33131: वर्तमानसामीप्ये वर्तमानवद्वा¶
Padacheda: वर्तमानसामीप्ये | S | 7 | 1 |
वर्तमानवत् | S | 0 | 0 |
वा | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affixes which are used when the sense is that of present time, may, optionally in like manner, be used when the sense is that of past or future time not remote from the present.
Vasu English Translation¶
The affixes which are used when the sense is that of present time, may, optionally in like manner, be used when the sense is that of past or future time not remote from the present. The words समीप and सामीप्य are the words with the same signification, the latter being derived from the first by adding the affix ष्यङ्. This affix is added with a self-descriptive force, without making any modification in the meaning. We learn thus incidentally from Panini’s using the word सामीप्य, that the affix ष्यङ् also comes with a self -descriptive (svartha) force, and the words चातुर्वर्ण्यः &c. are thus formed.
The affixes which begin with sutra (3.2.123) (वर्तमाने लट्) and end with (III.3. I) (उणादय बहुलं,) are affixes which come in denoting the present time. These affixes come also with the force of the past or future time, when the sense is that the action has just taken place, or will immediately take place. Thus, to the question कदा देवदत्ताऽगतोसि ‘when didst thou come Devadatta’, it may, be replied, either अयमागच्छामि ‘I come now’, or आगच्छन्तमेव मां विद्धि ‘know me even to have come’; or अयमागमम् ‘I have now come’; or एषोस्म्यागतः ‘I have come now’. So also to the question कदा देवदत्त गमिष्यसि ‘when will you go Devadatta’, it may be replied, either एष गच्छामि ‘I go now’ or गच्छन्तमेव मां विद्धि or एष गमिष्यामि or गन्तास्मि &c.
The phrase ‘in like manner’ (वत्) has been employed to indicate complete resemblance; that is to say, with whatever qualifications, the affixes have been enjoined to denote present time, namely, with whatever bases (प्रकृति), and words in compositions (उपपद), and restrictive significations (उपाधि), certain affixes have been enjoined;-the same affixes under those conditions and those circumstances, only will denote also immediate future and recent past. Thus शानन् by rule (3.2.128) comes after the prakritis पू and यज् in forming present participles; this affix, to denote past and future, must come only after पू and यज्, and so on. Thus पवमानः, यजमानः, अलङ्करिष्णुः (3.2.136) &c.
Why do we say ‘not remote from the present, (सामीप्य)’? This rule will not apply when distant future or distant past is intended to be expressed. As परुद् अगच्छत् पाटलिपुत्रम् ‘he went day before yesterday to Pataliputra’; वर्षेण गमिष्यति ‘he will go in a year’.
One may say that “the word गच्छामि can denote by itself nothing but the present tense, and it is because it occurs in a sentence in connection with other qualifying words, that it is made to denote any other time; and it is a well-known fact that a tense which a sentence as a whole may indicate, has no bearing on the question as to what tense a verb must take, when we are preparing it for taking a grammatical tense; and hence the present sutra is superfluous”. To such we reply that the present sutra and those that follow are not meant for those who know the proper idioms of Sanskrit language; but for those only who do not know this.
Dr. Bohtlingk translates this sutra thus:– ‘Whatever is near to the present time, may be expressed as a present tense’.
