33059: उपसर्गेऽदः¶
Padacheda: उपसर्गे | S | 7 | 1 |
अदः | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix अप् comes after the verb अद् ‘to eat’ when an उपसर्ग is in composition.
Vasu English Translation¶
The affix अप् comes after the verb अद् ‘to eat’ when an उपसर्ग is in composition. As विघसः (11.4. 38) ‘half-chewed morsel’; प्रघसः ‘voracious’.
Why do we say ‘when compounded with an upasarga’? Observe घासः ‘grass’; अद् + घञ् = घस् + अ (2.4.38).
Kashika¶
अबित्येव। उपसर्ग उपपदेऽदेर्धातोरप् प्रत्ययो भवति। विघसः। प्रघसः। उपसर्ग इति किम्? घासः॥
Siddhanta Kaumudi¶
अप् स्यात् ॥
Padamanjari¶
अदेर्धातोरिति । दारूपाणां धातूनामयं निर्देशो न भवति;’घञपोश्च’ इत्यपि परतोऽदेर्घस्लादेशविधानात् । व्यद्यत इति विघसःउ वैश्वदेवशिष्टमन्नम् । घासस्तु चतुष्पदां भक्ष्यम् । घसिः प्रकृत्यन्तमस्ति तस्मादेवाब्विधेयः । एवं ह्यदेरपि घस्लृभावो न वक्तव्यो भवति । उतरार्थं त्वदेर्ग्रहणम् - नौ ण’च’ अदेर्यथा स्याद्, घसेर्मा भूदिति ॥
Nyaas¶
अदेर्धातोरप्प्रत्ययो भवति इति। घञपवादः। इत उत्तरत्रापि हलन्तादब्विधीयमानो घञोऽपवादो वेदितव्यः। विघसः, प्रघसः इति। घञपोश्च (2.4.38) इति घस्लादेशः। अथ किमर्थमदेरब्विधीयते, न घसेः प्रकृत्यन्तरादेव विधीयते,कः पुनरेवं सति गुणो भवति? अदेरपि घस्लुभावो न कर्तव्यो भवति? सत्यमेतत्; तथाप्युत्तरार्थमदेर्विहितम् - नौ ण च (3.3.60) इत्यदेर्यथा स्यात्, घसेर्मा भूदिति॥
Prakriyasarvasvam¶
<!वशिरण्योरप् वाच्यः!> (वा० ३-३-५८) । वशः । रणः । शब्दः । रणन्त्यत्रेति युद्धं यज्ञश्च ॥ सोपसर्गाददेरप् ॥
Sutra Prayogas¶
सङ्घसाः (भट्टिकाव्यम्): उपसर्गेऽदः इत्यप्।