33010: तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्

Padacheda: तुमुन्-ण्वुलौ | S | 1 | 2 |

क्रियायाम् | S | 7 | 1 |

क्रियार्थायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

The affixes तुमुन् and ण्वुल् are placed after a verbal root with the force of the future when the word in construction therewith is another verb, denoting an action performed for the sake of the (future) action.

Vasu English Translation

The affixes तुमुन् and ण्वुल् are placed after a verbal root with the force of the future when the word in construction therewith is another verb, denoting an action performed for the sake of the (future) action. As भोक्तुम् व्रजति ‘he goes to eat’; भोजको व्रजति ‘he goes to eat’. Here the upapada or the verb in construction is व्रजति; it denotes an action performed for the sake of the future action (क्रियार्था), namely, eating.

Why do we say ‘denoting an action’? The upapada must be an action and not a substantive; as भिक्षिस्ये इति अस्य जटाः ‘matted hair is for the purpose that he should beg.’ Here the affixes are not employed.

Why do we say ‘performed for the sake of another action’? Observe धावतस्ते पतिष्यति दण्डः ‘running, thy stick will fall’.

Now, it might be asked why ण्वुल् is taught a second time, when it was already taught generally by rule (3.1.133); and that being a common rule, would have applied to this subject also? If you reply that the future affix लृट् would have prevented its application, in conditional sentences like the above, we say that the rule of ‘non-uniform affixes applying simultaneously’ given in (3.1.94) will step in and will conduce the application of ण्वुल् in spite of लृट्.

Vart:- The repetition of the affix ण्वुल् (ordained to come after a verbal root, when the word in construction therewith is another verb denoting an action performed for the sake of the future action,) is for the sake of prohibiting the application of the affixes like तृच् &c. in denoting the above sense; that is to say, the rule of वाऽसरूप (3.1.94) does not apply here and we cannot optionally employ any other affix, with this gerundial sense. Thus we cannot say कर्त्ता व्रजति ‘he goes to do’; but we must say कर्तुम् instead.

These affixes form the gerund of the infinitive of purpose.

Bhashya

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (975) (537 तुमुन्ण्वुल्प्रत्ययविधिसूत्रम्॥ 3 । 3 । 1आ.5) (आक्षेपभाष्यम्) किमर्थे क्रियायामुपपदे क्रियार्थायां ण्वुल्विधीयते, न अविशेषेण विहितः ण्वुल्। स क्रियायां चोपपदे क्रियार्थायामन्यत्र च भविष्यति॥ (समाधानभाष्यम्) ण्वुलि सकर्मकग्रहणं चोदितम्। अकर्मकार्थोयमारम्भः। आसको व्रजति। शायको व्रजतीति॥ (समाधानबाधकभाष्यम्) प्रत्याख्यातं तत् न वा धातुमात्राद्दर्शनाद्दर्शनाद् ण्वुलः इति॥ (समाधानान्तरभाष्यम्) एवं तर्हि तृजादिषु वर्तमानकालोपादानं चोदितम्। अवर्तमानकालार्थोयमारम्भः॥ (समाधानबाधकभाष्यम्) तदपि प्रत्याख्यातम् - न वा कालमात्रे दर्शनादन्येषाम् इति॥ (प्रयोजनान्तरभाष्यम्) इदं तर्हि प्रयोजनम् - -अकेनोर्भविष्यदाधर्मण्ययोः इत्यत्र षष्ठ्याः प्रतिषेध उक्तः। स यथा स्यात्। (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। य एवासावविशेषेण विहितः स यदा भविष्यति तदास्य प्रतिषेधो भविष्यति। (प्रयोजनभाष्यम्) एवं तर्हि भविष्यदधिकारविहितस्य प्रतिषेधो यथा स्यात्। इह माभूत् - अङ्ग यजतां लप्स्यन्तेऽस्य याजकाःउय एनं याजयिष्यन्तीति। (प्रयोजननिरासभाष्यम्) नैष भविष्यत्कालः॥ कस्तर्हि? भूतकालः॥ कथं तर्हि भविष्यत्कालता गम्यते? धातुसंबन्धे प्रत्ययाः इति॥ (आक्षेपभाष्यम्) यस्तर्हि न धातुसंबन्धः। इमेऽस्य याजकाः। इमेऽस्य लावका इति॥ (समाधानभाष्यम्) एषोपि भूतकालः॥ कथं तर्हि भविष्यत्कालता गम्यते? संबन्धात्। स च तावत्तैरयाजितो भवति। तस्य च तावत्तैर्यवा अलूना भवन्ति। उच्यते च॥ (प्रयोजनभाष्यम्) इदं तर्हि प्रयोजनम् - अयं क्रियायामुपपदे क्रियार्थायां तुमुन् विधीयते। स विशेषविहितः सामान्यविहितं ण्वुलं बाधेत॥ (प्रयोजननिराकरणभाष्यम्) एतदपि नास्ति प्रयोजनम्। भावे तुमुन्विधीयते कर्तरि ण्वुल्। तत्र कः प्रसङ्गो यद्भावे विहितस्तुमुन्कर्तरि विहितं ण्वुलं बाधेत॥ (प्रयोजनभाष्यम्) लृट् तर्हि बाधेत॥ (प्रयोजननिराकरणभाष्यम्) वासरूपेण ण्वुलपि भविष्यति॥ (3098 वार्तिकावतरणसमाधानभाष्यम्॥ 1 ॥) अत उत्तरं पठति - (3099 समाधानवार्तिकम्॥ 2 ॥) - ण्वुलः क्रियार्थोपपदस्य पुनर्विधानं तृजादिप्रतिषेधार्थम्- (भाष्यम्) ण्वलुः क्रियार्थोपपदस्य पुनर्विधानं क्रियते। (किमर्थम्?) ज्ञापकार्थम्॥ किं ज्ञाप्यम्? एतजू ज्ञापयत्याचार्यः - क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्तीति। ण्वुलपि तृजादिः॥ तुमन्ण्वुलौ॥ 10 ॥ ?B