Bhashya¶
वर्तमानसामीप्ये वर्तमानवद्वा (1116) तृतीयाध्यास्य तृतीये पादे द्वितीयमाह्निकम्॥ (571 अतिदेशसूत्रम्॥ 3 । 3 । 2 आ.1) (आक्षेपभाष्यम्) वत्करणं किमर्थम्? (आक्षेपपरिहारभाष्यम्) वर्तमानसामीप्ये वर्तमाने वा इतीयत्युच्यमाने-वर्तमाने ये प्रत्यया विहितास्ते वा वर्तमानसामीप्ये धातुमात्रात्स्युः। वत्करणे पुनः क्रियमाणे न दोषो भवति॥ भाष्यम् - यदि च याभ्यः प्रकृतिभ्यो येन विशेषणेन वर्तमाने प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेनैव विशेषणेन वर्तमानसामीप्ये भवन्ति। ततोमी वर्तमानवत्कृताः स्युः। अथ हि प्रकृतिमात्राद्वा स्युः प्रत्ययमात्रं वा स्यात् । नामी वर्तमानवत्कृताः स्युः। (आक्षेपभाष्यम्) इह वर्तमानसामीप्ये वर्तमानवद्वा इति उक्त्वा लडेवोदाह्रियते। यदि पुनर्वा लड्भवतीत्येवोच्येत। (समाधानवार्तिकावतरणभाष्यम्) अत उत्तरं पठति - (4081 समाधानवार्तिकम्॥ 1॥) - वर्तमानसामीप्ये वर्तमानवद्वचनं शत्राद्यर्थम्- (भाष्यम्) वर्तमानसामीप्ये वर्तमानवद्वचनं क्रियते॥ (किं प्रयोजनम्?) शत्राद्यर्थम्। शत्राद्यर्थोयमारम्भः। एषोस्मि पचन्। एषोस्मि पचमान इति॥ (प्रयोजननिरासभाष्यम्) नैतदस्ति प्रयोजनम्। लडादेशौ शतृशानचौ। तत्र वा लड्भवति इत्येव सिद्धम्॥ (प्रयोजनभाष्यम्) यौ तर्ह्यलडादेशौ, एषोस्मि पवमानः एषोस्मि यजमान इति॥ यौ चापि लडादेशौ, तावपि प्रयोजयतः॥ वर्तमानविहितस्य लटः शतृशानचावुच्येते अविशेषविहितश्चायां योगः॥ शत्राद्यर्थमिति खल्वप्युच्यते बहवश्च शत्रादयः। एषोस्मि अलंकरिष्णुः। एषोस्मि प्रजनिष्णुः॥ वर्तमानसा॥ 131॥
Kashika¶
समीपमेव सामीप्यम्। ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्यर्थम्। वर्तमानसमीपे भूते भविष्यति च वर्तमानाद् धातोर्वर्तमानवत् प्रत्यया वा भवन्ति। वर्तमाने लट् (३.२.१२३) इत्यारभ्य यावद् उणादयो बहुलम् (३.३.१) इति वर्तमाने प्रत्यया उक्तः, ते भूतभविष्यतोर्विधीयन्ते। कदा देवदत्तागतोऽसि? अयमागच्छामि। आगच्छन्तमेव मां विद्धि। अयमागमम्। एषोऽस्म्यागतः। कदा देवदत्त गमिष्यसि? एष गच्छामि। गच्छन्तमेव मां विद्धि। एष गमिष्यामि। गन्तास्मि। वत्करणं सर्वसादृश्यार्थम्। येन विशेषणेन वर्तमाने प्रत्यया विहिताः प्रकृत्युपपदादिना तथैवात्र भवन्ति। पवमानः। यजमानः। अलंकरिष्णुः। सामीप्यग्रहणं किम्? विप्रकर्षविवक्षायां मा भूत्। परुदगच्छत् पाटलिपुत्रम्। वर्षेण गमिष्यति। यो मन्यते गच्छामीति पदं वर्तमाने काल एव वर्तते, कालान्तरगतिस्तु वाक्याद् भवति, न च वाक्यगम्यः कालः पदसंस्कारवेलायामुपयुज्यत इति, तादृशं वाक्यार्थप्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते। तथा च श्वः करिष्यति वर्षेण गमिष्यतीति सर्वमुपपद्यते॥
Siddhanta Kaumudi¶
