33038: परावनुपात्यय इणः ======================= **Padacheda:** परौ | S | 7 | 1 | अवनुपात्यये | S | 7 | 1 | इणः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix घञ् comes after the root इ 'to go' in composition with the word परि when the sense is that of following in regular succession. Vasu English Translation ------------------------ The affix घञ् comes after the root इ 'to go' in composition with the word परि when the sense is that of following in regular succession. As पर्यायः 'turn, succession'; तव पर्यायः 'thy turn'; मम पर्यायः 'my turn'. Why do we say 'when meaning turn'? Observe कालस्य पर्ययः 'the lapse of time'. The word अनुपात्ययः क्रमप्राप्तस्यानतिपातः 'not breaking the series or order'. Bhashya ------- प्रियवशे वदः खच् (805) (484 खच्प्रत्ययविधिसूत्रम्॥ 3 । 2 । 1 आ.16 सू.) (2033 खच्प्रत्ययवार्तिकम्॥ 1 ॥) - खच्प्रकरणे गमेः सुपि उपसंख्यानम्- (भाष्यम्) खच्प्रकरणे गमेः सुपि उपसंख्यानं कर्तव्यम्। मितंगमो हस्ती मितंगमा हस्तिनी॥ (2034 वार्तिकम्॥ 2 ॥) - खच्च डिद्धा- (भाष्यम्) डे च विहायसो विह इत्ययमादेशो वक्तव्यः विहगः॥ प्रियवशे॥ 38 ॥ Kashika ------- परिशब्द उपपद इणो धातोर्घञ् प्रत्ययो भवति, अनुपात्यये गम्यमाने। क्रमप्राप्तस्यानतिपातोऽनुपात्ययः, परिपाटी। तव पर्यायः। मम पर्यायः अनुपात्यय इति किम्? कालस्य पर्ययः। अतिपात इत्यर्थः॥ Siddhanta Kaumudi ----------------- क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥ Tattvabodhini ------------- **परावनुपात्यय इणः** - परावनु । अत्र व्याचख्युः — द्विः परिग्रहणमिह व्यर्थम् । सकृदेव कर्तुं शक्यम् । तथा हि — परौ नियो द्यूते॑,इणोऽनुपात्यये॑,नावभ्रेषे॑ । इह इण इत्यनुवर्तनादिणोऽनुपात्यय इत्यत्र तु परावित्यनुवर्तनाच्चेष्टं सिध्यतीति भावः । ननु पूर्वसूत्रेऽनुपात्ययः पर्यायार्थकत्वेन व्याख्यातः, तथा च तदनुवृत्त्यैव सिद्धे पर्यायग्रहणमिह बाधित्वाऽयमेव घञ् भवतीति । Padamanjari ----------- इह द्विः परिग्रहणम्, द्विश्चेण्ग्रहणं क्रियते, सकृदेव तु कर्तव्यम्, एवं वक्ष्यामि - परौ नियो द्यौते इणोऽनुपात्यये नावभ्रेष इति ? सत्यम्; तथा तु न कृतमित्येव ॥ Nyaas ----- `अनतिपातः` इति। अनितक्रम इत्यर्थः। `अतिपात इत्यर्थः` इति। अतिक्रम इत्यर्थः॥ Prakriyasarvasvam ----------------- क्रमस्यानतिक्रमोऽनुपात्ययः । तस्मिन् वाच्ये परिपूर्वादिणो घञ् । पर्यायेण भुञ्जते ॥ Sutra Prayogas -------------- * **पर्यायेणा** (भट्टिकाव्यम्): `परावनुपात्यय इणः` इति भावे घञ् ।