत्यर्थः । एवं सर्वत्र प्रकरणे द्रष्टव्यम् ॥
Nyaas¶
कषः इति। कष शिष (धातुपाठः-685,687) इति हिंसार्थधातुवर्गे पठते॥
Prakriyasarvasvam¶
अनयोः पूर्वयोः कषेर्णमुल् ॥