समीपमेव सामीप्यम् । स्वार्थे ष्यञ् ।वर्तमाने लट् (SK2151) इत्यारभ्य उणादयो बहुलं (SK3169) इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥
Laghu Siddhanta Kaumudi¶
वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः। कदागतोऽसि। अयमागच्छामि, अयमागमं वा। कदा गमिष्यसि। एष गच्छामि, गमिष्यामि वा॥
Balamanorama¶
वर्तमानसामीप्ये वर्तमानवद्वा - वर्तमानसामीप्ये । स्वर्थे प्यञिति । अस्मादेव निर्देशाच्चतुर्वर्णादेराकृतिगणत्वाद्वेति भावः । इत्यारभ्येति । तृतीयस्य द्वितीयेवर्तमान ल॑डित्यारभ्य आपादसमाप्तेःउणादयो बहुल॑मिति तृतीयपादादिमसूत्रात्पाग्वर्तमानाधिकारः । तस्मिन्नधिकारे येन विशेषणेन याभ्यः प्रकृतिभ्यो वर्तमाने प्रत्यया वहिताते सर्वे तेनैव विशेषणेन ताभ्यः प्रकृतिभ्यो वर्तमानसमीपकाले भूते भविष्यति च वा भवन्तीत्यर्थः । अत्र भूते भविष्यति चेत्यार्थिकं, तयोरेव वर्तमानसामीप्यसत्त्वात् । कदा आगतोऽसीत्यगतं प्रति प्रश्नः । अयमागच्छामित्युत्तरम् । अव्यवहितपूर्वकाले आगतवानस्मीत्यर्थः । वर्तमानसमीपकाले भूते लट् ।अय॑मित्यनेन आगमनकालीनं प्रस्वेदपरिकरबन्धादियुक्तं रूपं निर्दिश्यते इदानीमागमनं सूचयितुम् । आगममिति । वर्तमानवत्त्वाऽभावे भूते लुङ् । कदा गमिष्यसीति गमनात्प्राक् प्रश्ने, एष गच्छामीत्युत्तम् । अव्यवहितोत्तरकाले गमिष्यामीत्यर्थः । ‘एष’ इति तु अयमितिवद्वयाख्येयः । वर्तमानकालसमीपे भविष्यति लट् । गमिष्यामि वेति । वर्तमानवत्त्वाऽभावे भविष्यति लृट् ।
Tattvabodhini¶
वर्तमानसामीप्ये वर्तमानवद्वा - वर्तमान । स्वर्थे ष्यञिति । अस्मादेव सामीप्य इति निर्देशात्ष्यञि सिद्धेचतुर्वर्णाअदिभ्यः॑ इति वार्तिकं प्रपञ्चार्थमित्याहुः । न चाऽत्रपूरणगुणे॑ति निषेधात्षष्ठीसमासो नप्राप्नोतीति वाच्यम्, अनेनैव निर्देशेन तन्निषेधस्याऽनित्यत्वाऽभ्युपगमात् ।तेनबुद्धमान्द्य॑मित्यादि सिद्धम् । येनोपाधिनेति । धातुविशेषाद्युपाधिना । तथाहि पूडजोः शानन्विहितः, स ताभ्यामेव धातुभ्यां भवति,न तु धात्वन्तरात् । तच्छीलादिविशिष्टे कर्तरिअलङ्कृ॑ञित्यारभ्यभ्राजभासे॑ति यावत् ये इष्णुजादय उक्तास्तेऽपि कृञादिभ्यो धातुभ्यस्तस्मिन्नुपाधौ सत्यैव भवन्ति ।कदा आगतोऽसी॑ति भूतकालेन प्रश्नवाक्यम्,आगच्छामी॑त्युदाहरणे भूतकालाभिव्यक्तयेऽयमिति प्रयोगस्त्विदानीमेवागममिति वर्तमानसमीपभूतकालद्योतनाय । तेन ह्रागमनाऽविनाभूतं यद्रूपं परिकरबन्धादियुक्तं तत्प्रतिनिर्दिश्यते । न चकदे॑ति प्रश्ने उत्तरवाक्ययोः कालानुपादानादसङ्गतिः शङ्क्या, उत्तरत्राऽयमेषशब्दाभ्यामिदानीमिति कालावगमात् । सामीप्ये किम् । कदा आगतो भवान् । अस्मान्मासात्पूर्वस्मिन्मासे आगच्छम् । एतच्च सूत्रमाकरे प्रत्याख्यातम् । गङ्गासमीपे गङ्गात्वारोपवद्वर्तमानसमीपे वर्तमानत्वारोपसंभवात् ।
Padamanjari¶
