33092: उपसर्गे घोः किः ====================== **Padacheda:** उपसर्गे | S | 7 | 1 | घोः | S | 5 | 1 | किः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix कि comes under similar circumstances after a घु verb -- दाधा घ्वदाप् (1.1.20) when an उपसर्ग is in composition with it. Vasu English Translation ------------------------ The affix कि comes under similar circumstances after a घु verb -- दाधा घ्वदाप् (1.1.20) when an उपसर्ग is in composition with it. The क् is indicatory, by force of which the final आ is elided (6.4.64). Thus प्र + दा + कि = प्रदिः 'a present'; प्रधिः 'the periphery of a wheel'; उपाधिः 'fraud'; अन्तर्द्धिः 'vanishing'. Kashika ------- भावेऽकर्तरि च कारक इति वर्तते। उपसर्ग उपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति। कित्करणमातो लोपार्थम्। प्रदिः। प्रधिः। अन्तर्धिः॥ Siddhanta Kaumudi ----------------- प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥ Laghu Siddhanta Kaumudi ----------------------- प्रधिः। उपधिः॥ Tattvabodhini ------------- **उपसर्गे घोः किः** - उपसर्गे [घोः किः । बाहुलकात्कर्तर्यपीति माधवः । अतएव उप = समीपे स्वधर्ममादधातीत्युपाधिरिति व्याचक्षते] । कित्त्वादातो लोपः । अन्तर्धिरिति ।अन्तः शब्दस्याऽङ्किविधी॑ति वार्तिकादुपसर्गत्वम् । उपाधीयतेऽनेनेति । एतेनउप = समीपे स्वधर्ममादधातीत्युपाधिः । बाहुलकात्कर्तरि कि॑रिति माधवादिग्रन्थो नादर्तव्य इति ध्वनितम् ।विधाता विआसृड्विधि॑रित्यत्रापि कर्तरि माभूत् किः, किंतु विध विधाने इत्यस्मादिगुपधात्किदितीति रूपसिद्धेः । Nyaas ----- `किप्रत्ययो भवति` इति। घञोऽपवादः। `कित्करणे लोपार्थम्` इति। **आतो लोप इटि च** (6.4.64) इत्याकारलोपो यथा स्यादिति॥ Prakriyasarvasvam ----------------- स्वप्नः ॥ Sutra Prayogas -------------- * **निधिः** (शिशुपालवधम्): `उपसर्गे घोः किः` इति किप्रत्ययः। * **व्यवधिम्** (शिशुपालवधम्): `उपसर्गे घोः किः` इति किप्रत्ययः। * **अन्तधिं** (शिशुपालवधम्): `उपसर्गे घोः किः` इति किप्रत्ययः। * **निधि** (भट्टिकाव्यम्): `उपसर्गे घोः किः` इति किप्रत्ययः।