Kashika

भविष्यतीत्येव। क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययो भवतः। भोक्तुं व्रजति। भोजको व्रजति। भुजिक्रियार्थो व्रजिरत्रोपपदम्। क्रियायामिति किम्? भिक्षिष्य इत्यस्य जटाः। क्रियार्थायामिति किम्? धावतस्ते पतिष्यति दण्डः। अथ किमर्थं ण्वुल् विधीयते, यावता ण्वुल्तृचौ (३.१.१३३) इति सामान्येन विहित एव, सोऽस्मिन्नपि विषये भविष्यति? लृटा क्रियार्थोपपदेन बाध्यते। वासरूपविधिना सोऽपि भविष्यति? एवं तर्ह्येतज् ज्ञाप्यते — क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयो न भवन्ति (महाभाष्य २.१४१) इति। तेन कर्ता व्रजति, विक्षिपो व्रजतीत्येवमादि निवर्त्यते॥

Siddhanta Kaumudi

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपेण तृजादयो न । पुनर्ण्वुलुक्तेः ॥

Laghu Siddhanta Kaumudi

क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति ॥

Tattvabodhini

तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् - तुमुन्ण्वुलौ । क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्याम् । अत्रेदं बोध्यं — तुमुन्ण्वुलोः कृत्त्वाऽविशेषेऽपिअव्य्यकृतो भावे॑ इति वचनाद्भावे तुमुन् । ण्वुल्तु कर्तरि । क्रियायामिति सप्तमीनिर्दशात्तद्वाचकस्य यातीत्यादेःतत्रोपपदं सप्तमीस्थमित्युपपदत्वमिति । कृष्णं द्रष्टुमिति । कृष्णकर्मकं यद्भविष्यद्दर्शनं तत्प्रयोजकं यानमित्यर्थः । कृष्णं दर्शक इति । कृष्णकर्मकभविष्यद्दर्शनकर्तृकर्तृकं दर्शनप्रयोजनकं च यानमित्यर्थः । क्रियायां किम् । भिक्षिष्ये इत्यस्य जटाः । इह भिक्षार्था जटाः, ताश्च द्रव्यं, न तु क्रिया,भिक्षितुं जटा॑ इति प्रयोगस्तु धारयतीत्यध्याहारेण समर्थनीयः । क्रियार्थायां किम् ।धावतस्ते पतिष्यति दण्डः॑ । अस्त्यत्र धावत इति क्रिया, न त्वसौ दण्डपतनार्था । धावनं तु दण्डपतने हेतुर्भवति न तूद्देश्यमिति दिक् ।