अत्र केचिद्व्याचक्षते - शमीपस्य भावः सामीप्यम्, भावे ष्यञ्, वर्तमानस्य सामीप्यं वर्तमानसामीप्यम्, षष्ठीसमासः, वर्तमानस्य भूतभविष्यन्तौ प्रति यत्सामीप्यं तत्र वर्तमानवत्प्रत्ययातिदेशोऽनर्थकः, ये हि वर्तमाने प्रत्ययास्ते समीपभूतेऽपि तस्मिन् भवन्त्येव, अतो वर्तमानं प्रति भूतभविष्यतोर्यत्सामीप्यं तदत्र वर्तमानसामीप्यमित्युच्यते, समीपद्वारकाच्च वर्तमानस्य सामीप्येनाभिसम्बन्धात्समासो नानुपपन्नः, यथा - देवदतस्य गुरुकुलमिति । गुणेन नेति प्रतिषेधोऽपि न भवति; यस्माद्गुणशब्दस्य सम्बन्धिशब्दत्वाद् गुणाक्षिप्तस्य गुणिन एव समासनिषेदः । न च वर्तमानः सामीप्यस्य गुणी, भूतभविष्यतोस्तद्गुणित्वात्’ इति । तदिदं क्लिष्ट्ंअ व्याख्यानम्, ष्यञ्निर्देशश्च केवलं गौरवायैव स्यादित्यन्यथा व्याचष्टे - समीपमेव सामीप्यमिति । न चास्मिन् पक्षे ष्यञो वैयर्थ्यमित्याह - ष्यञः स्वार्थिकत्वं ज्ञाप्यत इति । स्वार्थेऽपि ष्यञ् भवतीति एतमर्थं ज्ञापयितुं ष्यञा निर्देशः कृतः इत्यर्थः । चातुर्वर्ण्यादिसिद्ध्यर्थमिति । आदिशब्देन चातुराश्रम्यम्, अन्यस्य भावोऽन्यभावः, अन्यभाव एवान्यभाव्यमित्येवमादीनां ग्रहणम् । कदा दएवदत आगतोऽसीति । भूतकालेन प्रश्नः, उदाहरणे भूतकालाभिव्यक्तयेऽयमेष इत्यागमनाविनाभूतं यद्रूपं श्वेतपरिकरबन्धादियुक्तं तद्रूपं प्रतिनिर्दिश्यते । इदानीमागममित्यर्थः । एवं च कदेति प्रश्ने चोतरं सङ्गच्छते, सामीप्यं च द्योतितं भवति । आगममिति । लुङ्, मिपोऽम्भावः, लृदित्वादङ् । कदा देवदत गमिष्यसीति । अत्रापि भविष्यत्कालेन प्रश्न उदाहरणे भविष्यत्कालाभिव्यक्तये । गन्तास्मीति । अनद्यतने लुट् । अत्रापि सामीप्यं यथासम्भवं द्रष्टव्यम् । अथ वत्करणं किमर्थम्, यावताऽसत्यपि तस्मिन् प्रत्ययाधिकाराद्वर्तमाने ये प्रत्यया विहितास्ते वर्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एव, नार्थो वत्करणेनात आह - वत्करणं सर्वसादृश्यार्थमिति । असति वत्करणे वर्तमाने ये प्रत्यया इत्यनेन प्रत्ययानां रूपमात्रं लक्ष्येत, ततश्च सङ्करोऽपि स्यात् - अन्यस्माद्धातोर्यो वर्तमाने विहितः प्रत्ययः स धात्वन्तरादपि स्यात् । वत्कणे तु सति सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यावगतेः सङ्करो न भवति । सर्वसादृश्यमेव दर्शयति - येन विशेषणेनेति । आदिशब्देनोपाधेरभिधेयस्य च ग्रहणम् । पचमानो यजमान इति । वर्तमाने पूङ्यजोः शानन्विहितः, सामीप्ये स ताभ्यामेव भवति । अलङ्करिष्णुरिति । तच्छीलादिविशिष्टे कर्तर्यलम्पूर्वात्कृञ् इष्णुज्विहितः, स सामीप्येऽपि तस्मादेव तत्पूर्वादेव तस्मिन्नेवार्थे भवति । परुत् पूर्वस्मिन् संवत्सरे । यो हि मन्यते इत्यादिना प्रतिपतृविशेषं प्रति प्रकरणं प्रत्याचष्टे । कालान्तरगतिस्त्विति । कालान्तरं वर्तमानसमीपो भूतो भविष्यंश्च कालः तस्य या गतिःउ प्रतीतिः सा ठयं गच्छामिऽ इत्यतो वाक्यात्’कदा देवदत गमिष्यसि’ इत्यस्योतरत्वेन प्रयुक्ताद्भवति, ततः किमित्यत्राह - न चेति । वाक्यार्थप्रतिपतारमिति । वाक्यार्थोऽयं न पदार्थ इति यः प्रतिपद्यते स वाक्यार्थप्रतिपता, कर्मणि षष्ठयाः समासः ।’