33062: स्वनहसोर्वा

Padacheda: स्वन-हसोः | S | 6 | 2 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अप् comes optionally after the verbs 1. स्वन् 2. हस् when no उपसर्ग is in composition with them.

Vasu English Translation

The affix अप् comes optionally after the verbs 1. स्वन् 2. हस् when no उपसर्ग is in composition with them. Thus स्वनः or स्वानः ‘sound’; हसः or हासः ‘laughter’. But with upasargas, we have only one form; प्रस्वानः ‘a loud noise’; प्रहासः ‘a loud laughter’.

Kashika

अनुपसर्ग इत्येव। स्वनहसोरनुपसर्गयोर्वा अप् प्रत्ययो भवति। स्वनः, स्वानः। हसः, हासः। अनुपसर्ग इति किम्? प्रस्वानः। प्रहासः॥

Siddhanta Kaumudi

अप् । पक्षे घञ् । स्वनः । स्वानः । हसः । हासः । अनुपसर्गे इत्येव । प्रस्वानः । प्रहासः ॥

Prakriyasarvasvam

अनुपसर्गयोरनयोरप् वा स्यात् । स्वनः । स्वानः । हसः । हासः । सोपसर्गे प्रस्वानः प्रहासः ॥

Sutra Prayogas

  • सहसा (शिशुपालवधम्): स्वनहसोर्वा इति विकल्पादप्प्रत्ययः।

  • सु-हसा (भट्टिकाव्यम्): स्वनहसोर्वा इत्यप्।

  • राम-स्वनित-सङ्काशः (भट्टिकाव्यम्): स्वन- हसोर्वा इति पक्षे घन्।

  • स-हसाः (भट्टिकाव्यम्): स्वन-ह- सोर्वा इत्यप्।

  • महा-स्वानाः (भट्टिकाव्यम्): स्वनहसोर्वा इत्यप्।