33059: उपसर्गेऽदः ================= **Padacheda:** उपसर्गे | S | 7 | 1 | अदः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अप् comes after the verb अद् 'to eat' when an उपसर्ग is in composition. Vasu English Translation ------------------------ The affix अप् comes after the verb अद् 'to eat' when an उपसर्ग is in composition. As विघसः (11.4. 38) 'half-chewed morsel'; प्रघसः 'voracious'. Why do we say 'when compounded with an *upasarga*'? Observe घासः 'grass'; अद् + घञ् = घस् + अ (2.4.38). Kashika ------- अबित्येव। उपसर्ग उपपदेऽदेर्धातोरप् प्रत्ययो भवति। विघसः। प्रघसः। उपसर्ग इति किम्? घासः॥ Siddhanta Kaumudi ----------------- अप् स्यात् ॥ Padamanjari ----------- अदेर्धातोरिति । दारूपाणां धातूनामयं निर्देशो न भवति;'घञपोश्च' इत्यपि परतोऽदेर्घस्लादेशविधानात् । व्यद्यत इति विघसःउ वैश्वदेवशिष्टमन्नम् । घासस्तु चतुष्पदां भक्ष्यम् । घसिः प्रकृत्यन्तमस्ति तस्मादेवाब्विधेयः । एवं ह्यदेरपि घस्लृभावो न वक्तव्यो भवति । उतरार्थं त्वदेर्ग्रहणम् - नौ ण'च' अदेर्यथा स्याद्, घसेर्मा भूदिति ॥ Nyaas ----- `अदेर्धातोरप्प्रत्ययो भवति` इति। घञपवादः। इत उत्तरत्रापि हलन्तादब्विधीयमानो घञोऽपवादो वेदितव्यः। `विघसः, प्रघसः` इति। **घञपोश्च** (2.4.38) इति घस्लादेशः। अथ किमर्थमदेरब्विधीयते, न घसेः प्रकृत्यन्तरादेव विधीयते,कः पुनरेवं सति गुणो भवति? अदेरपि घस्लुभावो न कर्तव्यो भवति? सत्यमेतत्; तथाप्युत्तरार्थमदेर्विहितम् - `नौ ण च` (3.3.60) इत्यदेर्यथा स्यात्, घसेर्मा भूदिति॥ Prakriyasarvasvam ----------------- (वा० ३-३-५८) । वशः । रणः । शब्दः । रणन्त्यत्रेति युद्धं यज्ञश्च ॥ सोपसर्गाददेरप् ॥ Sutra Prayogas -------------- * **सङ्घसाः** (भट्टिकाव्यम्): `उपसर्गेऽदः` इत्यप्।