33135: नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः¶
Padacheda: न | S | 0 | 0 |
अनद्यतनवत् | S | 0 | 0 |
क्रियाप्रबन्ध-सामीप्ययोः | S | 7 | 2 |
Sutrartha¶
Vasu English Summary¶
When constant continuance of action or a near Past or Future is meant, the Past and Future are not denoted as taught in अनद्यतने लङ् (3.2.111) and अनद्यतने लुट् (3.3.15), through the Imperfect and the II Future, but through the Aorist and the First Future.
Vasu English Translation¶
When constant continuance of action or a near Past or Future is meant, the Past and Future are not denoted as taught in अनद्यतने लङ् (3.2.111) and अनद्यतने लुट् (3.3.15), through the Imperfect and the II Future, but through the Aorist and the First Future. The affixes लङ् (Imperfect Past) and लुट् (First Future), have been ordained to come, when past time not belonging to the current day, and future time not belonging to the current day, are respectively indicated. The present sutra prohibits these two affixes. The word क्रियाप्रबन्धः means ‘performing an action with continuity’; and सामीप्य means ‘not remoteness of time, immediateness, without the intervention of anything of the same genus’. Thus यावज्जीवं भृशमन्नमदात् (not अददात्) ‘he gave food throughout his life’; or भृशमन्नं दास्यति ‘he will give much food’. यावज्जीवं पुत्रोप्यापिपत् ‘throughout his life he taught’, or यावज्जीवमध्यापयिष्यति ‘throughout his life he will teach’. In both these cases the Aorist and the Second Future are used instead of the Imperfect and the First Future.
So also when recent past or immediate future is meant, the Aorist and the Second Future are employed, instead of the Imperfect and the First Future. Thus येयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोग्नीनाधित or सोमेनायष्ठ or गामदित ‘during the full-moon that has just past, the teacher consecrated the fire, or performed the soma-sacrifice or gave a cow’. Here the Aorist is for the Imperfect. येयममावास्याऽऽगामिनी, एतस्यामुपाध्यायोग्नीनाधास्यते or सोमेन यक्ष्यते, or स गां दास्यते ‘on the next new-moon day, the teacher will perform the fire-sacrifice or the soma-sacrifice, or he will give a cow’. Here the Second Future is employed instead of the First Future.
The double negative न अनद्यतन ‘not non-today’ implies the proper corresponding tenses which indicate adyatana.
Bhashya¶