Padamanjari

भिक्षिष्य इत्यस्य जटा इति । अत्र भिक्षणक्रियार्थत्वं जटानाम्, न तु क्रियात्वम्; द्रव्यत्वाज्जटानाम् । धावतस्ते पतिष्यति दण्ड इति । अस्त्यत्र धावनक्रियोपपदम्, न त्वसौ दण्डपातनार्थं धावति, किं तर्हि ? धावतोऽर्थात्पतिष्यति दण्डः । उद्दे शेन हि तादर्थ्यं विविच्यते, न तु हेतुत्वमात्रेण तादर्थ्यम् । अथेत्यादि चोद्यम् । परिहरति - लृटा क्रियार्थोपपदेनेति । तुमुना तु बाधो नाशङ्कनीयः; भिन्नार्थत्वात् - कर्तरि ण्वुल्, तुमुन् पुनर्भावे । कथम् ?’तुमर्थे सेसेन्’ इत्यत्र तुमर्थग्रहणात् । यदि हि’कर्तरि कृत्’ इति वचनात्कर्तरि तुमुन् स्यातद्वदेव सेसेन्प्रभृतयोऽपि कर्तरि भविष्यन्ति । अतस्तुमर्थग्रहणात्कर्तुस्तावदयमपकृष्यते । न चान्योऽर्थो निदिश्यते, अनिदिष्टार्थाश्च प्रत्ययाः स्वार्थे भवन्ति । कश्च धातोः स्वार्थः ? भाव एव । लृट् तु यद्यपि भावकर्मणोश्चरितार्थस्तथापि क्रियायां क्रियार्थायामुपपदे भविष्यति काले च विधानाद्विसेषविहितः । ण्वुल्विधौ तु कर्तरीति न श्रूयते, अतोऽसौ विशेषविहितेन लृटा बाध्यते । अथ वा किं न एतेन विशेषविहित इति, द्वयोःसावकाशत्वेऽपि परत्वाल्लृट् ण्वुलं बाधएत । पुनश्चोदयति - वासरूपविधिनेति । परिहरति - एवं तर्हीति । नन्वसति प्रयोजने ज्ञापकं भवति, अस्ति चात्र प्रयोजनम्, किम् ? ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इति षष्ठीप्रतिषेधो भविष्यदधिकारविहितस्याकस्य प्रयोगे यथा स्यात्, वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र मा भूदिति ? एवं मन्यते - पदान्तरसन्निधानादत्र भविष्यत्कालत्वं गम्यते । यदा हि बालविषयमेतत्प्रयुज्यते तदा तस्यामवस्थायां वर्षशतपूरणस्य पुत्रपौत्रदर्शनस्य चासम्भवातावन्तमसौ कालं जीविष्यतीत्यर्थाद्गम्यते, न त्वत्र पदार्थो भविष्यत्कालत्वमिति । स्थिते त्वस्मिन् ण्वुल्विधाने’वषशतस्य पूरकः’ इत्यादौ भविष्यत्कालस्य पदार्थत्वेऽपि न दोष इत्यभिप्रायेण ठकेनोर्भविष्यदाधमर्ण्ययोःऽ इत्यत्रोक्तम् - भविष्यदधिकारविहितस्याकस्येदं ग्रहणम्, तेन वर्षशतस्य पूरकः पुत्रपौत्राणां दर्शक इत्यत्र न भवतीति ॥

