33100: कृञः श च =============== **Padacheda:** कृञः | S | 5 | 1 | श | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And after the root कृ comes the affix श in forming a feminine as well as the affix क्यप्। Vasu English Translation ------------------------ And after the root कृ comes the affix श in forming a feminine as well as the affix क्यप्। By the force of the word च we draw the affix क्यप् into this *sutra*, and by the process called योगविभाग we can split up this aphorism into two :- (1) कृञः 'after the root कृ there is the affix क्तिन्' (2) श च 'and the affix श as well as क्यप्'. Thus क्रिया, कृत्वा (6.1.71) and कृतिः । When the affix श is added, the root assumes the form क्रिय by (3.1.67). Bhashya ------- कृञ्ञः श च (1085) (558 शक्यप्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 । आ. 27 ) (4050 वार्तिकम्॥ 1 ॥) - कृञ्ञः श चेति वावचनम्- (भाष्यम्) कृञ्ञः श चेति वावचनं कर्तव्यम्॥ किं प्रयोजनम्? क्तिन्नपि यथा स्यात्। कृतिः॥ कृञ्ञः श॥ 100 ॥ Kashika ------- करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति, चकारात् क्यप् च। योगविभागोऽत्र कर्तव्यः, क्तिन्नपि यथा स्यात्। क्रिया। कृत्या। कृतिः॥ Siddhanta Kaumudi ----------------- कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥ Tattvabodhini ------------- **कृञः श च** - क्रियेति । यदा भावकर्मणोः शस्तदासार्वधातुके यक् ।रिह् शयग्लिङ्क्षु॑ इति रिङादेशः । अन्यत्र तु यगभावेऽपि शे परतो रिङादेशे कृते इयङि सति रूपं तुल्यम् । Padamanjari ----------- योगविभाग इति । कृञः क्यब् भवति, ततः श च, चकाराद्यथाप्राप्तं चेति । तेन त्रीणि रूपाणि भवन्ति; अन्यथा चकारेणानन्तरस्य क्यप एव समुच्चयः, न तु क्तिन इति क्तिन्न स्यात् । शकारः सार्वधातुकसंज्ञार्थः, तत्र यदा भावकर्मणोः शस्तदा'सार्वधातुके यक्' रिङ्शयग्लिङ्क्षुऽ इति रिङदेशः, अन्यत्र शकार एव परतो रिङदेशः, ठचि श्नुधातुऽ इत्यादिनेयङ् ॥ Nyaas ----- `योगविभागोऽत्र कर्तव्यः` इति। कृञः क्यबिति भवति, ततः शश्च, यथाप्राप्तञ्चेति, तेन त्रीणि रूपाणि सिध्यन्ति। तत्र `कृञः`इति योगेन कृत्येत्येतद्रूपं सिध्यति, `श च` इत्यनेन क्रिया कृतिरिति चेत्येतद्रूपद्वयं क्रियत इति। यदा भावे शब्दस्तदा **सार्वधातुके यक्** (3.1.67) , **रिङ् शयग्लिङ्क्षु** (7.4.28) इति रिङादेशः। यदा त्वकर्तरि कारके तदा यगभावाच्छ एव प्रत्यये परतो धातोरिङादेशे कृते `अचि श्नुधातु` (6.4.77) इत्यादिना तस्येयङ्। शकारः सार्वधातुकार्थः॥ Prakriyasarvasvam ----------------- कृञो भावादौ शः क्यप् च स्यात् । शः सार्वधातुकत्वार्थः । कृ अ ।। Sutra Prayogas -------------- * **मृगयामसौ** (भट्टिकाव्यम्): `तदन्तात् कुनः श च` इत्यधिकृत्य भावे शप्रत्ययः। * **क्रियां** (भट्टिकाव्यम्): `कृञः श च` इति रिङियौ। * **विद्येवाऽनुष्ठित-क्रियान्** (भट्टिकाव्यम्): `कृञः श च` इति शः । * **क्रियाम्** (भट्टिकाव्यम्): `कृञः श च` इति शः ।