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः (1119) (574 लङ्लुटोर्निषेधविधिसूत्रम् ॥ 3 । 3 । 2 आ.4) (आक्षेपभाष्यम्) किमर्थमिमौ द्वौ प्रतिषेधावुच्येते। न अद्यतनवत् इत्येवोच्येत। (4095 समाधानवार्तिकम् ॥ 1 ॥) - नानद्यतनवत्प्रतिषेधे लङ्लुटोः प्रतिषेधः- (भाष्यम्) नानद्यतनवत् प्रतिषेधे लङ्लुटोः प्रतिषेधो द्रष्ठव्यः। (4096 हेतुवार्तिकम् ॥ 2 ॥) - अद्यतनवद्वचने हि विधानम्- (भाष्यम्) अद्यतनवद्वचने हि सति विधानमिदं विज्ञायेत ॥ तत्र को दोषः? (4097 दोषदर्शकवार्तिकम् ॥ 3 ॥) - तत्र लडि्वधिप्रसङ्गः- (भाष्यम्) तत्र लडि्वधिः प्रसज्येत ॥ (4098 दोषान्तरवार्तिकम् ॥ 4 ॥) - लुङ्लृटोश्चायाथाकालम्- (भाष्यम्) लुङ्लृटोश्चायथाकालं प्रयोगः प्रसज्येत। लुङोपि विषये लृट् स्यात्। लृटश्च विषये लुङ् यथा स्यात्। अद्य पुनरयं द्वौ प्रतिषेधावुक्त्वा तूष्णीमास्ते। यथाप्राप्तमेवाद्यतने भविष्यति ॥ नानद्यतन ॥ 135 ॥
Kashika¶
भूतानद्यतने भविष्यदनद्यतने च लङ्लुटौ विहितौ, तयोरयं प्रतिषेधः। अनद्यतनवत् प्रत्ययविधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने। क्रियाणां प्रबन्धः सातत्येनानुष्ठानम्। कालानां सामीप्यं तुल्यजातीयेनाव्यवधानम्। यावज्जीवं भृशमन्नमदात्। भृशमन्नं दास्यति। यावज्जीवं युक्तोऽध्यापिपत्। यावज्जीवमध्यापयिष्यति। सामीप्ये खल्वपियेयं पौर्णमास्यतिक्रान्ता, एतस्यामुपाध्यायोऽग्नीनाधित, सोमेनायष्ट, गामदित। येयममावास्यागामिनी एतस्यामुपाध्यायोऽग्नीनाधास्यते, सोमेन यक्ष्यते, स गां दास्यते। द्वौ प्रतिषेधौ यथाप्राप्तस्याभ्यनुज्ञापनाय॥
Siddhanta Kaumudi¶
क्रियायाः सातत्ये सामीप्ये च गम्ये लङ् लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनयाष्ट । येयममावस्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥
Balamanorama¶
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः - भविष्यति मर्यादा ।अवरस्मि॑न्निति च्छेदः । अनद्यतनवन्नेति । लुण्नेत्यर्थः ।अक्रियाप्रबन्धार्थ॑मिति भाष्यम् ।असामीप्यार्थं चे॑ति कैयटः । योऽयमिति । कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना । अत्र कौशाम्ब्या इति मर्यादा गम्यते ।अवर॑मित्यनेन अवरत्वं गम्यते । अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः । कालविभागे । पूर्वसूत्रमिति ।भविष्यति मर्यादावचनेऽवरस्मि॑न्निति सूत्रमित्यर्थः । ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह — अहोरात्रेति । तथा च आहोरात्रसंबन्धिनि प्रविभागेभविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः । ननुभविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह — योगविभाग उत्तरार्थ इति । इदमुत्तरसूत्रे स्पष्टीभविष्यति । योऽयं वत्सर आगामीति । कालतो मर्यादायामुदाहरणम् । आग्रहायण्या इति । मार्गशीर्षपौर्णमास्या इत्यर्थः । युक्ता इति । नियमयुक्ता इत्यर्थः । अध्येष्यामहे इति । अत्र न लुट्, किंतु लृडेवेति भावः । पञ्चदशरात्रयुक्ता इति । पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः ।अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः । यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः ।अहःसर्वैकदेशे॑त्यच्समासान्तः ।सङ्ख्यापूर्वंरात्रं क्लीब॑मिति तुलिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये॑ति वचनान्न भवति ।