कर्तरि च’ इति प्रतिषेधस्त्वनित्यः;’जनिकर्तुः’ इति निर्देशात्, शेषषष्ठ।ल वा समासः । प्रकरणमिति । इत आरभ्याष्टडसूत्री प्रकरणशब्देनोच्यते । तथा च श्वः करिष्यतीत्यादि । यदि वाक्यगम्योऽपि कालः पदसस्कार उपयुज्यते, तदा नैवमाद्यौपपद्यते - अनद्यतने लुटैव भवितव्यमिति कृत्वा ॥
Nyaas¶
यदि समीपस्य भावोऽभिधीयेत तद्धि स्यात्, एवं सति वर्तमानस्य सामीप्येन च समासो न स्यात्; सम्बन्धाभावात्। न हि सामीप्यस्य वर्तमानेन सम्बन्धः, अपि तु तत्समीपेन; तस्य तद्गुणत्वात्। तस्मात् स्वार्थ एवायमिह भविष्यतीति मत्वाहऽऽह - समीपमेव सामीप्यम्` इति। किमर्थं पुनः स्वार्थिकं ष्यञं विधायैवं निर्देशः क्रियते, न वर्तमानसमीप एवोच्येत यतो लाघवं भवति? इत्यत आह - ष्यञः स्वार्थिकत्वं ज्ञाप्यते इति।स्वार्थे ष्यञपि स्यादनेनेति। स्वार्थे ष्यञ् भवतीत्यमुमर्थं ज्ञापयितुं स्वार्थिकः ष्यञ् कृत इति। चातुर्वण्र्यादिसिद्ध्यर्थम् इति। अनेनापि ज्ञापनस्य प्रयोजनमुच्यते। आदिशब्देन चातुराश्रम्यादीनां ग्रहणम्। अयमागच्छामि इति। अयमागममित्यस्यार्थ एतद्वर्तते। आगमम् इति। लुङ, उत्तमैकवचनम्, तस्थस्थमिपाम् (3.4.101) इत्यादिना मिपोऽम्भावः, पुषादिसूत्रेण (3.1.55) च्लेरङ। एष गच्छामि इति। एष गमिष्यामीत्यस्यार्थ इदं वर्तते। गमेरिट् परस्मैपदेषु (7.2.58) इतीट्। गन्तास्मि`इति। लुट्, तासिः, मिप्।अथ वत्करणं किमर्थम्, यत्वता `वर्तमानसामीप्ये वर्तमाने इत्युच्यमाने वर्तमानकालविहिताः प्रत्यया वर्तमानसामीप्ये भवन्तीत्येषोऽर्थो लभ्यत एवत्यत आह - वत्करणम् इत्यादि। असति वत्करणे वर्तमानकालेन रूपमात्रमेषां प्रत्ययानामुपलक्ष्यते, न तु प्रकृत्यादय उपादीयेरन्, ततश्च धातुमात्रात् स्युः। वत्करणे तु सति सर्वसादृश्यं गम्यते; तत्रैव वतेर्विधानात्, तेन सङ्करो न भवति। तमेवन सङ्कराभावं दर्शयितुमाह - येन `इत्यादि। एवं हि सर्वसादृश्यं भवति यदि येन विशेषणेन वर्तमाने विहितास्तेनैव वर्तमानसामीप्ये भवन्ति, नान्यथा। `प्रकृत्योपपदोपाधिना इति। आदिश्ब्देनोपाधेरबिधेयस्य च ग्रहणम्। पवमानः, यजमानः`इति। **पूङ्यजोः शानन्** (3.2.128) विहितः,स वर्तमानसामीप्येऽपि ताभ्यामेव भवति, न धात्वन्तरात्। `अलङ्गरिष्णुः इति। ताच्छील्यादिविशिष्टे कर्तर्यलम्पूर्वात् कृञ इष्णुद्विहितः, वर्तमानसामीप्येऽपि तत्पूर्वादेव भवति। तस्मिन्नेव चार्थे परुदगच्छत् इत्यत्र विप्रकर्षविवक्षायां लङेव भवति। वर्षेण गमिष्यति इति। अत्रापि लृडेव भवति।