33062: स्वनहसोर्वा ================== **Padacheda:** स्वन-हसोः | S | 6 | 2 | वा | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अप् comes optionally after the verbs 1. स्वन् 2. हस् when no उपसर्ग is in composition with them. Vasu English Translation ------------------------ The affix अप् comes optionally after the verbs 1. स्वन् 2. हस् when no उपसर्ग is in composition with them. Thus स्वनः or स्वानः 'sound'; हसः or हासः 'laughter'. But with *upasargas*, we have only one form; प्रस्वानः 'a loud noise'; प्रहासः 'a loud laughter'. Kashika ------- अनुपसर्ग इत्येव। स्वनहसोरनुपसर्गयोर्वा अप् प्रत्ययो भवति। स्वनः, स्वानः। हसः, हासः। अनुपसर्ग इति किम्? प्रस्वानः। प्रहासः॥ Siddhanta Kaumudi ----------------- अप् । पक्षे घञ् । स्वनः । स्वानः । हसः । हासः । अनुपसर्गे इत्येव । प्रस्वानः । प्रहासः ॥ Prakriyasarvasvam ----------------- अनुपसर्गयोरनयोरप् वा स्यात् । स्वनः । स्वानः । हसः । हासः । सोपसर्गे प्रस्वानः प्रहासः ॥ Sutra Prayogas -------------- * **सहसा** (शिशुपालवधम्): `स्वनहसोर्वा` इति विकल्पादप्प्रत्ययः। * **सु-हसा** (भट्टिकाव्यम्): `स्वनहसोर्वा` इत्यप्। * **राम-स्वनित-सङ्काशः** (भट्टिकाव्यम्): `स्वन- हसोर्वा` इति पक्षे घन्। * **स-हसाः** (भट्टिकाव्यम्): `स्वन-ह- सोर्वा` इत्यप्। * **महा-स्वानाः** (भट्टिकाव्यम्): `स्वनहसोर्वा` इत्यप्।