Tattvabodhini¶
नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः - नानद्यतन । भूतानद्यतने लङ्विहितो, भविष्यत्यनद्यतने तु लुट्, तौ चानयोरर्थयोर्निषिध्येते । तदाह — लङ्लुटौ नेति । एवं च भूते लुङ्, भविष्यति तु लृडित्याशयेनोदाहरति — अन्नमदात्, दास्यतीत्यादि । अग्नीनिति । आहवनीयादीन् ।
Padamanjari¶
कालानां सामीप्यमिति ।’वर्तमानसामीप्ये’ इत्यारभ्य कालप्रायत्वादस्य प्रकरणस्य सामान्येनोक्तावपि कालसम्बन्धिन एव सामीप्यस्याश्रयणमिति भावः । लुल्यजातीयेनेति । तत्रैव लोके सामीप्यव्यवहारादिति भावः । अदादिति ।’गातिस्था’ इत्यादिना सिचो लुक् । अध्यापिपदिति । इङे णिच्,’क्रीङ्जीनां णौ’ इत्यात्वम्, ठर्तिह्रीऽ इत्यादिना पुक्, लुङ् चिङ् ठिजादेर्द्वितीयस्यऽ इति पिशब्दस्य द्विर्वचनम्, णिलोपः । येयं पौर्णमास्यतिक्रान्तेति । पोर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी तामधिकृत्येदमुच्यते । सापि यद्यप्यमावास्ययान्याभिश्च तिथिभिर्व्यवहिता; तथापि तुल्यजातीयेन पोर्णमास्याख्येनाव्यहितत्वात्समीप्यं नातिवर्तते । आधितेति । दधातेराङ्पूर्वस्य’स्थाघ्वोरिच्च’ इतीत्वम्,’ह्रस्वादङ्गात्’ इति सिचो लोपः । अयष्टेति ।’झलो झलि’ इति सिचो लोपः, व्रश्चादिसूत्रेण षत्वम् । अदितेति । ददाते रूपं पूर्ववत् । यक्ष्यते इति । व्रश्चादिषत्वे’षढोः कः सि’ इति कत्वम्, सर्वत्र’स्वरितञितः’ इत्यात्मनेपदम् । इह क्रियाप्रबन्धसामीप्ययोरद्यतनप्रत्ययौ लुङ्लृटौ इष्येते, नानद्यतनप्रत्ययौ लङ्लृटौ, तौ च लुङ्लृटौ ठद्तनवत् क्रियाप्रबन्धसामीप्ययोःऽ इत्यच्यमानेऽपि सिद्ध्यत एव, किमर्थं द्वौ प्रतिषेधावुच्येते ? इत्यत आह - द्वौ प्रतिषेधाविति । यथाप्राप्तस्येति । यथा येन प्रकारेण प्राप्तं प्राप्तिर्यस्येति बहुव्रीहिः । अव्ययीभावे त्वम्भावः स्यात् । इहाद्यतनवचने सति विधानमिदं विज्ञायते, तत्र लड्विधिप्रसङ्गे पूर्वविधाने ह्यद्यतनसंशब्दनेन विहितस्य कस्यचित्प्रत्ययस्याभावादद्यतने दृष्टस्यातिदेशः, लट् चाप्यद्यतने दृष्टस्तेन तस्यापि भूतभविष्यतोः प्रसङ्गः, लुङ्लृटोश्चायथाकालं विधिः प्रसज्येत - लुङे विषये लृट्, लृटश्च विषये लुङ् । ननु च वत्करणात्सादृश्यार्थात्सङ्करो न भविष्यति ? नैतदस्ति; इह लुङ्लृटौ भूतभविष्यतोरद्यतने च दृष्टौ, तत्राद्यतनवदित्युच्यमाने तस्मिन्नेवाद्यतने तयोरतिदेशोऽनथक इति कश्चिदंशो हातव्यः । तत्राद्यतनांशत्यागेनातिदेशे विज्ञायमाने भूतानद्यतने लुङ्, भविष्यदनद्यतने लृडिति सिद्धम् । यदा तु भूतभविष्यदशपरित्यागेनातिदेशः; तदा भूताद्यतने दृष्टस्य भविष्यदद्यतने, भविष्यदनद्यतने च दृष्टस्य भूताद्यतने विधानमिति सङ्करः स्यादेव, लट् चोभयत्र प्रसज्येत । वत्करणंतु यस्माद्धातोर्यस्मिन्नुपाधौ यः प्रत्ययो विहितः स तस्मादेव तस्मिन्नुपाधावेव यथा स्यादित्येवमर्थं स्यात् । तेन -‘पूङ्यजोः शानन्’ इत्यादौ कालव्यत्यास एव भवति, न धात्वादिव्यत्यासः । यदि पुनरयं द्वौ प्रतिषेधौ कृत्वा तूष्णीमास्ते, स्वैरेव विधायकैर्लडादय उत्सर्गाः स्वेषु स्वेषु कालेषु अपवादविनिर्मुक्तेषु भवन्तीति न सङ्करप्रसङ्गः । अतो यथाप्राप्तस्याभ्यनुज्ञानान्नायं वतिः; किं तर्हि ? मतुप् - अनद्यतनमस्यास्तीत्यनद्यतनवत्, सामान्यविवक्ष्यां नपुंसकत्वम् । अनद्यतनवत्प्रत्ययविधिर्न भवतीति । अस्याप्यनद्यतनवांश्चासौ प्रत्ययश्च तस्य विधिरित्यर्थ इति सर्वथा यदनद्यतने विहितं तत्सर्वं न भवति । वतौ’लङ्लुटौ विहितौ तयोः प्रतिषेधः’ इत्युपलक्षणम् ॥