यो मन्यते इत्यादिनापि प्रतिपत्तृविशेषं प्रति सूत्रं प्रत्याचष्टे। कालान्तरगतिस्तु इत्यादि। कालान्तरं वर्तमानसमीपो भूतो भविष्यंश्च कालः, तस्य या गतिः = प्रतीतिः। आगच्छामीत्यस्य पदस्य वर्तमानकालविशेषेऽप्ययं गच्छामीत्यतो वाक्यात् कदा देवदत्त गमिष्यसीत्येद्वाक्यसमनन्तरं प्रयुज्यमानाद्भवति। वाक्यगम्योऽपि कालो यदि पदसंस्कारवेलायामुपयुज्यते युज्येत सूत्रारम्भः, न चासौ तत्रोपयुज्यते; यस्माच्छास्त्रेण पदस्य संस्कारः क्रियते, न वाक्यस्य। पदे संस्क्रियमाणे तद्गम्य एव काल उपयुज्यते, तेन वाक्यगम्य इत्यभिप्रायः। इतिकरणः प्रकृतप्रत्यवमर्शक इति। एवं यो मन्यते = अवगच्छति तं प्रतीदं नारब्धव्यमेव। यदर्थमारभ्यते तेषां प्रत्ययानां वर्तमाने लट् (3.2.123) इत्यादिनैव शास्त्रेणासिद्धत्वात्। प्रकरणग्रहणेन केवलमिदं सूत्रं नारब्धव्यम्, अपि तु अशंसायां भूतवच्च (3.3.132) इत्येवमादीन्यपि नारब्धव्यनीति दर्शयति। तादृशम्ित्यादि। एवञ्च यस्तु तादृशः प्रतिपत्ता न भवति मन्दबुद्धिस्तं प्रत्यारब्धव्यमेवेत्युक्तं भवति। न ह्रसावेवं न्यायेन प्रतिपत्तुं समर्थः। `तथा च इत्यादि। यस्मात् तत्रैवं वाक्यगम्यः कालः पदसंस्कारवेलायां नोपयुज्यते, एवञ्च सति आः करिष्यतीत्येमाद्युपपद्यते। तत्रापि हि करिष्यतीत्येतत् पदं भविष्यत्येव काले वर्तत इति लृट् शेषे च (3.3.13) इत्येव लृट् सिद्धः। भविष्यदनद्यतनस्तु कालोऽयम्। यद्युत्तरकालः प्रतीयते तथाप्यसौ वाक्यार्थ इति पदसंस्कारे नाश्रीयते। यदि तु वाक्यगम्योऽपि कालः पदसंस्कारे समाश्रीयेत, तदा तु करिष्यतीत्येवमादि नोपपद्येत - भविष्यदनद्यतने लुटैव भवितव्यमिति कृत्वा॥
Prakriyasarvasvam¶
वर्तमानस्य समीपे भूते भविष्यति च वर्तमानवत् प्रत्ययाः स्युः । <karika>आगच्छाम्यधुनैवाहं गच्छामीति च तद् द्वयम् । आगमं च गमिष्यामीत्येवं पक्षे तु लुङ्लृटौ ॥ ७७२ ॥</karika>
Sutra Prayogas¶
निदेशवर्ती (कुमारसम्भवम्): वर्तमानसामीप्ये वर्तमानवद्वा इति लट्।
भवामि (कुमारसम्भवम्): वर्तमानसामीप्ये वर्तमानवद्वा इति लट् ।
ब्रुवाणेन (किरातार्जुनीयम्): वर्तमानसामीप्ये वर्तमानवद्वा इति भूते वर्तमानवत्प्रत्ययः।
अपहस्ये (किरातार्जुनीयम्): वर्तमानसामीप्ये वर्तमानवद्वा इति हसतेरण्यन्तात्कर्मणि लट्।
शोभा (भट्टिकाव्यम्): कृत्य-ल्युटो बहुलम् इति बहुलवचनादन्येऽपि कृतः प्राप्तमपि स्वाभिधेयं व्यभिचरन्ति।
यतिष्ये (भट्टिकाव्यम्): वर्तमान सामीप्ये वर्तमानवद्वा इति विकल्पेन लटो विधानात् लडुदाहृतः।
वेत्ति (भट्टिकाव्यम्): वर्त- मानसामीप्ये इति भूते लट्।
सं-वित्तः (भट्टिकाव्यम्): वर्तमानसामीप्ये वर्तमानवद्वा इति भूते लट्।
आचक्षाथां (भट्टिकाव्यम्): वर्तमानसामीप्ये वर्तमानवद्वा इति इण्-धातोः लटि रूपम्।
व्रजन् (भट्टिकाव्यम्): वर्तमानसामीप्ये वर्तमानवत् इति लट्।