33100: कृञः श च

Padacheda: कृञः | S | 5 | 1 |

श | S | | | 1

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

And after the root कृ comes the affix श in forming a feminine as well as the affix क्यप्।

Vasu English Translation

And after the root कृ comes the affix श in forming a feminine as well as the affix क्यप्। By the force of the word च we draw the affix क्यप् into this sutra, and by the process called योगविभाग we can split up this aphorism into two :-

  1. कृञः ‘after the root कृ there is the affix क्तिन्’

  2. श च ‘and the affix श as well as क्यप्’. Thus क्रिया, कृत्वा (6.1.71) and कृतिः । When the affix श is added, the root assumes the form क्रिय by (3.1.67).

Bhashya

कृञ्ञः श च (1085) (558 शक्यप्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 । आ. 27 ) (4050 वार्तिकम्॥ 1 ॥) - कृञ्ञः श चेति वावचनम्- (भाष्यम्) कृञ्ञः श चेति वावचनं कर्तव्यम्॥ किं प्रयोजनम्? क्तिन्नपि यथा स्यात्। कृतिः॥ कृञ्ञः श॥ 100 ॥

Kashika

करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति, चकारात् क्यप् च। योगविभागोऽत्र कर्तव्यः, क्तिन्नपि यथा स्यात्। क्रिया। कृत्या। कृतिः॥

Siddhanta Kaumudi

कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥

Tattvabodhini

कृञः श च - क्रियेति । यदा भावकर्मणोः शस्तदासार्वधातुके यक् ।रिह् शयग्लिङ्क्षु॑ इति रिङादेशः । अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम् ।

Padamanjari

योगविभाग इति । कृञः क्यब् भवति, ततः श च, चकाराद्यथाप्राप्तं चेति । तेन त्रीणि रूपाणि भवन्ति; अन्यथा चकारेणानन्तरस्य क्यप एव समुच्चयः, न तु क्तिन इति क्तिन्न स्यात् । शकारः सार्वधातुकसंज्ञार्थः, तत्र यदा भावकर्मणोः शस्तदा’सार्वधातुके यक्’ रिङ्शयग्लिङ्क्षुऽ इति रिङदेशः, अन्यत्र शकार एव परतो रिङदेशः, ठचि श्नुधातुऽ इत्यादिनेयङ् ॥

Nyaas

योगविभागोऽत्र कर्तव्यः इति। कृञः क्यबिति भवति, ततः शश्च, यथाप्राप्तञ्चेति, तेन त्रीणि रूपाणि सिध्यन्ति। तत्र कृञः`इति योगेन कृत्येत्येतद्रूपं सिध्यति, `श च इत्यनेन क्रिया कृतिरिति चेत्येतद्रूपद्वयं क्रियत इति। यदा भावे शब्दस्तदा सार्वधातुके यक् (3.1.67) , रिङ् शयग्लिङ्क्षु (7.4.28) इति रिङादेशः। यदा त्वकर्तरि कारके तदा यगभावाच्छ एव प्रत्यये परतो धातोरिङादेशे कृते अचि श्नुधातु (6.4.77) इत्यादिना तस्येयङ्। शकारः सार्वधातुकार्थः॥

Prakriyasarvasvam

कृञो भावादौ शः क्यप् च स्यात् । शः सार्वधातुकत्वार्थः । कृ अ ।।

Sutra Prayogas

  • मृगयामसौ (भट्टिकाव्यम्): तदन्तात् कुनः श च इत्यधिकृत्य भावे शप्रत्ययः।

  • क्रियां (भट्टिकाव्यम्): कृञः श च इति रिङियौ।

  • विद्येवाऽनुष्ठित-क्रियान् (भट्टिकाव्यम्): कृञः श च इति शः ।

  • क्रियाम् (भट्टिकाव्यम्): कृञः श च इति शः ।