33052: प्रे वणिजाम्¶
Padacheda: प्रे | S | 7 | 1 |
वणिजाम् | S | 6 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix घञ् is optionally used after the root ग्रह् ‘to seize’ in composition with प्र when the word so formed relates to commerce.
Vasu English Translation¶
The affix घञ् is optionally used after the root ग्रह् ‘to seize’ in composition with प्र when the word so formed relates to commerce. Both the words grah and vibhasha are understood here. By ‘relation to commerce’ is meant here the string of the balance; and not commerce in general. That string by which a balance is held is called तुलाप्रग्रहः or तुलाप्रग्राहः, as तुलाप्रग्राहेण चरति or तुलाप्रग्रहेण चरति; and this may be said of any person whether he be a trader or not.
Why do we say ‘when belonging to commerce’? Observe प्रग्रहो देवदत्तस्य ‘the whip of Devadatta’.
Kashika¶
ग्रह इति वर्तते। विभाषेत्येव। प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तवाच्यश्चेद् वणिजां संबन्धी भवति। वणिक्संबन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस्तन्त्रम्। तुला प्रगृह्यते येन सूत्रेण स शब्दार्थः। तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा। वणिजामिति किम्? प्रग्रहो देवदत्तस्य॥
Siddhanta Kaumudi¶
प्रे ग्रहेर्घञ् वा वणिजां सम्बन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण वा ॥
Padamanjari¶
पणन्ते व्यवहरन्तीति वणिजः,’पणेरिज्यादेश्च वः’ ,’पण व्यवहारे’ इत्यस्मादिजिप्रत्ययो भवत्यादेश्च वकारः । वणिक्सम्बन्धेनेति । तुलासूत्रं प्रायेण वणिजां भवतीति साहचर्यं लक्षणाहेतुः । अनयो वेति । न तु वणिजस्तन्त्रमित्यस्येदं प्रयोजनम् ॥
Nyaas¶
वणिक्सम्बन्धन च इत्यादि। तुलासूत्रं हि प्रायेण वणिजासम्बद्धम् = सहचरम्, ततः साहचर्याद्वणिक्सम्बन्धेन तदुपलक्ष्यते। नात्र वणिजां प्राधान्याम्। तस्मात् तदेव तुलादिसूत्रं तदन्यशब्दस्याभिधेयम्॥
Prakriyasarvasvam¶
वणिक्सम्बन्धेऽर्थे वाच्ये प्रग्रहेर्वा घञ् । प्रग्राहः प्रग्रहश्च तुलाग्रहणसूत्रम् ॥
Sutra Prayogas¶
वणिक्प्रग्राह-वान्यद्वत्काले (भट्टिकाव्यम्): प्रे वणिजाम् इति करणे घञ्।