33105: चिन्तिपूजिकथिकुम्बिचर्चश्च

Padacheda: चिन्ति-पूजि-कथि-कुम्बि-चर्चः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अण् as well as the affix युच् come after the following verbs, forming feminine words - 1. चिन्त् ‘to think’ 2. पूज् ‘to worship’ 3. कथ् ‘to narrate’ 4. कुम्ब् ‘to cover’ 5. चर्च् ‘to learn’

Vasu English Translation

The affix अण् as well as the affix युच् come after the following verbs, forming feminine words - 1. चिन्त् ‘to think’ 2. पूज् ‘to worship’ 3. कथ् ‘to narrate’ 4. कुम्ब् ‘to cover’ 5. चर्च् ‘to learn’ The force of च is to include the affix युच् into this sutra (see III.3.107). All these verbs belong to the Churadi or 10th class, and would have exclusively taken युच् by (3.3.107).

Thus चिन्ता ‘thought’; पूजा ‘worship’; कथा ‘narration’; कुम्बा ‘a covering’, ‘a thick petticoat’; चर्च्चा ‘recitation’.

When the affix is युच्, the forms are चिन्तना &c. (VII.I.I).

Kashika

चिति स्मृत्याम् पूज पूजायाम् कथ वाक्यप्रबन्धे कुबि आच्छादने चर्च अध्ययने चुरादिः। एभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति। चिन्ता। पूजा। कथा। कुम्बा। चर्चा। चकाराद् युजपि भवति। चिन्तना॥

Siddhanta Kaumudi

अङ् स्याद्युचोपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥

Tattvabodhini

चिन्तिपूजिकथिकुम्बिचर्चश्च - चिन्तिपूजि । चकारोऽनुक्तसमुच्चयार्थः । तेन तोलयतेस्तुलेति हरदत्तः । अतएवतुलां यदारोहति दन्तवाससा॑ इति नैषधकृदाह । युचोऽपवादैति ।ण्यासश्रन्थे॑ति वक्ष्यमाणस्येत्यर्थः ।

Padamanjari

युचि प्राप्त इति । सर्वेषामेव ण्यन्तत्वात् । कुम्ब्राउअग्रम् । ठुदीचीनकुम्बां शम्याम्ऽ इति हि दृश्यते । चकारोऽनुक्तसमुच्चयार्थः - तुलयतेस्तुला । अथ’गुरोश्च हलः’ इत्यस्यानन्तरं कस्मान्न कृतम्, किमङ्विधानेन ? तत्राऽपि कर्तव्यम्, को न्वत्र विशेषः । अपर आह - अङ्विधानसामर्थ्यात्पक्षे णिलोपो न भवति, चिन्तियेत्यादि भवतीति, नात्राप्तभाषितमस्ति ॥

Nyaas

चुरादिः`इति। एतत् `चिति स्मृत्याम् (धातुपाठः-1535) इत्यादिभिः प्रत्येकमभिसम्बध्यते। युचि प्राप्ते इति। ण्याससश्रन्थो युच् (3.3.107) इत्यनेन। यस्तु भ्वादौ कुम्बिः पठते ततो गुरोश्च हलः (3.3.103) इत्यकारेण भवितव्यम्। न च कुम्बेरकारेऽङि वा सति कश्चिद्विशेषोऽस्तीति नासाविह ग्रहणं प्रयोजयति॥

Prakriyasarvasvam

एभ्योऽङ् स्यात् । णिलोपः । चिन्ता । अत्र णिलोपाभावाद्यङि चिन्तियेत्यपि माधवः । पूजा । कथा । ‘कुबि छादने’ । कुम्बा । चर्चा । चकारात् भीषिस्पृहि- दोल्यादेश्च । भीषा । स्पृहा । दोला प्रेङ्खः ।।

Sutra Prayogas

  • कथा (शिशुपालवधम्): चिन्तिपूजिकथिकुम्बिचर्चाश्च इत्यप्रत्ययः।

  • चिन्ता-वन्तः (भट्टिकाव्यम्): चिन्ति पूजि इत्यादिना अङन्ताः ।