33097: ऊतियूतिजूतिसातिहेतिकीर्तयश्च¶
Padacheda: ऊति-यूति-जूति-साति-हेति-कीर्तयः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And these words viz. 1. ऊति ‘preserving sport’ 2. यूति ‘joining’ 3. जूति ‘velocity’ 4. साति ‘destruction’ 5. हेति ‘a weapon’ 6. कीर्ति ‘fame’, are anomalous forms, acutely accented (उदात्त).
Vasu English Translation¶
And these words viz. 1. ऊति ‘preserving sport’ 2. यूति ‘joining’ 3. जूति ‘velocity’ 4. साति ‘destruction’ 5. हेति ‘a weapon’ 6. कीर्ति ‘fame’, are anomalous forms, acutely accented (उदात्त). The anuvritti of the word मन्त्रे does not exist in this; but the word उदात्त of the last syllable is understood here. The word ऊति is thus formed :- अव् ‘to protect’ + क्तिन् = ऊ + तिः (6.4.20) = ऊतिः । this form is regular and could be evolved from sutra 94 also; but not so the accent. The irregularity in पूतिः and जूतिः consists in the lengthening of उ into ऊ; in सातिः the आ of the root सै which becomes सा by (VI.I 45), is not changed into इ, as rule (7.4.40) required, and this is the irregularity. This form may also be derived from the root सन् with perfect propriety, except as to the accent which would be regulated by the present sutra: thus सन् + क्तिन् = सा + क्तिन् (6.4.42) साति. The form हेति may by derived either from हन् or हिनोति ।
इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च । उग्रउग्राभिरूतिभिः । (Rig. I.7.4) ‘O Indra, mayst thou mighty, defend us in battles and in fights of a thousand duels, with thy mighty protections’.
Kashika¶
मन्त्र इति नानुवर्तते। ऊत्यादयः शब्दा निपात्यन्ते। उदात्त इति वर्तते। अवतेः ज्वरत्वरस्रिव्यविमवामुपधायाश्च (६.४.२०) इत्यूठ्। ऊतिः स्वरार्थं वचनम्। यौतेर्जवतेश्च यूतिः, जूतिः। दीर्घत्वं च निपात्यते। सातिः। स्यतेरित्त्वाभावो निपात्यते। सनोतेर्वा जनसनखनाम्० (६.४.४२) इत्यात्वे कृते स्वरार्थं निपातनम्। हन्तेर्हिनोतेर्वा हेतिः। कीर्तयतेः कीर्तिः॥
Siddhanta Kaumudi¶
अवतेः ज्वरत्वर (SK2654) इत्यूठ । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यति (SK3074) इतीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसन (SK2504) इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ॥
Laghu Siddhanta Kaumudi¶
एते निपात्यन्ते॥॥
Tattvabodhini¶
ऊतियूतिजूतिसातिहेतिकीर्तयश्च - उदात्त इतीति ।मन्त्रे वृषेषे॑ति सूत्रादनुवर्तत इत्यर्थः । एवं च क्तिन्नन्तस्याद्युदात्तत्वे प्राप्तेऊतियूती॑त्यादयोऽन्तोदात्ता इति पर्यवसन्नोऽर्थः । इत्त्वाऽभाव इति ।द्यतिस्यती॑ति प्राप्तस्याऽभाव इत्यर्थः । हन्तेरिति । नकारस्येत्वं, हिनोतेस्तु गुण इति बोध्यम् । कीर्तिरिति । कीर्तयतेःण्यासश्रन्थे॑ — ति युचि प्राप्ते क्तिननिपात्यते, उदातत्वं च ।तां सुते कीर्तिम् ।
Padamanjari¶
मन्त्रे इति नानुवर्तत इति । तेन ब्राह्मणे भाषायां चाथं विधिर्भवति । स्यतेरिति ।’षो’ न्तकर्मणिऽ इत्यस्य । हत्वाभाव इति ।’द्यतिस्यति’ इत्यादिना प्राप्तस्येत्वस्याभावः । सनोतेर्वेति ।’षणुदाने’ इत्यस्य । हन्तेर्हिनोतेर्वोत । यदा हन्तेस्तदा नकारस्येत्वं निपात्यते, यदा हिनोतेस्तदा तु गुणः । कीर्तयतेरिति ।’कृत संशब्दने’ इत्यस्य चुरादिणिजन्तस्य’ण्यासश्रन्यो युच्’ , इति युचोऽपवादः क्तिन्निपात्यते, उदांतत्वं च । इडभावस्तु’तितुत्र’ इत्यादिना सिद्धः, ठुपधायाश्चऽ’हलि च’ ठुपधायां चऽ इति दीर्घत्वम् । कालापास्तु युचमपीच्छन्ति - कीर्तनेति ॥
Nyaas¶
स्वरार्थं वचनम् इति। न तु प्रत्ययार्थम्। स्त्रियां क्तिन् (3.3.94) इत्येव सिद्धत्वात्। नाप्यूडर्थम्; ज्वरत्वर (6.4.20) इत्यादिनैव सिद्धत्वात्। यौतेः`इति। `यु {मिश्रणेऽमिश्रणे च-धा।पा} मिश्रणे (धातुपाठः-1033) इत्यस्य। `जवतेश्च इति। जु इत्यस्य सौत्रस्य (3.2.150) धातोः। दीर्घत्वञ्च इति। चकारादुदात्तत्वञ्च। क्तिन् सामान्यलक्षणेनैव सिद्धः। ल्यतेः इति। षोऽन्तकर्मणि (धातुपाठः-1147) इत्यस्य। इत्त्वाभावोऽपि निपात्यते इति। द्यतिस्यति (7.4.40) इत्यादिनेत्त्वं प्राप्नोति, ततस्तस्याभावो निपात्यते। सनोतेर्वा इति। षणु दाने (धातुपाठः-1464) इत्यस्य। जनसनखनाम् (6.4.42) इत्यात्त्वे कृते सातिरिति सिध्यतीति शेष-। यद्येवम्, किमर्थं निपातनमित्याह - स्वरार्थम इत्यादि। असति हि निपातने सातिश्शब्द आद्युदात्तः स्यात्। अन्तोदात्तो यथा स्यादित्येवमर्थ निपातनम्। हन्तेर्हितनोतेर्वा इति। हेतिरिति यदा हन्तेः, तदा हकारस्यैत्त्वं निपात्यते, अनुनासिकलोपस्तु अनुदात्तोपदेश (6.4.37) इत्यादिनैव सिद्धः। यदा तु हि {गतौ बुद्धौ च-धा।पा} (धातुपाठः-157) इत्स्य, तदा गुणो निपात्यते। `कीर्त्तिः`इति। `कृतं संशब्दने (धातुपाठः-1653) इत्यस्माच्चुरादिणिजन्तात् ण्यासश्रन्थो युच् (3.3.107) इति युचि प्राप्ते क्तिन्निपात्यते। उपधायाश्च (7.1.101) इतीत्त्वम् भवति, हलि च (8.2.77) इति दीर्घत्वम्॥
Sutra Prayogas¶
जूतिमिच्छथ (भट्टिकाव्यम्): ऊति-यूति इत्यादिना निपातितः।