33011: भाववचनाश्च¶
Padacheda: भाववचनाः | S | 1 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the affixes that are ordained to come after a root with the force of denoting the mere action of the verb, such as धञ् etc. – लोहितादिडाज्भ्यः क्यष् (3.1.3), have also the force of the future, when the word in construction therewith is another verb denoting an action performed for the sake of the future action.
Vasu English Translation¶
And the affixes that are ordained to come after a root with the force of denoting the mere action of the verb, such as धञ् etc. – लोहितादिडाज्भ्यः क्यष् (3.1.3), have also the force of the future, when the word in construction therewith is another verb denoting an action performed for the sake of the future action. As पाकाय व्रजति ‘he goes to cook’; भूतये व्रजति ‘he goes for the sake of success’; पुष्टये व्रजति ।
Now it might be asked, why make this rule at all, when those affixes have already been ordained? It has already been said that the वाऽसरूप rule does not apply in regard to infinitive; and hence तुमुन् would have prevented the application of other affixes. So the making of the present sutra.
Why the word वचन has been employed in the sutra ? The meaning is that the words should be expressive or वाचक. How do the affixes become वाचक ? When affixes which are ordained after certain bases, are employed after those bases only, then they are said to be वाचक, not when they are employed after other bases, or are even after those bases, but not in the mode as directed. So that, in short, those nouns only which have been especially formed by the भाववाच्य affixes, घञ् &c, can be employed with the force of gerund, and not every noun. The भाववाच्य nouns correspond to the nouns of action or verbal nouns.
Bhashya¶
भाववचनाश्च (976) (537 भावार्थकप्रत्ययविधिसूत्रम्॥ 3 । 3 । 1 आ.6 ) (आक्षेपभाष्यम्) किमर्थमिदमुच्यते, न अविशेषेण भावे ये प्रत्यया विहितास्ते क्रियायामुपपदे क्रियार्थायामन्यत्र च भविष्यन्ति॥ (समाधानवार्तिकावतरणभाष्यम्॥) अत उत्तरं पठति - (4000 वार्तिकम्॥ 1 ॥) - भाववचनानां यथाविहितानां प्रतिपदविध्यर्थम्- (भाष्यम्) भाववचनानां च यथाविहितानां प्रतिपदविध्यर्थोऽयमारम्भः। इदानीमेव ह्युक्तं क्रियार्थायां वाऽसरूपेण तृजादयो न भवन्तीति। भवाववचनाश्चापि तृजादयः॥ अस्ति प्रयोजनमेतत्। किं तर्हीति। (4001 वार्तिकम्॥ 1 ॥) - यथाविहिता इति तु - (भाष्यम्) यथाविहिता इति तु वक्तव्यम्। किं प्रयोजनम्? (इह) याभ्यः प्रकृतिभ्यो येन विशेषण भावे प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तनैव विशेषेण क्रियायामुपपदे क्रियार्थायां यथा स्युः। व्यतिकरो मा भूदिति। (आक्षेपभाष्यम्) तत्तर्हि वक्तव्यम्॥ (सामाधानभाष्यम्) न वक्तव्यम्। इह भावे प्रत्यया भवन्तीतीयता सिद्धम्। सोयमेवं सिद्धे सति यद्वचनग्रहणं करोति। तस्यैतत्प्रयोजनम्। - वाचका यथा स्युरिति। यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्यया विहितास्ताभ्यः प्रकृतिभ्यस्तेन विशेषेण क्रियायामुपपदे क्रियार्थायामपि भवन्ति ततोमी ततोमी वाचकाः कृताः स्युः। अथ हि धातुमात्राद् वा स्युः प्रत्ययमात्रं वा स्यात्, ततो नामी वाचकाः कृताः स्युः॥ भाववचनाश्च॥ 11 ॥