Nyaas¶
कालानां सामीप्यम्ित्येनन कालसम्ब्धि सामीप्यमिहाश्रीयत इति दर्शयति। कुतः पुनः सामान्योक्तेन कालसम्बन्धिन एव सामीप्यस्य ग्रहणं लभ्यते? वर्तमानसामीप्य इत्यत आरभ्य प्रायिकत्वादस्य प्रकरणस्य। एतदपि कुतः? वर्तमानादिशब्दानां कालशब्दत्वात्। अपि च लङलुटोः प्रतिषेधः, तौ च कालविहितौ। अतो यत्र हि तौ, तत्र तत्सम्बन्धेनैव कालसामीप्यमिहाश्रीयत इति विज्ञायते। तत्पुनः कीदृशमित्याह - `तुल्यजातीयेन`इत्यादि। तुल्यजातीयग्रहणं भिन्नजातीयनिवृत्त्यर्थम्। कालमात्रेण व्यवधानेन गृह्रमाणे येयं पौर्णमास्यतिक्रान्ता तस्यामुपाध्यायोऽग्नीनाधितेत्येवमादावुदाहरणे सामीप्यं न स्यात्; अमावास्यया अन्याभिश्च तिथिभ्यव्र्यवधानात्। तस्मात् समानजातीयेनाव्यवधानमश्रीयते। `अदात् इति। गातिस्था (2.4.77) इत्यादिना सिचो लुक्। अध्यापिपत् इति। हेतुमति च (3.1.26) इति णिच्। क्रीङ्जीनां णौ (6.1.48) इत्यात्त्वम्, अर्त्तिह्यी (7.3.36) इत्यादिना पुक्, लुङ, च्लेः णि श्री (3.1.48) इत्यादिना चङ, अजादेर्द्वितीयस्य (6.1.2) इति पीत्येतस्य द्विर्वचनम्, आडजादीनाम् (6.4.72) इत्याट्, आटश्च (6.1.87) इति वृद्धिः, णिचो लोपः।येयं पौर्णमास्यतिक्रान्ता इति। पौर्णमास्यन्तरेणाव्यवहिता या पौर्णमासी, तामधिकृत्येदमाह। सा हि यद्यप्यमावास्यया अन्याभिश्च तिथिभिव्र्यवहिता, तथापि तुल्यजातीयेन पौर्णमास्याख्येन कालेनाव्यवहितत्वात् सामीप्यं नातिवर्तते। अग्नीनाधित इति। दधातेराङपूर्वस्य स्थाघ्वोरिच्च (1.2.17) इतीत्त्वम्, सिचश्च कित्वम्, ह्रस्वादङ्गात् (8.2.27) इति सिचो लोपः। अदित`इति। ददाते रूपम्। पूर्ववत्। `यक्ष्यते`इति।यजेर्ललृट्, स्यः, तस्मिन् परस्तथा षष्वे कृते **षढोः कः सि** (8.2.41) इति कत्वम्। `आधित इत्यादौ सर्वत्र स्वरितञितः (1.3.72) इत्यादिनाऽऽत्मनेपदम्। किमर्थं प्रतिषेधद्व्यमुच्यते, नाद्यतनवत् क्रियाप्रबन्धसामीप्ययोः`इत्येवोच्येत? क्रियाप्रबन्धसामीप्ययोह्र्रद्यतनप्रत्ययौ लुङलृटाविष्येते, नानद्यतनप्रत्ययौ लङलृटौ। तौ च लङलुटावेवमुच्यमाने सिध्यत एवेत्यत आह - `द्वौ प्रतिषेधौ इत्यादि। एवं मन्यते - यदि नाद्यनवत् क्रियाप्रबन्धसामीप्ययोः`इत्येवोच्येत तदैतदेवं सूत्रं विधायकं स्यात्, ततश्च सङ्करः प्रसज्येत - लुङोऽपि विषये लृट्, लृटश्च विषये लुङ। न ह्यत्रायं विशेष उपादीयते। भूते लुङ भविष्यति लृडिति प्रतिषेधविषय उच्यमाने नायं दोषः, ततो नानेन किञ्चिद्विधीयते, केवलमनद्यतनप्रत्ययानां प्रतिषेधः क्रियते, तेषु प्रतिषिद्धेषु स्वैरेव वाक्यैर्विधायकैर्लुङादय उत्सर्गाः स्वे स्वेकालेऽपवादविनिर्मुक्ते भवन्ति। अतो यथाप्राप्ताभ्यनुज्ञापनाय प्रतिषेधद्वयमुच्यते॥