33130: अन्येभ्योऽपि दृश्यते

Padacheda: अन्येभ्यः | S | 5 | 3 |

अपि | S | 0 | 0 |

दृश्यते | T | | |

Sutrartha


Vasu English Summary

The affix युच् is seen to come number the छन्दस् (Vedas) after other verbs also, than those meaning ‘to go’

Vasu English Translation

The affix युच् is seen to come number the छन्दस् (Vedas) after other verbs also, than those meaning ‘to go’ Thus सुदोह नाम कृणोद् ब्रह्मणे गां; so also सुवेद नाम कृणोद् ब्रह्मणे गां ॥ (Rig. Veda. X. 112.8).

Vart:- In the modern Sanskrit, the affix ‘yuch’ comes after the verbs, आस्, युध्, दृश्, धृष्, and मृष्; as दुःशासनः ‘Duhsasana’; दुर्योधनः ‘Duryodhana’; दुर्दर्शनः, दुर्द्धर्षणः and दुर्मर्षणः ।

Bhashya

अन्येभ्योपि दृश्यते (1115) (570 युच्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आदृ 39) (4079 वार्तिकम्॥ 1 ॥) - भाषायां शासियुधिदृशिधृषिभ्यो युच्- (भाष्यम्) भाषायां शासियुधिदृशिधृषिभ्यो युज्वक्तव्यः। दुः शासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः॥ (4080 वार्तिकम्॥ 1 ॥) - मृषेश्च- (भाष्यम्) मृषेश्चेति वक्तव्यम्। दुर्मर्षणः। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये तृतीयस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्॥

Kashika

अन्येभ्योऽपि धातुभ्यो गत्यर्थेभ्यश्छन्दसि विषये युच् प्रत्ययो दृश्यते। सुदोहनाम् (निरु० ११.४३) अकृणोद् ब्रह्मणे गाम्। सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् (ऋ० १०.११२.८)॥ भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज् वक्तव्यः॥ दुःशासनः। दुर्योधनः। दुर्दर्शनः। दुर्धर्षणः। दुर्मर्षणः॥

Siddhanta Kaumudi

गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् (सु॒वे॒द॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम्) ॥

Padamanjari

अन्येभ्योऽपि चातुभ्यो गत्यर्थेभ्य इति । गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्य इत्यर्थः । अथ वा नञोऽत्र प्रश्लेषः - अन्येभ्योऽपि धातुभ्यः, कोऽर्थः ? अगत्यर्थेभ्य इति । भाषायामिति ।’च्छन्दसि’ इत्यधिकारादयमारम्भः ।’शासु अनुशिष्टौ’ ,’युध संप्रहारे’ , दृशिर्प्रेक्षणेऽ,’ञिधृषा प्रागलभ्ये’ ,’मृष तितिक्षायाम्’ ॥

Nyaas

सुदोहनम् इति। दुह प्रपूरणे (धातुपाठः-1014)। वक्तव्यः इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - अपिशब्दोऽत्र क्रियते, स च सर्वव्यभिचारार्थः, तेन शासु अनुशिष्टौ (धातुपाठः-1075), युध सम्प्रहारे (धातुपाठः-1173), दृशिर्प्रेक्षणे (धातुपाठः-988), ञिधृषा प्रागल्भ्ये (धातुपाठः-1269), मृष तितिक्षायाम् (धातुपाठः-1164) - इत्येतेभ्योऽपि भाषायां युज्भवतीति। कथं पुनरेतदवसितम् - `सर्वव्यभिचारार्थोऽपिशब्द इति? सूत्रारम्भात्। यदि हि गत्यर्थव्यभिचार एवात्राभिसंहितः स्यात्, सूत्रमिदं नारभेत। पूर्वसूत्र एव च गत्यर्थग्रहणं न कुर्यात्॥

Prakriyasarvasvam

अगत्यर्थेभ्योऽपि युच् स्यात् । सूवेदनांमकृणोर्ब्रह्मणे गाम् ।

Vartika

भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः ।

Sutra Prayogas

  • सुमर्षणः (किरातार्जुनीयम्): भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वा इति खलर्थे युच्प्रत्ययः।

  • मृगाविन्मृगयामसौ (भट्टिकाव्यम्): अन्येभ्योऽपि दृश्यते इति डः।