Nyaas

भिक्षिष्य इत्यस्य जटाः इति। लृट्, अनुदात्तेत्त्वादात्मनेपदम्ुत्तमपुरुषैकवचनम्, इट्, टेरेत्त्वम्, अतो गुणे (6.1.97) पररूपत्वम्। अत्रास्ति भिक्षिक्रियार्थमुपपदं जटाशब्दः, न तु जटाशब्दः क्रियावचनः; जटानां द्रव्यत्वात्। धावतस्ते पतिष्यति दण्डः`इति। `धाव् गतिशुद्धयोः`(धातुपाठः-601), लट्, तस्य शत्रादेशः, षष्ठएकवचनम्। अथ वा `सृ गतौ (धातुपाठः-935)इत्यस्य प्राघ्रादिसूत्रेण (7.3.78) धावादेशः। अस्त्यत्र धावतिक्रियोपपदम्, न तु क्रियार्थः। अर्थशब्दो ह्रयं प्रयोजनवचनः, यच्च यदुद्दिश्य प्रवर्तते तत्तस्य प्रयोजनं भवति, न चासौ दण्डपतनमुद्दिश्य धावति, किं तर्हि? कार्यान्तरार्थम्।अथ इत्यादि चोद्यम्। सामान्येन विहित एव`इति। भविष्यत्यन्यत्र च काले क्रियायां क्रियार्थायामुपपदेऽन्यत्र चाविशेषेण विधानात्। `लृटा इत्यादि परिहारः। लृट शेषे च (3.3.13) इति लृटं वक्ष्यति, तेन विशेषविहितेन लृटा बाध्यते, तन्मा भूतत्तस्य बाधेति पुनरिह विधीयते। अथ तुमुन् क्रियार्थोपपदेन बाध्यत इत्येतत् क्समान्नोक्तम्? भिन्नार्थत्वात्। न हि भिन्नार्थयोर्बाध्यबाधकभावो भवति, भिन्नार्थो च ण्वुल्तुमुनौ। तथा हि - कर्तरि ण्वुल्, तुमुन् पुनर्भावे। कथं ज्ञायते? तुमर्थे सेसेन् (3.4.9) इत्यत्र तुमर्थग्रहणात्। यदि तुमुन् कर्तरि कृत् (3.4.67) इत्यतो वचनात् कर्तरि स्यात्,ततः सेसेन्प्रभृतयोऽपि तत्रैव भविष्यन्तीति तुमर्थग्रहणं न कुर्यात्, कृतवांश्च, ततस्तुमर्थग्रहणादवसीयते - तुमुन् कर्तरि न भवति। न चान्यार्थो निर्द्दिश्यते, तत्र अनिर्द्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति (पु।प।90) इति भाव एव तुमुन् भवतीति विज्ञायते। यदुक्तम् - लृटा क्रियार्थोपपदेन बाध्यत इति,तद्विघटयितुमाह - वासरूपविधिना`इत्यादि। `एवं तर्हि इत्यादि। एतेन ज्ञापकार्थतां ण्वुल्विधानस्याचष्टे। यदि हि क्रियायामुपपदे क्रियार्थायां वासरूपेण तृजादयः स्युर्ण्वुलपि तृजर्थाभिधायित्वाद्वासरूपविधिना भविष्यन्तीति पुनरिह तन्न विदध्यात्, विहितवांश्च;ततस्तेन ण्वुल्विधानेनास्मिन् विषये वासरूपेण तृजादयो न भवन्तीत्येषोऽर्थो विज्ञाप्यते। तेन इत्यादिना ज्ञापनस्य प्रयोजनं दर्शयति। कर्ता इति। तृच्। विक्षिपः इति। इगुपधज्ञाप्रीकिरः कः (3.1.135) । तुमुनो नकार आद्युदात्तार्थः, उकार उच्चारणार्थः। ण्वुलो लकारो लिति प्रत्ययात् पूर्वस्योदात्तार्थः, णकारो वृद्ध्यर्थः॥

Prakriyasarvasvam

धातोः स्वाभिधेयक्रियासिद्धयर्थे क्रियान्तर उपपदे भविष्यदर्थे एतौ स्तः । तुमुनो नित्त्वं स्वरार्थम् । उकारः उक्त्यर्थः । तृज्वत् प्रक्रिया । भोक्तुम् । कृदन्तत्वात् सुपि कर्तव्ये, <karika> तुमुन्क्त्वाप्रत्ययादीनां सत्त्वभूतार्थवर्जनात् । सामान्योक्तः सुरेव स्यादिति न्यासादिषु स्थितम् ॥ १३७ ॥ </karika> भोक्तुं सु ।

Sutra Prayogas

  • विकरितुं (शिशुपालवधम्): तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् इति तुमुन्प्रत्ययः।

  • आख्यायकः (भट्टिकाव्यम्): तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् इति भविष्यदधिकारात् ण्वुल्।