बाल-मनोरमानाऽनद्यतनवत्क्रियाप्रबन्धसामीप्ययोः 617, 3.3.135 नाऽनद्यतनवत्। क्रियायाः प्रबन्धः = सातत्यम्। तदाह - क्रियायाः सातत्ये इति। अनद्यतनबदित्यनेन अनद्यने भूते भविष्यति च विहितौ लङ्लुटौ विवक्षितौ। तदाह - लङ्लुटौ नेति। अनद्यतने भूते लङ् न भवति, भविष्यत्यनद्यतने तु लुग्नेत्यर्थ-। क्रियासातत्ये लङ्निषेधमुदाहरति - यावज्जीवमन्नमदादिति। लुङि `गातिस्थे ति सिचो लुक्। सामीप्ये उदाहरिष्यन्नाह - सामीप्यमिति। येयमिति। पोर्णमास्या उपरि कृष्णपक्षे कतपयाहोरात्रे व्यवधानेऽपि सामीप्यमस्त्येव, पौर्णमास्यन्तरेण सजातीयेन व्यवधानाऽभावात्। आधितेति। धाधातोर्लुङि `स्थाध्वोरिच्चे`ति धाधातोरित्त्वं, सिचः कित्त्वं च `ह्रस्वादङ्गा`दिति सिचो लोपः। सोमेनायष्टेति। `येयं पौर्णमास्यतिक्रान्ता तस्या`मित्यनुषज्यते। अथ क्रियासातत्ये लुटो निषेधमुदाहरति - येयममावास्येति। सोमेन यक्ष्यते इति। `येयममावास्या आगामिनी तस्या`मित्यनुषज्यते। बाल-मनोरमाभविष्यति मर्यादावचनेऽवरस्मिन् 618, 3.3.135 भविष्यति मर्यादा। `अवरस्मि`न्निति च्छेदः। अनद्यतनवन्नेति। लुण्नेत्यर्थः। `अक्रियाप्रबन्धार्थ`मिति भाष्यम्। `असामीप्यार्थं चे`ति कैयटः। योऽयमिति। कस्मश्चिज्जनपदविशेषे वसतः आपाटलिपुत्राद्योऽयं गन्तव्योऽध्वा तस्य अध्वनो मध्यवर्तिन्याः कौशाम्ब्याः यदवरं पूर्वप्रदेशस्तत्र सक्तून् आः प्रभृति पास्याम इति योजना। अत्र कौशाम्ब्या इति मर्यादा गम्यते। `अवर`मित्यनेन अवरत्वं गम्यते। अत्र भविष्यत्यद्यतेन लुण्न, किंतु लृडेवेति भावः। कालविभागे। पूर्वसूत्रमिति। `भविष्यति मर्यादावचनेऽवरस्मि`न्निति सूत्रमित्यर्थः। ननु कालमर्यादायामपि पूर्वसूत्रेणैव सिद्धमित्यताअह - अहोरात्रेति। तथा च आहोरात्रसंबन्धिनि प्रविभागे `भविष्यति मर्यादावचने इत्युक्तविधिर्न भवतीत्यर्थः। ननु `भविष्यति मर्यादावचनेऽवरस्मिन्कालविभागे चानहोरात्राणामित्येकमेव सूत्रं कुतो नेत्यत आह - योगविभाग उत्तरार्थ इति। इदमुत्तरसूत्रे स्पष्टीभविष्यति। योऽयं वत्सर आगामीति। कालतो मर्यादायामुदाहरणम्। आग्रहायण्या इति। मार्गशीर्षपौर्णमास्या इत्यर्थः। युक्ता इति। नियमयुक्ता इत्यर्थः। अध्येष्यामहे इति। अत्र न लुट्, किंतु लृडेवेति भावः। पञ्चदशरात्रयुक्ता इति। पञ्चदश रात्रयो यस्य पक्षस्येति बहुव्रीहिः। `अच्प्रत्यन्ववपूर्वादित्यत्र अजिति योगविभागादच्समासान्तः। यद्वापञ्चदशानां रात्रीणां समाहारः पञ्चदशरात्रः। `अहःसर्वैकदेशे`त्यच्समासान्तः। `सङ्ख्यापूर्वंरात्रं क्लीब`मिति तु `लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्ये`ति वचनान्न भवति।
Prakriyasarvasvam¶
क्रियासातत्ये सामीप्ये च द्योत्येऽनद्यतनोक्ता लङ्लिटौ लुट् च न स्युः । यावज्जीवमन्नमदात् । यावज्जीवमन्नं दास्यति । सामीप्ये गतायामष्टम्यां कृष्णमार्चिचम् । आगामिन्यामष्टम्या२मर्चयिष्यामि । अष्टम्यन्तरेणाव्यवधानात् सामीप्यम् ।
Sutra Prayogas¶
गमिष्यामि (भट्टिकाव्यम्): नानद्यतनवत् क्रियाप्रबन्धसामीप्ययोः इति भविष्यतिमर्यादावचनेऽवरस्मिन् इत्यनुवर्तते।