33106: आतश्चोपसर्गे

Padacheda: आतः | S | 5 | 1 |

च | S | 0 | 0 |

उपसर्गे | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affix अण् comes after those verbs which end in long आ when an उपसर्ग is in composition and when the word to be formed is feminine.

Vasu English Translation

The affix अण् comes after those verbs which end in long आ when an उपसर्ग is in composition and when the word to be formed is feminine. This supersedes क्तिन्. Thus प्रदा, प्रधा, उपदा, उपधा, &c.

Vart:- For the purposes of this rule the particles श्रत् and अन्तर् should be treated like upasargas. Thus श्रद्धा ‘faith’ अन्तर्द्धा (1.4.59).

Kashika

आकारान्तेभ्य उपसर्ग उपपदे स्त्रियामङ् प्रत्ययो भवति। क्तिनोऽपवादः। प्रदा। उपदा। प्रधा। उपधा। श्रदन्तरोरुपसर्गवद् वृत्तिः। श्रद्धा। अन्तर्धा॥

Siddhanta Kaumudi

अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा ॥<!श्रदन्तरोरुपसर्गवद्वृत्तिः !> (वार्तिकम्) ॥ श्रद्धा । अन्तर्धा । उपसर्गे घोः किः (SK3270) इत्यनेन किः । अन्तर्धिः ॥

Padamanjari

श्रदन्तरोरित्यादि । उपसर्गे यादृशी वृत्तिः प्रत्ययोत्पतिलक्षणा तादृश्येव तयोरपि भवतीत्यर्थः । तत्र श्रद्धाशब्दस्तारकादिपाठात्सिद्धः, यदयम् ठन्तर्धौ इत्युसर्गनिबन्धनं किप्रत्ययं निद्दिशति तद् ज्ञापयति - अन्तः-शब्दः उपसर्गवृत्तिरिति । एवं च कृत्वा अन्तर्णयतीति ठुपसर्गादसमासेऽपिऽ इति णत्वमपि भवति ॥

Nyaas

श्रदन्तरोः`इत्यादि। उपसर्गे इवोपसर्गवत्। यादृश्युपसर्गे वृत्तिः प्रत्ययोत्पत्तिलक्षणा, तादृश्येव तयोरपि भवति। तेन यथा प्रधा, उपधेत्युपसर्गे भवति, तथा श्रदन्तरोरपि श्रद्धा, अन्तर्धेति। न चेयं वृत्तिरुपसंख्यानसाध्या; यतः श्रद्धाशब्दस्तारकादिषु च पाठात् साधुत्वमनुभवति। अन्तर्धाशब्दोऽपि ज्ञापकात्, यदयं `अन्तर्धौयेनादर्शनमिच्छति (1.4.28) इत्यन्तर्धिशब्दस्य किप्रत्ययान्तस्य निर्देशं करोति, तततो ज्ञायते - भवत्यन्तःशब्द उपसर्गकार्यस्य निमित्तमिति; अन्यथा हि तस्मिन्नुपपदे उपसर्गे घोः किः (3.3.92) इति किप्रत्ययो न स्यात्, ततश्च अन्तर्धौ इति निर्देशो नोपपद्यते॥

Prakriyasarvasvam

सोपसर्गादादन्तादङ् स्यात् । ङित्त्वादाल्लोपे प्रम । टाप् । प्रमा । उपमा । प्रभा । भामोरनुपसर्गेऽपि दृश्यते । भा । मा । भाशब्दः सम्पदादिक्किबपीति माधवः । श्रद् दधाताविति श्रदो धाञ्युपसर्गतामाह भोजः । श्रद्धा ।। <karika>अन्तर्णत्वाङ्किविधिषु प्राप्नोति ह्युपसर्गताम् । अङन्तर्धा किरन्तर्धिर्णत्वेऽन्तर्णयतीत्यपि ॥ १५८ ॥</karika>

Sutra Prayogas

  • पितृकाननोत्थया (रघुवंशम्): आतश्चोपसर्गे इति उत्पूर्वात् तिष्ठतेः कप्रत्ययः।

  • प्राचेतसोपज्ञं (रघुवंशम्): आतश्चोपसर्गे इति कर्मण्यङ्प्रत्ययः।

  • अन्तर्धाम् (शिशुपालवधम्): आतश्चोपसर्गे इत्यङ् प्रत्ययः।

  • मद्-विधो (भट्टिकाव्यम्): आतश्चोप- सर्गे इत्यङ् ।

  • महेन्द्र-लोक-प्रतिमां (भट्टिकाव्यम्): आतश्चोपसर्गे - इत्यङ् ।

  • सन्ध्या (भट्टिकाव्यम्): आतश्चो- पसर्गे इत्यङ्।

  • उपधा-भेद-भीरवः (भट्टिकाव्यम्): आतश्चोपसर्गे इत्यङ् ।