Kashika¶
भविष्यतीत्येव। **भावे**(३.३.१८) इति प्रकृत्य ये घञादयो विहितास्ते च भाववचना भविष्यति काले क्रियायामुपपदे क्रियार्थायां भवन्ति। किमर्थमिदं यावता विहिता एव ते? क्रियार्थोपपदे विहितेनास्मिन्विषये तुमुना बाध्येरन्। वासरूपविधिश्चात्र नास्तीत्युक्तम् (३.३.१०)। अथ वचनग्रहणं किमर्थम्? वाचका यथा स्युः। कथं च वाचका भवन्ति? याभ्यः प्रकृतिभ्यो येन विशेषणेन विहिताः, यदि ताभ्यस्तथैव भवन्ति, नासामञ्जस्येनेति। पाकाय व्रजति। भूतये व्रजति। पुष्टये व्रजति॥
Siddhanta Kaumudi¶
भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥
Padamanjari¶
वक्तीति वचनः,’कृत्यल्युटो बहुलम्’ इति कर्तरि ल्युट्, करण एव वा - भाव उच्यते येन स भाववचनः । अत्र पुरुषाः कर्तारः, भावाधिकारविहिता एव भाववचना भवन्तीत्याह - भाव इति प्रकृत्येति । तुमुना बाध्येरन्निति । लृट् तु भावकर्मकर्तृषु त्रिषु विधानादसमानार्थः । किञ्चि, धात्वर्थस्य सिद्धतायां घञादयः, शुद्धे तु धात्वर्थे लकारः, अतोऽप्यसमानार्थत्वम् । इह’भावे’ इत्येतावद्वक्तव्यम्, एवमपि ह्युच्यमाने भावे ये विहितास्ते क्रियायां क्रियार्थायामुपपदे भवन्तीत्यर्थो लभ्यत एव, तदपार्थकं वचनग्रहणमिति मत्वा पृच्छति - अथेति । वाचका यथा स्युरिति । वचनग्रहणे हि सति भाववचनाः सन्तो घञादयोऽस्मिन्विषये भवन्तीत्यर्थो भवति, भावस्य वाचकाः सन्तो भवन्तीत्यर्थः । एतदेव प्रश्नपूर्वकं विवृणोति - कथं चेति । याभ्य प्रकृतिभ्य इति । इवर्णान्तेभ्योऽच्, ऋवर्णान्तेभ्य उवर्णान्तेभ्यश्चाबिति । एवम् येन विशेषणेनेति ।’हस्तादाने चेरस्तेये’ ,’श्रिणीभुवो’ नुपसर्गेऽ इत्यादिना । असामञ्जस्यमुव्यतिकरः, अन्योऽन्यविषयावगाहनमिति यावत् । पाकायेत्यादौ’तुमर्थाच्च भाववचनात्’ इति चतुर्थो ॥
Nyaas¶
भाववचनाः इति। ब्राउवन्तीति वचनाः, बहुलचनात् कर्तरि ल्युट्। भावस्य वचना भाववचनाः। भाववचनत्वं पुनस्तेषां भावाधिकारे विधानादिति दर्शयितुमाह - भावे इति प्रकृत्य`इत्यादि। प्रकृत्य अधिकृत्येत्यर्थः। `घञादयः`इति। आदिशब्देनाजबादीनां ग्रहणम्। `किमर्थम् इत्यादि चोद्यम्। क्रियार्थोपपदे विहितेन इत्यादि परिहारः। स्यादेतत् - वासरूपविधिना ते भविष्यन्ति। अत आह - वासरूपविधिश्च नास्तीत्युक्तम् इति। एतच्च पूर्वसूत्र उक्तम्।अथ ` इत्यादि। भाव इत्येतावद्वक्तव्यम्; एवं ह्रुच्यमाने सतीदमेव घञादीनां विधायकं स्यात्,ततश्च ते धातुमात्रादविशेधेम प्रसज्येरन्; विशेधानुपादानात्। वचनग्रहणादयमर्थो लभ्यते - भावे ये विहिताः प्रत्ययास्ते तथा भवन्ति यथा भावस्य वाचका भवन्तीति। यथा च ते भावस्य वाचका भवन्ति तथा प्रश्नपूर्वकं दर्शयितुमाह - `कथञ्च इत्यादिना। नामसामञ्जस्येन इति। न व्यतिरेकेण,नानियमेनेत्यर्थः।तत्र केचिदाहुः- वचनग्रहणाद्यैरेव विधिवाक्यैर्भाव एषां विधानं तैरेव क्रियायामुपपदे क्रियार्थायां भवन्ति, एवञ्चते वाचका भवन्ति, नान्यथेति। अन्ये त्वाहुः - एतदेव सूत्रं विधायकम्; वचनग्रहणसामर्थ्यात्। अनेनापि तथैषां विधानं भवति यथा स्वैर्विधिवाक्यैः। यदि भावे हि तद्विधिः, नान्यस्मिन्नपि विषये भविष्यति। तत् तस्मात् पुनर्विधीयत इति॥
Prakriyasarvasvam¶
उक्तप्रकारे तुमूनर्थे भाववचना घञादयः स्युः ॥
Sutra Prayogas¶
विघाताय (किरातार्जुनीयम्): भाववचनाश्च इति तुमर्थे घञ्प्रत्ययः ।
सीता-लाभाय (भट्टिकाव्यम्): भाववचनाच्च इति क्रियायां क्रियार्थायामुपपदे भविष्यति घञ्।
राघव-भूतये (भट्टिकाव्यम्): भाववचनाच्च इति भविष्यति क्तिन्।
स्वप्ने (भट्टिकाव्यम्): स्वपो नन् इति नन्प्रत्ययः।