33134: आशंसावचने लिङ्

Padacheda: आशंसावचने | S | 7 | 1 |

लिङ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix of the Potential is used in denoting Futurity after a root, when the उपपद in composition with it is a word expressing ‘hope’.

Vasu English Translation

The affix of the Potential is used in denoting Futurity after a root, when the उपपद in composition with it is a word expressing ‘hope’. This is also an apavada of rule (3.3.132), and teaches the employment of the Potential with a future force. Thus उपाध्यायश्चेदागच्छेद्, आशंसेयुक्तोऽधीयीय ‘if the teacher will come, I hope, you will study with diligence’. This being a subsequent rule, will apply even when the words expressive of ‘quickness’ are in composition. Thus आशंसे क्षिप्रमधीयीय ‘I hope, you will learn soon’. So also, अवकल्पये युक्तोऽधीयीय, &c.

Kashika

आशंसा येनोच्यते तदाशंसावचनम्, तस्मिन्नुपपदे धातोर्लिङ् प्रत्ययो भवति। भूतवच्चेत्यस्यायमपवादः। उपाध्यायश्चेदागच्छेत्, आशंसे युक्तोऽधीयीय। आशंसेऽवकल्पये युक्तोऽधीयीय। आशंसे क्षिप्रमधीयीय॥

Siddhanta Kaumudi

आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥

Balamanorama

आशंसावचने लिङ् - #आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद्भविष्यतीति लभ्यत इति मत्वाह — भविष्यतीति ।आशंसायां भूतवच्चे॑त्यस्यापवादः । तदाह — नतु भूतवदिति । गुरुश्चेदिति । गुरुरुपेयाच्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिङेव, नतु लृडिति भावः ।

Tattvabodhini

आशंसावचने लिङ् - आशंसावचने । भूतवद्वर्तमानवत्प्रत्ययोरपवादः । न भूतवदिति । न वर्तमानवदित्यपि बोध्यम् । आशंसेऽधीयीयेति । एवं प्रार्थये अधीयीय,इच्छामो वयवमधीयीमहीत्यादि ज्ञेयम् । क्षिप्रमिति । क्षिप्रयोगेऽपि परत्वाल्लिङिति भावः ।

Padamanjari

अधीयीयेति । इङे लिङ्ः ठिचोऽत्ऽ, सीयुट्, लिङ्ः सलोपः, धातोरियङ्, उपसर्गेण सह सवर्णदीर्घत्वम् । क्षिप्रवचने लृट्, आशंसावचने लिङ् विप्रतिषेधेन । क्षिप्रवचने लृडित्यस्यावकाशः - क्षिप्रमध्येष्यामह इति, आशंसावचने लिङ्त्यिस्यावकाशः - आशंसे युक्तोऽधीयीयेति; इहोभयं प्राप्नोति - आशंसे क्षिप्रमधीयीयेति, लिङ् भवति विप्रतिषेधेन । तदेतदुदाहरणे दर्शयति - आशंसे क्षिप्रमधीयीयेति ॥

Nyaas

आशंसे युक्तोऽधीयीय इति।इङः लिङः सीयुट, उत्तमपुरुषैकवचनम्, इट्, इटोऽत् (3.4.106) इत्यद्भावः सार्वधातुकमपित् (1.2.4) इति ङित्त्वाद्गुणाभावः, लिङ सलोपोऽनन्तस्य (7.2.79) इति सकारलोपः, धातोरियङ्, उपसर्गेण सह अकः सवर्णे दीर्घः (6.1.101) । `आशंसे क्षिप्रमधीयीय`इति। अत्र यद्यपि क्षिप्रवचनमुपपदमाशंसावचनमपि, तथापि परत्वाल्लिङेव भवति, न लृट। तस्य तु यत्राशंसावचनमुपपदं नास्ति सोऽवकाशः - `क्षिप्रमध्येषामहे`इति॥

Prakriyasarvasvam

आशंसार्थ उपपदे भविष्यति लिङेव । कामयेऽहं कृष्णं पश्येयम् ।