33092: उपसर्गे घोः किः¶
Padacheda: उपसर्गे | S | 7 | 1 |
घोः | S | 5 | 1 |
किः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix कि comes under similar circumstances after a घु verb – दाधा घ्वदाप् (1.1.20) when an उपसर्ग is in composition with it.
Vasu English Translation¶
The affix कि comes under similar circumstances after a घु verb – दाधा घ्वदाप् (1.1.20) when an उपसर्ग is in composition with it. The क् is indicatory, by force of which the final आ is elided (6.4.64). Thus प्र + दा + कि = प्रदिः ‘a present’; प्रधिः ‘the periphery of a wheel’; उपाधिः ‘fraud’; अन्तर्द्धिः ‘vanishing’.
Kashika¶
भावेऽकर्तरि च कारक इति वर्तते। उपसर्ग उपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति। कित्करणमातो लोपार्थम्। प्रदिः। प्रधिः। अन्तर्धिः॥
Siddhanta Kaumudi¶
प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥
Laghu Siddhanta Kaumudi¶
प्रधिः। उपधिः॥
Tattvabodhini¶
उपसर्गे घोः किः - उपसर्गे [घोः किः । बाहुलकात्कर्तर्यपीति माधवः । अतएव उप = समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते] । कित्त्वादातो लोपः । अन्तर्धिरिति ।अन्तः शब्दस्याऽङ्किविधी॑ति वार्तिकादुपसर्गत्वम् । उपाधीयतेऽनेनेति । एतेनउप = समीपे स्वधर्ममादधातीत्युपाधिः । बाहुलकात्कर्तरि कि॑रिति माधवादिग्रन्थो नादर्तव्य इति ध्वनितम् ।विधाता विआसृड्विधि॑रित्यत्रापि कर्तरि माभूत् किः, किंतु विध विधाने इत्यस्मादिगुपधात्किदितीति रूपसिद्धेः ।
Nyaas¶
किप्रत्ययो भवति इति। घञोऽपवादः। कित्करणे लोपार्थम् इति। आतो लोप इटि च (6.4.64) इत्याकारलोपो यथा स्यादिति॥
Prakriyasarvasvam¶
स्वप्नः ॥
Sutra Prayogas¶
निधिः (शिशुपालवधम्): उपसर्गे घोः किः इति किप्रत्ययः।
व्यवधिम् (शिशुपालवधम्): उपसर्गे घोः किः इति किप्रत्ययः।
अन्तधिं (शिशुपालवधम्): उपसर्गे घोः किः इति किप्रत्ययः।
निधि (भट्टिकाव्यम्): उपसर्गे घोः किः इति किप्रत्ययः।