33054: वृणोतेराच्छादने¶
Padacheda: वृणोतेः | S | 5 | 1 |
आच्छादने | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् is optionally used after the verb वृ ‘to choose’ when प्र is in composition and the word so formed means ‘a sort of covering’.
Vasu English Translation¶
The affix घञ् is optionally used after the verb वृ ‘to choose’ when प्र is in composition and the word so formed means ‘a sort of covering’. As प्रावारः or प्रवरः ‘a cloak, a veil’.
Why do we say ‘when it means a covering’? Observe प्रवरागौ ।
Kashika¶
विभाषा प्र इति वर्तते। प्रशब्द उपपदे वृणोतेर्धातोर्विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तेन चेदाच्छादनविशेष उच्यते। प्रावारः, प्रवरः। आच्छादन इति किम्? प्रवरा गौः॥
Siddhanta Kaumudi¶
विभाषा प्र इत्येव । प्रावारः । प्रवरः ॥
Tattvabodhini¶
वृणोतेराच्छादने - वृणोते । [प्रावार इति ।उपर्गस्य घञ्यमनुष्ये बहुल॑मित्युपसर्गस्य दीर्घः] । आच्छादने किम् । प्रवरो गौः । प्रशस्त इत्यर्थः ।
Padamanjari¶
अत्राप्याच्छादन इति सामान्येनोक्तावपि पूर्ववद्विशेषप्रतिपतिरित्याह - प्रत्ययान्तेन चेदिति । प्रावार इति । पूर्ववद्दीर्घः । प्रवरा गौरिति । प्रशस्तेत्यर्थः ॥
Nyaas¶
वृणोतेः`इति। श्नुविकरणेन निर्देशो वृङो निवृत्त्यर्थः। अत्रापि सामान्यवाचित्वे प्राग्वदाच्छादनशब्दादन्यत्र। पक्षे `ग्रहवृदृ (3.3.58) इत्यादिनाब्भवति॥
Prakriyasarvasvam¶
प्रपूर्वाद्वृञोऽस्मिन् वाच्ये वा घञ् । प्रावारः प्रवरश्चाच्छादनपटः ॥ <karika> क्रियाभ्यावृत्तिसमयसमूहेषु च भोजराट् । द्वौ वारावद्य मे वारो गवां वारश्च सञ्चये ॥ १५३ ॥ </karika> परिधारस्तु ण्यन्ताद् बाहुलकेन कर्तरि घञि । तत्रापि मनुष्येष्वदीर्घः । अन्यत्र परीवाराः कपयः । यक्षकोटिपरीवाराः ॥
Sutra Prayogas¶
प्रावारैः (भट्टिकाव्यम्): वृणोतेराच्छादने इति घन्।