33052: प्रे वणिजाम् =================== **Padacheda:** प्रे | S | 7 | 1 | वणिजाम् | S | 6 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The affix घञ् is optionally used after the root ग्रह् 'to seize' in composition with प्र when the word so formed relates to commerce. Vasu English Translation ------------------------ The affix घञ् is optionally used after the root ग्रह् 'to seize' in composition with प्र when the word so formed relates to commerce. Both the words *grah* and *vibhasha* are understood here. By 'relation to commerce' is meant here the string of the balance; and not commerce in general. That string by which a balance is held is called तुलाप्रग्रहः or तुलाप्रग्राहः, as तुलाप्रग्राहेण चरति or तुलाप्रग्रहेण चरति; and this may be said of any person whether he be a trader or not. Why do we say 'when belonging to commerce'? Observe प्रग्रहो देवदत्तस्य 'the whip of *Devadatta*'. Kashika ------- ग्रह इति वर्तते। विभाषेत्येव। प्रशब्द उपपदे ग्रहेर्धातोर्विभाषा घञ् प्रत्ययो भवति, प्रत्ययान्तवाच्यश्चेद् वणिजां संबन्धी भवति। वणिक्संबन्धेन च तुलासूत्रं लक्ष्यते, न तु वणिजस्तन्त्रम्। तुला प्रगृह्यते येन सूत्रेण स शब्दार्थः। तुलाप्रग्राहेण चरति, तुलाप्रग्रहेण चरति वणिगन्यो वा। वणिजामिति किम्? प्रग्रहो देवदत्तस्य॥ Siddhanta Kaumudi ----------------- प्रे ग्रहेर्घञ् वा वणिजां सम्बन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण वा ॥ Padamanjari ----------- पणन्ते व्यवहरन्तीति वणिजः,'पणेरिज्यादेश्च वः' ,'पण व्यवहारे' इत्यस्मादिजिप्रत्ययो भवत्यादेश्च वकारः । वणिक्सम्बन्धेनेति । तुलासूत्रं प्रायेण वणिजां भवतीति साहचर्यं लक्षणाहेतुः । अनयो वेति । न तु वणिजस्तन्त्रमित्यस्येदं प्रयोजनम् ॥ Nyaas ----- `वणिक्सम्बन्धन च` इत्यादि। तुलासूत्रं हि प्रायेण वणिजासम्बद्धम् = सहचरम्, ततः साहचर्याद्वणिक्सम्बन्धेन तदुपलक्ष्यते। नात्र वणिजां प्राधान्याम्। तस्मात् तदेव तुलादिसूत्रं तदन्यशब्दस्याभिधेयम्॥ Prakriyasarvasvam ----------------- वणिक्सम्बन्धेऽर्थे वाच्ये प्रग्रहेर्वा घञ् । प्रग्राहः प्रग्रहश्च तुलाग्रहणसूत्रम् ॥ Sutra Prayogas -------------- * **वणिक्प्रग्राह-वान्यद्वत्काले** (भट्टिकाव्यम्): `प्रे वणिजाम्` इति करणे घञ्।