33038: परावनुपात्यय इणः

Padacheda: परौ | S | 7 | 1 |

अवनुपात्यये | S | 7 | 1 |

इणः | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix घञ् comes after the root इ ‘to go’ in composition with the word परि when the sense is that of following in regular succession.

Vasu English Translation

The affix घञ् comes after the root इ ‘to go’ in composition with the word परि when the sense is that of following in regular succession. As पर्यायः ‘turn, succession’; तव पर्यायः ‘thy turn’; मम पर्यायः ‘my turn’.

Why do we say ‘when meaning turn’? Observe कालस्य पर्ययः ‘the lapse of time’. The word अनुपात्ययः क्रमप्राप्तस्यानतिपातः ‘not breaking the series or order’.

Bhashya

प्रियवशे वदः खच् (805) (484 खच्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.16 सू.) (2033 खच्प्रत्ययवार्तिकम्॥ 1 ॥) - खच्प्रकरणे गमेः सुपि उपसंख्यानम्- (भाष्यम्) खच्प्रकरणे गमेः सुपि उपसंख्यानं कर्तव्यम्। मितंगमो हस्ती मितंगमा हस्तिनी॥ (2034 वार्तिकम्॥ 2 ॥) - खच्च डिद्धा- (भाष्यम्) डे च विहायसो विह इत्ययमादेशो वक्तव्यः विहगः॥ प्रियवशे॥ 38 ॥

Kashika

परिशब्द उपपद इणो धातोर्घञ् प्रत्ययो भवति, अनुपात्यये गम्यमाने। क्रमप्राप्तस्यानतिपातोऽनुपात्ययः, परिपाटी। तव पर्यायः। मम पर्यायः अनुपात्यय इति किम्? कालस्य पर्ययः। अतिपात इत्यर्थः॥

Siddhanta Kaumudi

क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥

Tattvabodhini

परावनुपात्यय इणः - परावनु । अत्र व्याचख्युः — द्विः परिग्रहणमिह व्यर्थम् । सकृदेव कर्तुं शक्यम् । तथा हि — परौ नियो द्यूते॑,इणोऽनुपात्यये॑,नावभ्रेषे॑ । इह इण इत्यनुवर्तनादिणोऽनुपात्यय इत्यत्र तु परावित्यनुवर्तनाच्चेष्टं सिध्यतीति भावः । ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः, तथा च तदनुवृत्त्यैव सिद्धे पर्यायग्रहणमिह बाधित्वाऽयमेव घञ् भवतीति ।

Padamanjari

इह द्विः परिग्रहणम्, द्विश्चेण्ग्रहणं क्रियते, सकृदेव तु कर्तव्यम्, एवं वक्ष्यामि - परौ नियो द्यौते इणोऽनुपात्यये नावभ्रेष इति ? सत्यम्; तथा तु न कृतमित्येव ॥

Nyaas

अनतिपातः इति। अनितक्रम इत्यर्थः। अतिपात इत्यर्थः इति। अतिक्रम इत्यर्थः॥

Prakriyasarvasvam

क्रमस्यानतिक्रमोऽनुपात्ययः । तस्मिन् वाच्ये परिपूर्वादिणो घञ् । पर्यायेण भुञ्जते ॥

Sutra Prayogas

  • पर्यायेणा (भट्टिकाव्यम्): परावनुपात्यय इणः इति भावे घञ् ।